हरिवंश · अध्याय 83
एतस्मिन्न् एव काले तु स्मृत्वा गोपेषु यत्कृतम्
जगामैको व्रजं रामः कृष्णस्यानुमते स्वयम् ॥
स तत्र गत्वा रम्याणि ददर्श विपुलानि वै
भुक्तपूर्वाण्य् अरण्यानि सरांसि सुरभीणि च ॥
स प्रविष्टः प्रवेगेन तं व्रजं कृष्णपूर्वजः
वन्येन रमणीयेन वेषेणालंकृतः प्रभुः ॥
स तान् सर्वान् आबभाषे यथापूर्वं यथाविधि
गोपंस् तेनैव विधिना यथान्यायं यथावयः ॥
तथैव प्राह तान् सर्वांस् तथैव परिहर्षयन्
तथैव सह गोपीभी रोचयन् मधुराः कथाः ॥
तम् ऊचुः स्थविरा गोपाः प्रियं मधुरभाषिणः
रामं रमयतां श्रेष्ठं प्रवासात् पुनरागतम् ॥
स्वागतं ते महाबाहो यदूनां कुलनन्दन
जीवितस्य फलं प्राप्तम् अद्य ते दर्शनेन च ।
अद्य स्मो निर्वृतास् तात यत् त्वां पश्याम निर्वृतम् ॥
प्रीताश् चैव वयं वीर यत् त्वं पुनर् इहागतः
विख्यातस् त्रिषु लोकेषु रामः शत्रुभयंकरः ॥
वर्धनीया वयं नूनं त्वया यादवनन्दन
अथ वा प्राणिनस् तात रमन्ते जन्मभूमिषु ॥
त्रिदशानां वयं मान्या ध्रुवम् अद्यामलानन
ये स्म दृष्टास् त्वया तात काङ्क्षमाणास् तवागमम् ॥
दिष्ट्या ते निहता मल्लाः कंसश् च विनिपातितः
उग्रसेनो ऽभिषिक्तश् च माहात्म्येनानुजेन वै ॥
समुद्रे च श्रुतो ऽस्माभिस् तिमिना सह विग्रहः
वधः पञ्चजनस्यैव जरासंधेन विग्रहः ।
गोमन्ते च श्रुतो ऽस्माभिः क्षत्रियैः सह विग्रहः ।
दरदस्य वधश् चैव जरासंधे च या मतिः ।
तच् चायुधावतरणं श्रुतं नः परमाहवे ॥
मथुरायां प्रवेशश् च कीर्तनीयः सुरैर् अपि
प्रतिष्ठिता च वसुधा शङ्किताः सर्वपार्थिवाः ॥
तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा
तेन स्म परितुष्टाश् च हृषिताश् च सबान्धवाः ॥
प्रत्युवाच ततो रामः सर्वांस् तान् अभितः स्थितान्
यादवेष्व् अपि सर्वेषु भवन्तो मम बान्धवाः ॥
सहास्माभिर् गतं बाल्यं सहास्माभी रतं वने
भवद्भिर् वर्धिताश् चैव कथं यास्याम विक्रियाम् ॥
गृहेषु भवतां भुक्तं गावश् च परिरक्षिताः
अस्माकं बान्धवाः सर्वे भवन्तो बद्धसौहृदाः ॥
एवं भुवति सत्त्वं वै गोपमध्ये हलायुधे
संहृष्टवदनास् तत्र बभूवुर् गोपयोषितः
एवं बहुविधालापं कृत्वा गोपैस् तु लाङ्गली ।
जगाम यमुनातीरं पश्यन् वृन्दावनं मुदा ।
ततो वनान्तरगतो रेमे रामो महाबलः ॥
एतस्मिन्न् अन्तरे गोपा रामाय विदितात्मने
गोपालैर् देशकालज्ञैर् उपानीयत वारुणी ॥
सो ऽपिबत् पाण्डुराभ्राभस् तत्कालं ज्ञातिभिर् वृतः
वनान्तरगतो रामः पानं मदसमीरणम् ॥
उपजह्रुस् ततस् तस्मै वन्यानि विविधानि च
प्रत्यग्ररमणीयानि पुष्पाणि च फलानि च ॥
मेध्यांश् च विविधान् भक्षान् गन्धांश् च हृदयं गमान्
सद्योद्धृतावमुक्तं च प्रभूतं कमलोत्पलम् ॥
शिरसा चारुकेशेन किंचिद् आवृत्तमौलिना
श्रवणैकावलम्बेन कुण्डलेन विराजता ॥
चन्दनागरुशीतेन वनमालावलम्बिना
विबभाव् उरसा रामः कैलासेनेव मन्दरः ॥
नीले वसानो वसने प्रत्यग्रजलदप्रभे
रराज वपुषा शुभ्रः शशीव घनमालया ॥
लाङ्गलेनावसक्तेन भुजगाभोगवर्तिना
तथा भुजाग्रश्लिष्टेन मुसलेन च भास्वता ॥
स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः
शैशिरीष्व् इव रात्रीषु यथा खेदालसः शशी ॥
स मत्तो यमुनाम् आह स्नातुम् इच्छे महानदि
इहैव माभिगच्छस्व रूपिणी सागरंगमे ॥
संकर्षणस्य मत्तोक्तां भारतीं परिभूय सा
नाभ्यवर्तत तं देशं स्त्रीस्वभावेन मोहिता ॥
ततश् चुक्रोध बलवान् रामो मदसमीरितः
चकार च हलं हस्ते कर्षणाधोमुखं बली ॥
तस्यां तु पानमेदिन्यां पेतुस् तामरसस्रजः
मुमुचुः पुष्पकोशैश् च स्वं रजोरञ्जितं जलम् ॥
स हलेनानन्ताग्रेण तीरे गृह्य महानदीम्
चकर्ष यमुनां रामो व्युत्थितां वनिताम् इव ॥
सा विह्वलजलस्रोता ह्रदप्रस्थितसंचया
व्यावर्तत नदी भीता हलमार्गानुसारिणी ॥
लाङ्गलाकृष्टमार्गा सा वेगवक्रानुगामिनी
संकर्षणभयत्रस्ता योषेवाकुलतां गता ॥
स्रोतःपुलिनबिम्बोष्ठी मृदितैस् तोयताडितैः
फेनमेखलसूत्रैश् च चिह्नैस् तीरानुहासिभिः ॥
तरंगविषमापीडा चक्रवाकोन्मुखस्तनी
वेगगम्भीरवक्राङ्गी त्रस्तमीनवहंगमा ॥
सा तु हंसेक्षणापाङ्गी काशक्षौमोज्झिताम्बरा
तीरजोद्धूतकेशान्ता जलस्खलितगामिनी ॥
लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागरंगमा
शैवालमलदिग्धाङ्गी घनबुद्बुदविक्लवा ।
मत्तेव कुटिला नारी राजमार्गेण गच्छती ॥
कृष्यते सा स्म वेगेन स्रोतःस्खलितगामिनी
उन्मार्गानीतमार्गा सा येन वृन्दावनं वनम् ॥
वृन्दावनस्य मध्येन सा नीता यमुना नदी
रोरूयमाणैः खगमैर् अन्विता तीरवासिभिः ॥
सा यदा समतिक्रान्ता नदी वृन्दावनं वनम्
ततः स्त्रीविग्रहा भूत्वा यमुना रामम् अब्रवीत् ॥
प्रसीद राम भीतास्मि प्रतिलोमेन कर्मणा
विपरीतम् इदं रूपं तोयं च मम जायते ॥
असत्यहं नदीमध्ये रौहिणेय त्वया कृता
रौहिणेय हसिष्यति मां नन्दः संगता त्वया ।
कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ॥
प्राप्तां मां सागरे नूनं सपत्न्यो वेगगर्विताः
फेनहासैर् हसिष्यन्ति तोयव्यावृत्तगामिनीम् ॥
प्रसादं कुरु मे वीर याचे त्वां कृष्णपूर्वज
सुप्रसन्नमना नित्यं भवस्व त्वं सुरोत्तम ।
कर्षणायुधकृष्टास्मि रोषो ऽयं विनिवर्त्यताम् ॥
एषा मूर्ध्नाभिगच्छामि चरणौ ते हलायुध
मार्गम् आदिष्टम् इच्छामि क्व गच्छामि महाभुज ॥
ताम् एवं ब्रुवतीं द्र्ष्ट्वा यमुनां लाङ्गलायुधः
प्रत्युवाचार्णववधूं मदाक्रान्तालसो बलः ॥
लाङ्गलाकृष्टमार्गा त्वम् इमं मे प्रियदर्शने
देशम् अम्बुप्रदानेन निखिलं भावयस्व नः ॥
एष ते सुभ्रु संदेशः कथितः सागरंगमे
शान्तिं व्रज महाभागे गम्यतां च यथासुखम्
लोका हि यावत् स्थास्यन्ति तावत् स्थास्यति मे यशः ॥
यमुनाकर्षणं दृष्ट्वा सव्रे ते व्रजवासिनः
साधु साध्व् इति रामाय प्रणामं चक्रिरे तदा ॥
तां विसृज्य महावेगां तांश् च सर्वान् व्रजौकसः
ततः संचिन्त्य मनसा बुद्ध्या निश्चित्य चैव ह
पुनः प्रतिजगामाशु मथुरां रोहिणीसुतः ॥
स गत्वा मथुरां रामो भवने मधुसूदनम्
परिवर्तमानं ददृशे पृथिव्याः सारम् अव्ययम् ॥
तथैव वनवेषेण सोपसृप्तो जनार्दनम्
प्रत्यग्रवनमालेन वक्षसाभिविराजता ॥
स दृष्ट्वा तूर्णम् आयान्तं रामं लङ्गलधारिणम्
सहसोत्थाय गोविन्दो ददाव् आसनम् उत्तमम् ॥
उपविष्टं ततो रामं पप्रच्छ कुशलं व्रजे
बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥
प्रत्युवाच ततो रामो भ्रातरं साधुभाषिणम्
सर्वत्र कुशलं कृष्ण येषां कुशलम् इच्छसि ॥
ततस् तयोर् विचित्राश् च पौराण्यश् च कथाभवन्
वसुदेवाग्रतः पुण्या रामकेशवयोस् तदा ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0