भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 82

82.1

ततो युद्धानि वृष्णीनां बभूव सुमहान्त्य् अथ
मागधस्य महामात्यैर् नृपैश् चैवानुयायिभिः ॥

82.2

रुक्मिणा वासुदेवस्य भीष्मकस्याहुकेन च
क्राथस्य वसुदेवेन कौशिकस्य च बभ्रुणा
गदेन चेदिराजस्य दन्तवक्त्रस्य शंभुना ॥

82.3

तथान्यैर् वृष्णिवीराणां नृपाणां च महात्मनाम्
युद्धम् आसीद् धि सैन्यानां सैनिकैर् भरतर्षभ ॥

82.4

गजैर् गजा हयैर् अश्वाः पदाताश् च पदातिभिः
रथा रथैर् विमिश्रैश् च योधा युयुधिरे नृप ॥

82.5

जरासंधस्य रज्ञस् तु रामेणासीत् समागमः
महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः ॥

82.6

अन्येषां सुमहान् आसीद् बलौघानां परिक्षयः
उभयोः सेनयो राजन् मांसशोणितकर्दमः ॥

82.7

कबन्धानि समुत्तस्थुः सुबहूनि समन्ततः
पिशाचा राक्षसाश् चैव मांसशोणितलालसाः ।
तस्मिन् विमर्दे योधानां संख्याव्यक्तिर् न विद्यते ॥

82.8

रथी रामो जरासंधं शरैर् आशीविषोपमैः
आवृन्वन्न् अभ्ययाद् वीरस् तं च राजा स मागधः ॥

82.9

तौ क्षीनशस्त्रौ विरथौ हताश्वौ हतसारथी
गदे गृहीत्वा विक्रान्ताव् अन्योन्यम् अभिधावताम् ॥

82.10

कम्पयन्तौ भुवं वीरौ ताव् उद्यतमहागदौ
ददृशाते महात्मानौ गिरी सशिखराव् उभौ ॥

82.11

व्युपारमन्त युद्धानि प्रेक्षन्तौ पुरुषर्षभौ
संरब्धाव् अभिधावन्तौ गदायुद्धेषु विश्रुतौ ॥

82.12

उभौ तौ परमाचार्यौ लोके ख्यातौ महाबलौ
मत्ताव् इव गजौ युद्धे अन्योन्यम् अभिधावताम् ॥

82.13

ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
समन्ततश् चाप्सरसः समाजग्मुः सहस्रशः ॥

82.14

तद् देवयक्षगन्धर्व महर्षिभिर् अलंकृतम्
शुशुभे ऽभ्यधिकं राजन् दिवं ज्योतिर् गणैर् इव ॥

82.15

अभिदुद्राव रामं तु जरासंधो महाबलः
सव्यं मण्डलम् आवृत्य बलदेवस् तु दक्षिणम् ॥

82.16

तौ प्रजह्रुर् अन्योन्यं गदायुद्धविशारदौ
दन्ताभ्याम् इव मातङ्गौ नादयन्तौ दिशो दश ॥

82.17

गदानिपातो रामस्य शुश्रुवे ऽशनिनिस्वनः
जरासंधस्य चरणे पर्वतस्येव दीर्यतः ॥

82.18

न स्म कम्पयते रामं जरासंधकरच्युता
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिम् इवाचलम् ॥

82.19

रामस्य तु गदावेगं वीर्यात् स मगधेश्वरः
सेहे धैर्येण महता शिक्षया च व्यपोहयत् ॥

82.20

ततो ऽन्तरिक्षे वाग् आसीत् सुस्वरा लोकसाक्षिणी
उवाच बलदेवं तं समुद्यतहलायुधम् ।
न त्वया राम वध्यो ऽयम् अलं खेदेन माधव ॥

82.21

विहितो ऽस्य मया मृत्युस् तस्मात् साधु व्युपारम
अचिरेणैव कालेन प्राणांस् त्यक्ष्यति मागधः ॥

82.22

जरासंधस् तु तच् छ्रुत्वा विमनाः समपद्यत
न प्रजह्रे ततस् तस्मै पुनर् एव हलायुधः
तौ व्युपारमतां चैव वृष्णयस् ते च पार्थिवाः ॥

82.23

प्रसक्तम् अभवद् युद्धं तेषाम् एव महात्मनाम्
दीर्घकालं महाराज निघ्नताम् इतरेतराम् ॥

82.24

पराजिते त्व् अपक्रान्ते जरासंधे महीपतौ
अस्तं याते दिनकरे नानुसस्रुस् तदा निशि ॥

82.25

समानीय स्वसैन्यं तु लब्धलक्ष्या महाबलाः
पुरीं प्रविविशुर् हृष्टाः केशवेनाभिपूजिताः ॥

82.26

जरासंधं तु ते जित्वा मन्यन्ते नैव तं जितम्
वृष्णयः कुरुशार्दूल राजा ह्य् अतिबलः स वै ॥

82.27

दश चाष्टौ च संग्रामाञ् जरासंधस्य यादवाः
ददुर् न चैनं समरे हन्तुं शेकुर् महारथाः ॥

82.28

अक्षौहिण्यो हि तस्यासन् विंशतिर् भरतर्षभ
जरासंधस्य नृपतेस् तदर्थं याः समागताः ॥

82.29

अल्पत्वाद् अभिभूतास् तु वृष्णयो भरतर्षभ
बार्हद्रथेन राजेन्द्र राजभिः सहितेन वै ॥

82.30

जित्वा तु मागधं संख्ये जरासंधं महीपतिम्
विहरन्ति स्म सुखिनो वृष्णिसिंहा महारथाः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc