हरिवंश · अध्याय 81
मथुरोपवने गत्वा निविष्टांस् तान् नराधिपान्
अपश्यन् वृष्णयः सर्वे पुरस्कृत्य जनार्दनम् ॥
ततो हृष्टमनाः कृष्णो रामं वचनम् अब्रवीत्
त्वरते खलु कार्यार्थो देवतानां न संशयः ॥
यथायं संनिकृष्टो हि जरासंधो नराधिपः
लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् ॥
एतानि शशिकल्पानि नराणां विजिगीषताम्
छत्राण्य् आर्य विराजन्ते प्रोच्छ्रितानि सितानि च ॥
अहो नृपरथोदग्रा विमलाश् छत्रपङ्क्तयः
अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥
काले खलु नृपः प्राप्तो जरासंधो महीपतिः
आवयोर् युद्धनिकषः प्रथमः समरातिथिः ॥
आर्य तिष्ठाव सहिताव् अनुप्राप्ते महीपतौ
युद्धारम्भः प्रयोक्तव्यो बलं तावद् विमृश्यताम् ॥
एवम् उक्त्वा ततः कृष्णः स्वस्थः संग्रामलालसः
जरासंधम् अभिप्रेप्सुश् चकार बलदर्शनम् ॥
वीक्षमाणश् च तान् सर्वान् नृपान् यदुवरो ऽव्ययः
आत्मानम् आत्मना वाक्यम् उवाच हृदि मन्त्रवित् ॥
इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः
ये विनाशम् इहेष्यन्ति शास्त्रदृष्टेन कर्मणा ॥
प्रोक्षिताः खल्व् इमे मन्ये मृत्युना नृपपुंगवाः
स्वर्गगानि तथा ह्य् एषां वपूंषि प्रचकाशिरे ॥
स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता
एषां नृपतिमुख्यानां बलौघैर् अभिपीडिता
भूमिर् निरन्तरा चेयं बलराष्ट्राभिसंवृता ॥
स्वल्पेन खलु कालेन विविक्तं पृथिवीतलम्
भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः ॥
जरासंधस् ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम्
नराधिपसहस्रौघैर् अनुयातो महाद्युतिः ॥
व्यायतोदग्रतुरगैः सयन्त्रैः सुसमाहितैः
रथैः सांग्रामिकैर् युक्तैर् असङ्गगतिभिः क्व चित् ॥
हेमकक्ष्यैर् महाघण्टैर् वारणैर् वारिदोपमैः
महामात्रोत्तमारूढैः कल्पितै रणकोविदैः ॥
स्वारूढैः सादिभिर् युक्तैः प्रेक्षमाणैः प्रवल्गितैः
वाजिभिर् मेघसंकाशैः प्लवद्भिर् इव पत्तिभिः ॥
खड्गचर्मधरोदग्रैः पत्तिभिर् वल्गिताम्बरैः
सहस्रसंख्यासंयुक्तैर् उत्पतद्भिर् इवोरगैः ॥
एवं चतुर्विधैः सैन्यैः कम्पमानैर् इवाम्बुदैः
नृपो ऽभियातो बलवाञ् जरासंधो धृतव्रतः ॥
स रथैर् मेघनिर्घोषैर् गजैश् च मदशिञ्चितैः
हेषमाणैश् च तुरगैः क्ष्वेडमाणैश् च पत्तिभिः ॥
नादयानो दिशः सर्वास् तस्याः पुर्या वनानि च
अक्षौहिण्या च विंशत्या अनुयातो नराधिपः ।
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ॥
तद् बलं पृथिवीशानां दृप्तयोधजनाकुलम्
क्ष्वेडितास्फोटितरवं मेघसैन्यम् इवाबभौ ॥
रथैः पवनसंपातैर् गजैश् च जलदोपमैः
तुरगैश् च जवोपेतैः पत्तिभिः खगमैर् इव ॥
विमिश्रं सर्वतो भाति मत्तद्विपरथाकुलम्
घर्मान्ते सागरगतं यथैवाभ्रबलं तथा ॥
सबलास् ते महीपाला जरासंधपुरोगमाः
परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे ॥
बभौ तस्य निविष्टस्य बलश्रीः शिबिरस्य वै
शुक्लपर्यन्तपूर्णस्य यथा रूपं महोदधेः ॥
वीतरात्रे ततः काले समुत्तस्थुर् महीक्षितः
आरोहणार्थं पुर्यास् ते समीयुर् युद्धलालसाः ॥
समवायीकृताः सर्वे यमुनाम् अनु ते नृपाः
निविष्टा मन्त्रयामासुर् युद्धकालकुतूहलाः ॥
तेषां सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम्
युगान्ते भिद्यमानानां सागराणां यथा स्वनः ॥
तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः
चेरुर् मा शब्द इत्य् एवं ब्रुवन्तो राजशसनात् ॥
तस्य रूपं बलस्यासीन् निःशब्दस्तिमितस्य वै
लीनमीनग्रहस्येव निःशब्दस्य महोदधेः ॥
निःशब्दस्तिमिते तस्मिन् योगाद् इव महार्णवे
जरासंधो बृहद् वाक्यं बृहस्पतिर् इवाददे ॥
शीघ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम्
सर्वतो नगरी चेयं जनौघैः परिवार्यताम् ॥
अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश् च मुद्गराः
कार्या भूमिः समा सर्वा जलौघैश् च परिप्लुता ।
ऊर्ध्वं चापानि वाह्यन्तां प्रासा वै तोमरास् तथा ॥
दार्यतां चैव टङ्कौघैः खनित्रैश् च पुरी द्रुतम्
नृपश् च युद्धमार्गज्ञा विन्यस्यन्ताम् अदूरतः ॥
अद्यप्रभृति सैन्यैर् मे पुरीरोधः प्रवर्त्यताम्
यावद् एतौ रणे गोपौ वसुदेवसुताव् उभौ ।
संकर्षणं च कृष्णं च घातयामि शितैः शरैः ।
आकाशम् अपि बाणौघैर् निःसंपातं यथा भवेत् ॥
मयानुशिष्टास् तिष्ठन्तु पुरीभूमिषु पार्थिवाः
तेषु तेष्व् अवकाशेषु शीघ्रम् आरुह्यतां पुरी ॥
मद्रः कलिङ्गाधिपतिश् चेकितानः सबाह्लिकः
कश्मीरराजो गोनर्दः करूषाधिपतिस् तथा ॥
द्रुमः किंपुरुषश् चैव पार्वतीयष् च दामनः
नगर्याः पश्चिमं द्वारं क्षिप्रम् आरोहयन्त्व् इति ॥
पौरवो वेणुदारिश् च वैदर्भः सोमकस् तथा
रुक्मी च भोजाधिपतिः सूर्याक्षश् चैव मालवः ॥
विन्दानुविन्दाव् आवन्त्यौ दन्तवक्त्रश् च वीर्यवान्
दक्षिणं नगरद्वारं शीघ्रम् आरोधयन्त्व् इति ।
छागलिः पुरुमित्रश् च विराटश् च महीपतिः ॥
कौशाम्ब्यो मालवश् चैव शतधन्वा विदूरथः
भूरिश्रवास् त्रिगर्तश् च बाणः पञ्चनदस् तथा ॥
उत्तरं नगरद्वारम् एते दुर्गसहा नृपाः
आरोहन्तां विमर्दन्तां वज्रप्रतिमगौरवाः ॥
उलूकः कैतवेयश् च वीरश् चांशुमतः सुतः
एकलव्यो बृहत्क्षत्रः क्षत्रधर्मा जयद्रथः ॥
उत्तमौजाश् च शल्यश् च कौरवाः कैकयास् तथा
वैदिशो वामदेवश् च साकेतश् च सिनीपतिः ॥
पूर्वं नगरनिर्व्यूहम् एतेष्व् आयत्तम् अस्तु वः
त्वरयन्तो ऽभिधावन्तु वाता इव बलाहकान् ॥
अहं च दरदश् चैव चेदिराजश् च संगताः
दक्षिणं नगरद्वारं पालयिष्याम दंशिताः ॥
एवम् एषा पुरी क्षिप्रं समन्ताद् वेष्टिता बलैः
वज्रावपातप्रतिमं प्राप्नोतु तुमुलं भयम् ॥
गदिनो ये गदाभिस् ते परिघैः परिघायुधाः
अपरे विविधैः शस्त्रैर् दारयन्तु पुरीम् इमाम् ॥
अद्यैव तु नगर्य् एषा विषमोच्चयसंकटा
कार्या भूमिसमा सर्वा भवद्भिर् वसुधाधिपैः ॥
चतुरङ्गबलं व्यूह्य जरासंधो व्यवस्थितः
अथाभ्ययाद् यदून् क्रुद्धः सह सर्वैर् नराधिपैः
प्रतिजग्मुर् दशार्हास् तं व्यूढानीकाः प्रहारिणः ॥
तद् युद्धम् अभवद् घोरं तेषां देवासुरोपमम्
अल्पानां बहुभिः सार्धं व्यतिषक्तरथद्विपम् ॥
नगरान् निःसृतौ दृष्ट्वा वसुदेवसुताव् उबौ
क्षुब्धं नरवरानीकं त्रस्तसंमूढवाहनम् ॥
रथस्थौ दंशितौ चैव चेरतुस् तत्र यादवौ
मकराव् इव संरब्धौ समुद्रक्षोभणाव् उभौ ॥
ताभ्यां मृधे प्रयुक्ताभ्यां यादवाभ्यां मतिर् बभौ
तयोः प्रयुध्यतोः संख्ये मतिर् आसीद् धृतात्मनोः ।
आयुधानां पुराणानाम् आदाने कृतलक्षणा ॥
ततः खान् निपतन्ति स्म दीप्तान्य् आहवसंप्लवे
लेलिहानानि दिव्यानि महान्ति सुदृढानि च ॥
क्रव्यादैर् अनुयातानि मूर्तिमन्ति बृहन्ति च
तृषितान्य् आहवे भोक्तुं नृपमांसानि वै भृशम् ॥
दिव्यस्रग्दामधारीणि त्रासयन्ति नभश्चरान्
प्रभया भासमानानि दंशितानि दिशो दश ॥
हलं संवर्तकं नाम सौनन्दं मुसलं तथा
धनुषां प्रवरं शार्ङ्गं गदा कौमोदकी च ह ॥
चत्वार्य् एतानि तेजांसि विष्णुप्रहरणानि च
ताभ्यां समवतीर्णानि यादवाभ्यां महारणे ॥
जग्राह प्रथमं रामो ललामप्रतिमं हलम्
तं सर्पम् इव सर्पन्तं दिव्यमालाकुलं मृधे ॥
सौनन्दं च ततः श्रीमान् निरानन्दकरं द्विषाम्
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ॥
दर्शनीयं च लोकेषु धनुर् जलदनिस्वनम्
नाम्ना शार्ङ्गम् इति ख्यातं विष्णुर् जग्राह वीर्यवान् ॥
देवैर् निगदितार्थस्य गदा तस्यापरे करे
विषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥
तौ सप्रहरणौ वीरौ साक्षाद् विष्णोस् तनूपमौ
समरे रामगोविन्दौ रिपूंस् तान् प्रत्ययुध्यताम् ॥
सायुधप्रग्रहौ वीरौ ताव् अन्योन्यमयाव् उभौ
पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ॥
हलम् उद्यम्य रामस् तु सर्पेन्द्रम् इव कोपितः
चचार समरे वीरो द्विषताम् अन्तको यथा ॥
विकर्षन् रथयूथानि क्षत्रियाणां महात्मनाम्
चकार रोषं सफलं नागेषु च हयेषु च ॥
कुञ्जरांल् लाङ्गलक्षिप्तान् मुसलाक्षेपताडितान्
रामो विराजन् समरे निर्ममन्थ यथाचलान् ॥
ते विध्यमाना रामेण समरे क्षत्रियर्षभाः
जरासंधान्तिकं वीराः समरार्ताः प्रजग्मिरे ॥
तान् उवाच जरासंधः क्षत्रधर्मे व्यवस्थितः
धिग् एतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥
परावृत्तस्य समरे विरथस्य पलायतः
भ्रूणहत्याम् इवासह्यां प्रवदन्ति मनीषिणः ॥
भीताः कस्मान् निवर्तध्वं धिग् एतां क्षत्रवृत्तिताम्
क्षिप्रं समभिवर्तध्वं मम वाक्येन चोदिताः
अथ वा तिष्ठत रथैः प्रेक्षकाः समवस्थिताः ।
यावद् एतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥
ततस् ते क्षत्रियाः सर्वे जरासंधेन चोदिताः
सृजन्तः शरजालानि हृष्टा योद्धुं व्यवस्थिताः ॥
ते हयैः काञ्चनापीडै रथैश् चाम्बुदनादिभिः
नागैश् चाम्भोदसंकाशैर् महामात्रप्रचोदितैः ॥
सतनुत्राः सनिस्त्रिंशाः सपताकायुधध्वजाह्.
स्वारोपितधनुष्मन्तः सुतूणीराः सतोमराः ॥
सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः
रणे ते ऽभिगता रेजुः स्यन्दनस्था महीक्षितः ॥
ते युद्धरागा रथिनो व्यगाहन्त युधां वराः
गदाभिश् चैव गुर्वीभिः क्षेपणीयैश् च मुद्गरैः ॥
सुपर्णधजम् आस्थाय कृष्णस् तु रथम् उत्तमम्
तदाभ्ययाज् जरासंधं शरैर् विव्याध चाष्टभिः ॥
सारथिं चास्य विव्याध पञ्चभिर् निशितैः शरैः
जघान तुरगांश् चाजौ यतमानस्य वीर्यवान् ॥
तं कृच्छ्रगतम् आज्ञाय चित्रसेनो महारथः
सेनानीः कौशिकश् चैव कृष्णं विव्याधतुः शरैः ॥
त्रिभिर् विव्याध संसक्तं बलदेवं च कौशिकः
बलदेवो धनुश् चास्य भल्लेनाजौ द्विधाकरोत्
जवेनाभ्यर्दयच् चापि तान् अरीञ् शरवृष्टिभिः ॥
तं चित्रसेनः संरब्धो विव्याध नवभिः शरैः
कौशिकः पञ्चभिश् चापि जरासंधश् च सप्तभिः ॥
त्रिभिस् त्रिभिश् च नाराचैस् तान् बिभेद जनार्दनः
धनुर् अन्यत् समादाय मगधेन्द्रो महीपतिः ।
उग्रसेनं समाजघ्ने शरेण निशितेन ह ॥
स शरो ऽथ महाराज राजानं स व्यचूचुदत् ।
पिता कंसस्य राजेन्द्र शरैर् विव्याध सप्तभिः ॥
सप्तत्या च जरासंधं पुनश् च नवभिः शरैः ।
जरासंधः समाजघ्ने राजानं यदुनन्दनम् ।
शरैर् दशसहस्रैश् च माधवस्य हि पश्यतः ॥
उग्रसेनो धनुष्पाणिर् धनुश् चास्य द्विधाकरोत् ॥
पुनर् आदाय चापं तु जरासंधः प्रतापवान् ।
उग्रसेनं विंशतिभिः शरैः सुनिशितैर् अपि ॥
विव्याध राजराजानं बलदेवस्य पश्यतः ।
धनुश् चास्य द्विधा राजन् मुष्टिदेशे तथाकरोत् ॥
आदाय निशितं बाणं जरासंधः प्रतापवान् ।
विव्याध राजन् राजेन्द्रो राजानं हृदये प्रभुः ॥
अश्वांश् चैव प्रचिच्छेद शरेण नतपर्वणा ।
रथं चास्य द्विधा चक्रे ध्वजं च प्रादुनोन् नृपः ॥
रथाच् चैव प्रदुद्राव वृष्णीनां नृपसत्तमः ॥
कौशिकश् चित्रसेनश् च जरासंधो महीपतिः ।
जनार्दनं महाराज समाजघ्नुस् त्रिभिस् त्रिभिः ।
जरासंधः शरैर् भग्नो वसुदेवस्य पश्यतः ।
पञ्चभिः पञ्चभिश् चैव बलदेवः शितैः शरैः ॥
रथेषां चापि चिच्छेद चित्रसेनस्य वीर्यवान्
बलदेवो धनुश् चाजौ भल्लेनास्य द्विधाकरोत् ॥
स च्छिन्नधन्वा विरथो गदाम् आदाय वीर्यवान्
अभ्यद्रवत् सुसंक्रुद्धो जिघांसुर् मुसलायुधम् ॥
सिसृक्षतस् तु नाराचांश् चित्रसेनवधैषिणः
धनुश् चिच्छेद रामस्य जरासंधो महाबलः
गदया च जघानाश्वान् कोपात् स मगधेश्वरः ॥
आदाय मुसलं रामो जरासंधम् उपाद्रवत्
तयोस् तु युद्धम् अभवत् परस्परवधैषिणोः ॥
ततः सैन्येन महता जरासंधो ऽभिसंवृतः
रामकृष्णाग्रगान् भोजान् आससाद महाबलः ॥
ततः प्रक्षुभितस्येव सागरस्य महास्वनः
प्रादुर् बभूव तुमुलः सेनयोर् उभयोस् तयोः ॥
वेणुभेरीमृदङ्गानां शङ्खानां च सहस्रशः
उभयोः सेनयो राजन् प्रादुर् आसीन् महास्वनः ॥
क्ष्वेडितास्फोटितोत्क्रुष्टैस् तुमुलः सर्वतो ऽभवत्
उत्पपात रजश् चापि खुरनेमिसमुद्धतम् ॥
समुद्यतमहाशस्त्राः प्रगृहीतशरासनाः
अन्योन्यम् अभिगर्जन्तः शूरास् तत्रावतस्थिरे ॥
रथिनः सादिनश् चैव पत्तयश् च सहस्रशः
गजाश् चातिबलास् तत्र संनिपेतुर् अभीतवत् ॥
स संप्रहारस् तुमुलस् त्यक्त्वा प्राणान् अवर्तत
वृष्णीभिः सह योधानां जरासंधस्य दारुणः ॥
ततः शिनिर् अनाधृष्टिर् बभ्रुर् विपृथुर् आहुकः
बलदेवं पुरस्कृत्य सैन्यस्यार्धेन दंशिताः ॥
दक्षिणं पक्षम् आसेदुः शत्रुसैन्यस्य भारत
पालितं चेदिराजेन जरासंधेन चाभिभो ॥
उदीच्यैश् च महावीर्यैः शल्यसाल्वादिभिर् नृपैः
सृजन्तः शरवर्षाणि समभित्यक्तजीविताः ॥
आगावहः पृथुः कह्वः शतद्युम्नो विदूरथः
हृषीकेशं पुरस्कृत्य सैन्यस्यार्धेन दंशिताः ॥
भीष्मकेणाभिगुप्तस्य रुक्मिणा च महात्मना
देवकेनापि राजेन्द्र तथा मद्रेश्वरेण च ।
प्राच्यैश् च दाक्षिणात्यैश् च गुप्तवीर्यबलान्वितैः ॥
तेषां युद्धं समभवत् समभित्यक्तजीवितम्
शक्त्यृष्टिप्रासबाणौघान् सृजतां तुमुलं महत् ॥
सात्यकिश् चित्रकः श्यामो युयुधानश् च वीर्यवान्
राजाधिदेवो मृदुरः श्वफल्कश् च महाबलः ॥
सत्राजिच् च प्रसेनश् च बलेन महता वृताः
व्यूहस्य पक्षं ते सव्यं प्रतीयुर् द्विषतां मृधे ॥
व्यूहस्यार्धं समासेदुर् मृदुरेणाभिरक्षितम्
तत्र युद्धं समभवन् महद् देवासुरोपमम् ।
अल्पानां बहुभिः सर्धं वासुदेवव्यपाश्रयात् ॥
एवं युद्धम् अभूत् तेषां शूराणां हर्षवर्धनम् ।
भीरूणां त्रासजननं यमराष्ट्रविवर्धनम् ।
राजभिश् चापि बहुभिर् वेणुदारिमुखैः सह ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0