हरिवंश · अध्याय 80
कस्य चित् त्व् अथ कालस्य राजा राजगृहेश्वरः
शुश्राव निहतं कंसं जरासंधः प्रतापवान् ॥
आजगाम षडङ्गेन बलेन महता वृतः
कृष्णस्य वधम् अन्विच्छन् मधुराम् अन्ववर्तत ।
जिघांसुर् हि यदून् क्रुद्धः कंसस्यापचितिं चरन् ॥
अस्तिः प्राप्तिश् च नाम्नास् तां मागधस्य सुते नृप
ते द्वे च कंसराजाय ददौ हृष्टः स मागधः ॥
तेन ते विधवे स्याताम् उभे कृष्णेन मागधे ।
जीवत्य् एव तथा राजन् वीरे राज्ञां पुरोगमे ।
जरासंधस्य कल्यान्यौ पीनश्रोणिपयोधरे
उभे कंसस्य ते भार्ये प्रादाद् बार्हद्रथो नृपः ॥
स ताभ्यां मुमुदे राजा बध्वा पितरम् आहुकम्
समाश्रित्य जरासंधम् अनादृत्य च यादवान्
शूरसेनेश्वरो राजा यथा ते बहुशो श्रुतः ॥
ज्ञातिकार्यार्थसिद्ध्यर्थम् उग्रसेनहिते स्थितः
वसुदेवो ऽभवन् नित्यं कंसो न ममृषे च तम् ॥
रामकृष्णौ व्यपाश्रित्य हते कंसे दुरात्मनि
उग्रसेनो ऽभवद् राजा भोजवृष्ण्यन्धकैर् वृतः ॥
दुहितृभ्यां जरासंधः प्रियाभ्यां बलवान् नृपः
प्रियार्थं वीरपत्नीभ्याम् उपायान् मथुरां ततः
स तद् अप्रियम् आकर्ण्य शोकामर्षयुतो नृपः ।
अयादवीं महीं कर्तुं चक्रे परमम् उद्यमम् ॥
अक्षौहिणीभिर् विंशत्या तिसृभिश् चापि संयुतः ।
यदुराजधानीं मथुरां रोद्धुम् अभ्यागतो नृपः ।
कृत्वा सर्वसमुद्योगं क्रोधाद् अभिययौ यदून् ॥
प्रतापावनता ये हि जरासंधस्य पार्थिवाः
मित्राणि ज्ञातयश् चैव संयुक्ताः सुहृदस् तथा ॥
त एनम् अन्वयुः सर्वे सैन्यैः समुदितैर् वृताः
ये नृपाः पर्वतात् तस्माद् गोमन्ताद् व्रीळिता गताः ।
ते च सर्वे यदून् हन्तुं जरासंधं समन्वयुः ।
महेष्वासा महावीर्या जरासंधप्रियैषिणः ॥
कारूषो दन्तवक्त्रश् च चेदिराजश् च वीर्यवान्
कलिङ्गाधिपतिश् चैव पौण्ड्रश् च बलिनां वरः
आह्वृतिः कौशिकश् चैव भीष्मकश् च नराधिपः ॥
पुत्रश् च भीष्मकस्यापि रुक्मी मुख्यो धनुर्भृताम्
वासुदेवार्जुनाभ्यां यः स्पर्धते स्म सदा बले ॥
वेणुदारिः श्रुतर्वा च क्राथश् चैवांशुमान् अपि
अङ्गराजश् च बलवान् वङ्गानाम् अधिपस् तथा ॥
कौसल्यः काशिराजश् च दशार्णाधिपतिस् तथा
सुह्मेश्वरश् च विक्रान्तो विदेहाधिपतिस् तथा ॥
मद्रराजश् च बलवांस् त्रिगर्तानाम् अथेश्वरः
साल्वराजश् च विक्रान्तो दरदश् च महाबलः ॥
यवनाधिपतिश् चैव भगदत्तश् च वीर्यवान्
सौवीरराजः शैब्यश् च पाण्ड्यश् च बलिनां वरः
गान्धारराजः सुबलो नग्नजिच् च महाबलः ॥
एते चान्ये च राजानो बलवन्तो महारथाः
तम् अन्वयुर् जरासंधं विद्विषन्तो जनार्दनम् ॥
ते शूरसेनान् आविश्य प्रभूतयवसेन्धनान्
ऊषुः संरुध्य मथुरां परिक्षिप्य बलैस् तदा ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0