भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 7

7.1

मन्वन्तराणि सर्वाणि विस्तरेण तपोधन
तेषां पूर्वविसृष्टिं च वैशंपायन कीर्तय ॥

7.2

यावन्तो मनवश् चैव यावन्तं कालम् एव च
मन्वन्तरकथां ब्रह्मञ् छ्रोतुम् इच्छामि तत्त्वतः ॥

7.3

न शक्यं विस्तरं तात वक्तुं वर्षशतैर् अपि
मन्वन्तराणां कौरव्य संक्षेपं त्व् एव मे शृणु ॥

7.4

स्वायंभुवो मनुस् तात मनुः स्वारोचिषस् तथा
औत्तमस् तामसश् चैव रैवतश् चाक्षुषस् तथा
वैवस्वतश् च कौरव्य सांप्रतो मनुर् उच्यते ॥

7.5

सावर्णिश् च मनुस् तात भौत्यो रौच्यस् तथैव च
रैवतो ब्रह्मसावर्णिः सूर्यसावर्णिर् एव च ।
तथैव मेरुसावर्णाश् चत्वारो मनवः स्मृताः ॥

7.6

अतीता वर्तमानाश् च तथैवानागताश् च ये
कीर्तिता मनवस् तात मयैवैते यथाश्रुति
ऋषींस् तेषां प्रवक्ष्यामि पुत्रान् देवगणांस् तथा ॥

7.7

मरीचिर् अत्रिर् भगवान् अङ्गिराः पुलहः क्रतुः
पुलस्त्यश् च वसिष्ठश् च सप्तैते ब्रह्मणः सुताः ॥

7.8

उत्तरस्यां दिशि तथा राजन् सप्तर्षयः स्थिताः
यामा नाम तथा देवा आसन् स्वायंभुवे ऽन्तरे ॥

7.9

अग्नीध्रश् चाग्निबाहुश् च मेधा मेधातिथिर् वसुः
ज्योतिष्मान् द्युतिमान् हव्यः सवनः पुत्र एव च ॥

7.10

मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः
एतत् ते प्रथमं राजन् मन्वन्तरम् उदाहृतम् ॥

7.11

और्वो वसिष्ठपुत्रश् च स्तम्बः काश्यप एव च
प्राणो बृहस्पतिश् चैव दत्तो ऽत्रिश् च्यवनस् तथा
एते महर्षयस् तात वायुप्रोक्ता महाव्रताः ॥

7.12

देवाश् च तुषिता नाम स्मृताः स्वारोचिषे ऽन्तरे
हविर्ध्रः सुकृतिर् ज्योतिर् आपो मूर्तिर् अयस्मयः ॥

7.13

प्रथितश् च नभस्यश् च नभः सूर्यस् तथैव च
स्वारोचिषस्य पुत्रास् ते मनोस् तात महात्मनः
कीर्तिताः पृथिवीपाल महावीर्यपराक्रमाः ॥

7.14

द्वितीयम् एतत् कथितं तव मन्वन्तरं मया
इदं तृतीयं वक्ष्यामि तन् निबोध नराधिप ॥

7.15

वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः
हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः ॥

7.16

ऋषयो ऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोध मे
औत्तमेयान् महाराज दश पुत्रान् मनोरमान् ॥

7.17

इष ऊर्जस् तनूपश् च मधुर् माधव एव च
शुचिः शुक्रः सहश् चैव नभस्यो नभ एव च
भानवस् तत्र देवाश् च मन्वन्तरम् उदाहृतम् ॥

7.18

मन्वन्तरं चतुर्थं ते कथयिष्यामि तच् छृणु
काव्यः पृथुस् तथैवाग्निर् जह्नुर् धाता च भारत
कपीवान् अकपीवांश् च तत्र सप्तर्षयो नृप ॥

7.19

पुराणे कीर्तितास् तात पुत्राः पौत्राश् च भारत
सत्या देवगणाश् चैव तामसस्यान्तरे मनोः ॥

7.20

द्युतिस् तपस्यः सुतपास् तपोमूलस् तपोधनः
तपोरतिर् अकल्माषस् तन्वी धन्वी परम्टपः ॥

7.21

तामसस्य मनोर् एते दश पुत्रा महाबलाः
वायुप्रोक्ता महाराज चतुर्थं चैतद् अन्तरम् ॥

7.22

वेदबाहुर् यदुध्रश् च मुनिर् वेदशिरास् तथा
हिरण्यलोमा पर्जन्य ऊर्ध्वबाहुश् च सोमजः
सत्यनेत्रस् तथात्रेय एते सप्तर्षयो ऽपरे ॥

7.23

देवाश् चाभूतरजसस् तथा प्रकृतयः स्मृताः
पारिप्लवश् च रैभ्यश् च मनोर् अन्तरम् उच्यते ॥

7.24

अथ पुत्रान् इमांस् तस्य निबोध गदतो मम
धृतिमान् अव्ययो युक्तस् तत्त्वदर्शी निरुत्सुकः ॥

7.25

अरण्यश् च प्रकाशश् च निर्मोहः सत्यवाक् कृतिः
रैवतस्य मनोः पुत्राः पञ्चमं चैतद् अन्तरम् ॥

7.26

षष्ठं ते संप्रवक्ष्यामि तन् निबोध नराधिप
भृगुर् नभो विवस्वांश् च सुधामा विरजास् तथा ॥

7.27

अतिनामा सहिष्णुश् च सप्त एते महर्षयः
चाक्षुषस्यान्तरे तात मनोर् देवान् इमाञ् शृणु ॥

7.28

आद्याः प्रभूता ऋभवः पृथुकाश् च दिवौकसः
लेखाश् च नाम राजेन्द्र पञ्च देवगणाः स्मृताः ॥

7.29

ऋषेर् अङ्गिरसः पुत्रा महात्मानो महौजसः
नाड्वलेया महाराज दश पुत्राश् च विश्रुताः
उरुप्रभृतयो राजन् षष्ठं मन्वन्तरं स्मृतम् ॥

7.30

अत्रिर् वसिष्ठो भगवान् कश्यपश् च महान् ऋषिः
गौतमो ऽथ भरद्वाजो विश्वामित्रस् तथैव च ॥

7.31

तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः
सप्तमो जमदग्निश् च ऋषयः सांप्रतं दिवि ॥

7.32

साध्या रुद्राश् च विश्वे च वसवो मरुतस् तथा
आदित्याश् चाश्विनौ चैव देवौ वैवस्वतौ स्मृतौ ॥

7.33

मनोर् वैवस्वतस्यैते वर्तन्ते सांप्रते ऽन्तरे
इक्ष्वाकुप्रमुखाश् चैव दश पुत्रा महात्मनः ॥

7.34

एतेषां कीर्तितानां तु महर्षीणां महौजसाम्
राजन् पुत्राश् च पौत्राश् च दिक्षु सर्वासु भारत ॥

7.35

मन्वन्तरेषु सर्वेषु प्राग्दिशं सप्त सप्तकाः
स्थिता धर्मव्यवस्थार्थं लोकसंरक्षणाय च ॥

7.36

मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः
कृत्वा कर्म दिवं यान्ति ब्रह्मलोकम् अनामयम् ॥

7.37

ततो ऽन्ये तपसा युक्ताः स्थानं तत् पूरयन्त्य् उत
अतीता वर्तमानाश् च क्रमेणैतेन भारत ॥

7.38

एतान्य् उक्तानि कौरव्य सप्तातीतानि भारत
मन्वन्तराणि सर्वाणि निबोधानागतानि मे ॥

7.39

सावर्णा मनवस् तात पञ्च तांश् च निबोध मे
एको वैवस्वतस् तेषां चत्वारश् च प्रजापतेः
परमेष्ठिसुतास् तात मेरुसावर्णतां गताः ॥

7.40

दक्षस्यैते हि दौहित्राः प्रियायास् तनया नृप
महता तपसा युक्ता मेरुपृष्ठे महौजसः ॥

7.41

रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः
भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः
अनागताश् च सप्तैते लोके ऽस्मिन् मनवः स्मृताः ॥

7.42

अनागताश् च सप्तैव स्मृता दिवि महर्षयः
मनोर् अन्तरम् आसाद्य सावर्णस्येह ताञ् शृणु ॥

7.43

रामो व्यासस् तथात्रेयो दीप्तिमन्तो बहुश्रुताः
भारद्वाजस् तथा द्रौणिर् अश्वत्थामा महाद्युतिः ॥

7.44

गोतमस्यात्मजश् चैव शरद्वान् नाम गौतमः
कौशिको गालवश् चैव रुरुः काश्यप एव च
एते सप्त महात्मानो भविष्या मुनिसत्तमाः ॥

7.45

वरीवांश् चावरीवांश् च संमतो धृतिमान् वसुः
चरिष्णुर् आढ्यो धृष्णुश् च वाजी सुमतिर् एव च
सावर्णस्य मनोः पुत्रा भविष्या दश भारत ॥

7.46

एतेषां काल्यम् उत्थाय कीर्तनात् सुखम् एधते
यशश् चाप्नोति सुमहद् आयुष्मांश् च भवेन् नरः ।
चतुर्दशे मनोभाव्ये उरगम्भीरबुध्नकाः ।
पुत्रा(श् चा)[वै चा]क्षुषा देवा शुक्राद्याश् च तपस्विनः ।
अतीतनागतानां वै महर्षीणां सदा नरः ॥

7.47

तैर् इयं पृथिवी तात ससमुद्रा सपत्तना
यथाप्रदेशम् अद्यापि सर्वतः परिपाल्यते ।
पूर्णं युगसहस्रं हि परिपाल्या नरेश्वरैः
प्रजाभिस् तपसा चैव संहारान्ते च नित्यशः ॥

7.48

युगानि सप्ततिस् तानि साग्राणि कथितानि ते
कृतत्रेतादियुक्तानि मनोर् अन्तरम् उच्यते ॥

7.49

चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः
वेदेषु सपुराणेषु सर्वे ते प्रभविष्णवः
प्रजानां पतयो राजन् धन्यम् एषां प्रकीर्तनम् ॥

7.50

मन्वन्तरेषु संहाराः संहारान्तेषु संभवाः
न शक्यम् अन्तं तेषां वै वक्तुं वर्षशतैर् अपि ॥

7.51

विसर्गस्य प्रजानां वै संहारस्य च भारत
मन्वन्तरेषु संहारः श्रूयते भरतर्षभ ॥

7.52

सशेषास् तत्र तिष्ठन्ति देवा ब्रह्मर्षिभिः सह
तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः
पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ॥

7.53

तत्र भूतानि सर्वाणि दग्धान्य् आदित्यरश्मिभिः
ब्रह्माणम् अग्रतः कृत्वा सहादित्यगणैर् विभो ॥

7.54

प्रविशन्ति सुरश्रेष्ठं हरिं नारायणं प्रभुम्
स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः
अव्यक्तः शाश्वतो देवस् तस्य सर्वम् इदं जगत् ॥

7.55

अत्र ते वर्तयिष्यामि मनोर् वैवस्वतस्य ह
विसर्गं भरतश्रेष्ठ सांप्रतस्य महाद्युते ॥

7.56

वृष्णिवंशप्रसङ्गेन कथ्यमानं पुरातनम्
नित्यः सर्वगतः सूक्ष्मः शाश्वतः पुरुषोत्तमः ।
यत्रोत्पन्नो महात्मा स हरिर् वृष्णिकुले प्रभुः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc