भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 79

79.1

स कृष्णस् तत्र बलवान् रौहिणेयेन संगतः
मथुरां यादवाधीनां पुरीं तां सुखम् आवसत् ॥

79.2

प्राप्तयौवनदेहस् तु युक्तो राजश्रिया ज्वलन्
चकार मथुरां वीरह्. स रत्नाकरभूषणाम् ॥

79.3

कस्यचित् त्व् अथ कालस्य सहितौ रामकेशवौ
गुरुं संदीपनिं काश्यम् अवन्तिपुरवासिनम्
धनुर्वेदचिकीर्षार्थम् उभौ ताव् अभिजग्मतुः ॥

79.4

निवेद्य गोत्रं स्वाध्यायाम् आचारेणाभ्यलंकृतौ
शुश्रूशू निरहंकाराव् उभौ रामजनार्दनौ
चक्रतुः पुण्डरीकाक्षौ विद्याग्रहणलालसौ ।
प्रतिजग्राह ताउ काश्यो विद्याः प्रादाच् च केवलाः ॥

79.5

तौ च श्रुतिधरौ वीरौ यथावत् प्रतिपद्यताम्
अहोरात्रैश् चतुःषष्ट्या साङ्गं वेदम् अधीयताम् ॥

79.6

चतुष्पादे धनुर्वेदे चास्त्रग्रामे ससंग्रहे
लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ ।
गान्धववेदं कृत्स्नं च तथा लेख्याश् च ताव् उभौ ।
हस्तिशिक्षाश्वशिक्षाश् च द्वादशाहेन चाप्नुताम् ॥
ताव् उभौ जग्मतुर् वीरौ गुरुं सांदीपनिं ततः ।
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ ॥
ताव् इष्वासवराचार्यम् अभिगम्य प्रणम्य च ।
तेन तौ सत्कृतौ राजन् विचरन्ताव् अवन्तिषु ॥
पञ्चाशद्भिर् अहोरात्रैर् दशाङ्गं सुप्रतिष्ठितम् ।
सरहस्यं धनुर्वेदं सकलं ताव् अवाप्नुताम् ।
अचिरेणैव कालेन गुरुस् ताव् अभ्यषिक्षयत् ॥

79.7

अतीवमानुषीं मेधां तयोश् चिन्त्य गुरुस् तदा
मेने ताव् आगतौ देवाव् उभौ चन्द्रदिवाकरौ ॥

79.8

ददर्श च महात्मानाव् उभौ ताव् अपि पर्वसु
पूजयन्तौ महादेवं साक्षात् त्र्यक्षम् अवस्थितम् ॥

79.9

गुरुं सांदीपनिं कृष्णः कृतकृत्यो ऽभ्यभाषत
गुर्वर्थं किं ददानीति रामेण सह भारत ॥

79.10

तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवत्
पुत्रम् इच्छाम्य् अहं दत्तं यो मृतो लवणाम्भसि ॥

79.11

पुत्र एको हि मे जातः स चापि तिमिना हृतः
प्रभासे तीर्थयात्रायां तं मे त्वं पुनर् आनय ॥

79.12

तथेत्य् एवाब्रवीत् कृष्णो रामस्यानुमते स्थितः
गत्वा समुद्रं तेजस्वी विवेशान्तर्जलं हरिः ॥

79.13

समुद्रः प्राञ्जलिर् भूत्वा दर्शयाम् आस तं तदा
तम् आह कृष्णः क्वासौ भोः पुत्रः सांदीपनेर् इति ॥

79.14

समुद्रस् तम् उवाचेदं दैत्यः पञ्चजनो महान्
तिमिरूपेण तं बालं ग्रस्तवान् इति माधव ॥

79.15

स पञ्चजनम् आसाद्य जघान पुरुषोत्तमः
न चाससाद तं बालं गुरुपुत्रं तदाच्युतः ॥

79.16

स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः
यः स देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥

79.17

ततो वैवस्वतं देवं निर्जित्य पुरुषोत्तमः
आससाद च तं बालं गुरुपुत्रं तदाच्युतः ।
शङ्खम् आपूर्य गोविन्दस् त्रासयाम् आस वै जनम् ।
ततो यमो ऽभ्युपागम्य ववन्दे तं गदाधरम् ।
किम् आगमनकृत्यं ते किं करोमीति चाब्रवीत् ॥
तम् उवाचाथ वै कृष्णो गुरुपुत्रः प्रदीयताम् ।
तयोस् तत्र तदा युद्धम् आसीद् घोरतरं महत् ।
आनिनाय गुरोः पुत्रं चिरनष्टं यमक्षयात् ॥

79.18

ततः सांदीपनेः पुत्रः प्रसादाद् अमितौजसः
दीर्घकालगतः प्रेतः पुनर् आसीच् छरीरवान् ॥

79.19

तद् अशक्यम् अचिन्त्यं च दृष्ट्वा सुमहद् अद्भुतम्
सर्वेषाम् एव भूतानां विस्मयः समजायत ॥

79.20

स गुरोः पुत्रम् आदाय पाञ्चजन्यं च माधवः
रत्नानि च महार्हाणि पुनर् आयाज् जगत्पतिः ॥

79.21

रक्षसस् तस्य रत्नानि महार्हाणि बहूनि च
आनाय्यावेदयाम् आस गुरवे वासवानुजः ॥

79.22

गदापरिघयुद्धेषु सर्वास्त्रेषु च ताव् उभौ
अचिरान् मुख्यतां प्राप्तौ सर्वलोके धनुर्भृताम् ॥

79.23

ततः सांदीपनेः पुत्रं तद्रूपवयसं तदा
प्रादात् कृष्णः प्रतीताय सह रत्नैर् उदारधीः ॥

79.24

चिरनष्टेन पुत्रेण काश्यः सांदीपनिस् तदा
समेत्य मुमुदे राजन् पूजयन् रामकेशवौ ॥

79.25

कृतास्त्रौ ताव् उभौ वीरौ गुरुम् आमन्त्र्य सुव्रतौ
आयातौ मथुरां भूयो वसुदेवसुताव् उभौ ॥

79.26

ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ
सबाला हृष्टमनस उग्रसेनपुरोगमाः ॥

79.27

श्रेण्यः प्रकृतयश् चैव मन्त्रिणो ऽथ पुरोहिताः
सबालवृद्धा सा चैव पुरी समभिवर्तत ॥

79.28

नन्दितूर्याण्य् अवाद्यन्त तुष्टुवुश् च जनार्दनम्
रथ्याः पताकामालिन्यो भ्राजन्ति स्म समन्ततः ॥

79.29

प्रहृष्टमुदितं सर्वम् अन्तःपुरम् अशोभत
गोविन्दागमने ऽत्यर्थं यथैवेन्द्रमहे तथा ॥

79.30

मुदिताश् चाप्य् अगायन्त राजमार्गेषु गायनाः
स्तवाशीःप्रथमा गाथा यादवानां प्रियंकराः ॥

79.31

गोविन्दरामौ संप्राप्तौ भ्रातरौ लोकविश्रुतौ
स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः ॥

79.32

न तत्र कश् चिद् दीनो वा मलिनो वा विचेतनः
मथुरायां बभौ राजन् गोविन्दे समुपस्थिते ॥

79.33

वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः
नरनारीगणाः सर्वे भेजिरे मनसः सुखम् ॥

79.34

शिवाश् च वाताः प्रववुर् विरजस्का दिशो दश
दैवतानि च सर्वाणि हृष्टान्य् आयतनेष्व् अपि ॥

79.35

यानि लिङ्गानि लोकस्य बभुः कृतयुगे पुरा
तानि सर्वाण्य् अदृश्यन्त पुरीं प्राप्ते जनार्दने ॥

79.36

ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः
हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम् ॥

79.37

विशन्तं मथुरां रम्यां तम् उपेन्द्रम् अरिंदमम्
अनुजग्मुर् यदुगणाः शक्रं देवगणा इव ॥

79.38

वसुदेवस्य भवनं ततस् तौ यदुनन्दनौ
प्रविष्टौ हृष्टवदनौ चन्द्रादित्याव् इवाचलम् ॥

79.39

ताव् आयुधानि विन्यस्य गृहे स्वे स्वैरचारिणौ
मुमुदाते यदुवरौ वसुदेवसुताव् उभौ ॥

79.40

एवं ताव् एकनिर्माणौ मथुरायां शुभाननौ
उग्रसेनानुगौ भूत्वा कं चित् कालं मुमोदतुः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc