हरिवंश · अध्याय 78
उग्रसेनस् तु कृष्णस्य समीपं दुःखितो ययौ
पुत्रशोकाभिसंतप्तो विषपीत इव स्खलन् ॥
स ददर्श गृहे कृष्णं यादवैर् अभिसंवृतम्
पश्चानुतापाद् ध्यायन्तं कंसस्य निधनाविलम् ॥
कंसारीप्रलोपांश् च श्रुत्वा सुकरुणान् बहून्
विगर्हमाणम् आत्मानं तस्मिन् यादवसंसदि ॥
अहो मयातिबाल्येन नररोषानुवर्तिना
वैधव्यं स्त्रीसहस्राणां कंसस्यास्य कृते कृतम् ॥
कारुण्यं खलु नारीषु प्राकृतस्यापि जायते
एवम् आर्तं रुदन्तीषु मया भर्तरि पातिते ॥
परिदेवितमात्रेण शोकः खलु विधीयते
कृतान्तस्यानभिज्ञातः स्त्रीणां कारुण्यसंभवः ॥
कंसस्य हि वधः श्रेयान् प्राग् एवाभिमतो मम
सुताम् उद्वेजनीयस्य पापेष्व् अभिरतस्य च ॥
लोके पतितवृत्तस्य पुरुषस्याल्पमेधसः
अक्लिष्टं मरणं श्रेयो न विद्विष्टस्य जीवितम् ॥
कंसः पापरतिश् चैव साधूनां चाप्य् असंमतः
धिक्शब्दपतितश् चैव जीविते चास्य का दया ॥
स्वर्गे तपोभृतां वासः फलं पुण्यस्य कर्मणः
इहापि यशसा युक्तस् तत्रस्थैर् उपधार्यते ॥
यदि स्युर् निर्वृत्ता लोकाः स्युश् च धर्मपराः प्रजाः
नरा धर्मप्रवृत्ताश् च न नृपो विकृतो भवेत् ॥
गुणेषु दुष्टवृत्तानां कृत्तान्तः कुरुते पदम्
इष्टधर्मेषु लोकेषु कर्तव्यं पारलौकिकम् ॥
अतीव देवा रक्षन्ति नरं धर्मपरायणम्
कर्तारः सुलभा लोके दुष्कृतस्येह कर्मणः ॥
हतः सो ऽयं मया कंसः साध्व् एतद् अवगम्यताम्
मूलच्छेदः कृतस् तस्य विपरीतस्य कर्मणः ॥
तद् एष सान्त्व्यतां सर्वः शोकार्तः प्रमदाजनः
पौराश् च पुर्यां श्रेण्यश् च सान्त्व्यतां सर्व एव हि ॥
एवं ब्रुवति गोविन्दे विवेशावनताननः
उग्रसेनो महातेजाः कृष्णम् अस्राविलेक्षणम् ।
प्रलपन्तं जगामैवं यादवानां च संसदि ।
उग्रसेनो यदून् गृह्य पुत्रकिल्बिषशङ्कितः ॥
स कृष्णं पुण्डरीकाक्षम् उवाच यदुसंसदि
बाष्पसंदिग्धया वाचा दीनया सज्जमानया ॥
पुत्र निर्यातितः क्रोधो नीतो याम्यां दिशं रिपुः
स्वधर्माधिगता कीर्तिर् नाम विश्रावितं भुवि ॥
स्थापितं सत्सु माहात्म्यं शङ्किता रिपवः कृताः
स्थापितो यादवो वंशो गर्विताः सुहृदः कृताः ॥
सामन्तेषु नरेन्द्रेषु प्रतापस् ते प्रकाशितः
मित्राणि त्वां भजिष्यन्ति संश्रयिष्यन्ति चार्थिनः ॥
प्रकृतयो ऽनुयास्यन्ति स्तोष्यन्ति त्वां द्विजातयः
संधिविग्रहमुख्यास् त्वां प्रणमिष्यन्ति मन्त्रिणः ॥
हस्त्यश्वरथसंपूर्णं पदातिगणसंकुलम्
प्रतिगृहाण कृष्णेदं कंसस्य बलम् अव्ययम् ॥
धनं धान्यं च यत् किंचिद् रत्नान्य् आच्छादनानि च
प्रतीच्छन्तु नियुक्ता वै त्वदीयाः कृष्ण पुरुषाः ।
स्त्रियो हिरण्यं वासांसि यच् चान्यद् वसु किंचन ॥
एवं हि विहिते योगे पर्याप्ते कृष्ण विग्रहे
प्रतिष्ठितायां मेदिन्यां यदूनां शत्रुसूदन ॥
शृणु तद् ब्रुवतां वीर कृपणानाम् इदं वचः
अस्य त्वत्क्रोधदग्धस्य कंसस्याशुभकर्मणः
तव प्रसादाद् गोविन्दे प्रेतकार्यं क्रियते ह ॥
अस्य कृत्वा नरेन्द्रस्य विपन्नस्यौर्ध्वदेहिकम्
सस्नुषो ऽहं सभार्यश् च चरिष्यामि मृगैः सह ॥
प्रेतसंस्कारमात्रेण कृते बान्धवकर्मणि
आनृण्यं लौकिकं कृष्ण गतः किल भवाम्य् अहम् ॥
अस्याग्निं पश्चिमं दत्त्वा चित्तिस्थाने विधिं विना
तोयप्रदानमात्रेण कंसस्यानृण्यम् आप्नुयाम् ॥
एतन् मे कृष्ण विज्ञाप्यं स्नेहो ऽत्र मम युज्यताम्
प्राप्नोतु सुगतिं तत्र कृपणः पश्चिमां क्रियाम् ॥
एतच् छ्रुत्वा वचस् तस्य कृष्णः परमहर्षितः
प्रत्युवाचोग्रसेनं वै सान्त्वपूर्वम् इदं वचः ॥
सदृशं राजशार्दूल वृत्तस्य च कुलस्य च
यत् त्वं एवंविधं ब्रूषे गते ऽर्थे दुरतिक्रमे ॥
प्राप्स्यते नृप संस्कारं कंसः प्रेतगते ऽपि सन्
कुले महति ते जन्म वेदान् विदितवान् असि ।
कथं न ज्ञायते तात नियतिर् दुरतिक्रमा ॥
स्थावराणां च भूतानां जङ्गमानां च पार्थिव ।
पूर्वजन्मकृतं कर्म कालेन परिपच्यते ॥
श्रुतवन्तो ऽर्थवन्तश् च दातारः प्रियदर्शनाः ।
ब्रह्मण्या नयसंपन्ना दीनानुग्रहकारिणः ॥
लोकपालसमास् तात महेन्द्रसमविक्रमाः ।
क्षितिपालाः कृतान्तेन नीयन्ते नृपसत्तम ॥
धार्मिकाः सर्वभावज्ञाः प्रजापालनतत्पराः ।
क्षत्रधर्मपरा दान्ताः कालेन निधनं गताः ॥
स्वयम् एव कृतं कर्म शुभं वा यदि वाशुभम् ।
प्राप्ते काले तु तत् कर्म दृश्यते सर्वदेहिनाम् ॥
एषा ह्य् अन्तर्हिता माया दुर्विज्ञेया सुरैर् अपि ।
यथायं मुह्यते लोको ह्य् अत्र कर्मैव कारणम् ॥
कालेनाभिहतः कंसः पूर्वकर्मप्रचोदितः ।
न ह्य् अयं कारणं तत्र कालः कर्म च कारणम् ॥
सूर्यसोममयं तात कृत्स्नं स्थावरजङ्गमम् ।
कालेन निधनं गत्वा कालेनैव च जायते ।
कालस् तु सर्वभूतानां निग्रहे प्रग्रहे रतः ।
तस्मात् सर्वाणि भूतानि कालस्य वशगानि वै ॥
स्वदोषेणैव दग्धस्य सूनोस् तव नराधिप ।
नाहं वै कारणं तत्र कालस् तत्र तु कारणम् ॥
अथ वाहं भविष्यामि कारणं नात्र संशयः ।
पलायनपरः कालः किं करिष्यत्य् अकारणम् ।
कालस् तु बलवान् राजन् दुर्विज्ञेया हि सा गतिः ॥
परावरविशेषज्ञा यां यान्ति समदर्शिनः ।
गतिः कालस्य सा येन सर्वं कालस्य गोचरम् ।
ब्रवीमि यद् अहं तात तद् अनुष्ठीयतां वचः ॥
न हि राज्येन मे कार्यं नाप्य् अहं राज्यलालसः
न चापि राज्यलुब्धेन मया कंसो निपातितः ॥
किं तु लोकहितार्थाय कीर्त्यर्थं च सुतस् तव
व्यङ्गभूतः कुलस्यास्य सानुजो विनिपातितः ॥
अहं स एव गोमध्ये गोपैः सह वनेचरः
प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥
एतावच् छतशो ऽप्य् एवं सत्येन प्रब्रवीमि ते
न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियताम् इदम् ॥
भवान् राजास्तु मे मान्यो यदूनाम् अग्रणीः प्रभुः
विजयायाभिषिच्यस्व स्वराज्ये राजसत्तम ॥
यदि ते मत्प्रियं कार्यं यदि वा नास्ति ते व्यथा
मया निसृष्टं राज्यं स्वं चिराय प्रतिगृह्यताम् ॥
व्रीडिताधोमुखं तं तु राजानं यदुसंसदि
अभिषेकेण गोविन्दो योजयाम् आस योगवित् ॥
स बद्धमुकुटः श्रीमान् उग्रसेनो महीपतिः
चकार सह कृष्णेन कंसस्य निधनक्रियाम् ॥
तं सर्वे यादवा मुख्या राजानं कृष्णशासनात्
अनुजग्मुः पुरीमार्गे देवा इव शतक्रतुम् ॥
रजन्यां तु प्रभातायां ततः सूर्ये चिरोदिते
पश्चिमं कंससंस्कारं चक्रुस् ते यदुपुंगवाः ॥
शिबिकायां समारोप्य कंसदेहं यथाक्रमम्
नैष्ठिकेन विधानेन चक्रुस् ते तस्य सत्क्रियाम् ॥
स नीतो यमुनातीरम् उत्तरं नृपतेः सुतः
संस्कृतश् च यथान्यायं नैधनेन चिताग्निना ॥
तथैव भ्रातरं चास्य सुनामानं महाभुजम्
संस्कारं लम्भयाम् आसुः सह कृष्णेन यादवाः ॥
ताभ्यां ते सलिलं चक्रुर् वृष्ण्यन्धकमहारथाः
अक्षयं चापि प्रेतेभ्यो भाषमाणाः प्रतस्थिरे ॥
तयोस् ते सलिलं दत्त्वा यादवा दीनमानसाः
पुरस्कृत्योग्रसेनं वै विविषुर् मथुरां पुरीम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0