भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 77

77.1

भर्तारं पतितं दृष्ट्वा क्षीणपुण्यम् इव ग्रहम्
कंसपत्न्यो हतं कंसं समन्तात् पर्यवारयन् ॥

77.2

तं महीशयने सुप्तं क्षितिनाथं गतायुषम्
भार्याः स्म दृष्ट्वा शोचन्ति मृग्यो मृगवधे यथा ॥

77.3

हा हताः स्म महाबाहो हताषा हतबान्धवाः
वीरप्त्न्यो हते वीरे त्वयि वीरव्रतप्रिये ॥

77.4

इमाम् अवस्थां पश्यन्त्यः पश्चिमां तव नैष्ठिकीम्
कृपणं राजशार्दूल विलपामः सबान्धवाः ॥

77.5

छिन्नमूलाः स्म संवृत्ताः परित्यक्ताः स्म शोभनैः
त्वयि पञ्चत्वम् आपन्ने नाथे ऽस्माकं महाबले ॥

77.6

को नः पांसुपरीताङ्ग्यो रतिसंसर्गलालसाः
लता इव विचेष्टन्त्यः शयनीयानि नेष्यति ॥

77.7

इदं ते सततं सौम्य हृद्यनिःश्वासमारुतम्
दहत्य् अर्को मुखं कान्तं निस्तोयम् इव पङ्कजम् ॥

77.8

इमौ ते श्रवणौ शून्यौ न शोभेते विकुण्डलौ
शिरोधरायां संलीनौ सततं कुण्डलप्रिय ॥

77.9

क्व ते स मुकुटो वीर सर्वरत्नविभूषितः
अत्यन्तं शिरसो लक्ष्मीं यो दधात्य् अर्कसप्रभः ॥

77.10

अनेन स्त्रीकलत्रेण तवान्तःपुरशोभिना
कथं दीनेन कर्तव्यं त्वयि लोकान्तरं गते ॥

77.11

ननु नाम स्त्रियः साध्व्यः प्रियभोगेष्व् अवञ्चिताः
पतीनाम् अपरित्यज्यास् त्वं तु नस् त्यज्य गच्छसि ॥

77.12

अहो कालो महावीर्यो येन पर्यायकर्मणा
अस्मासु प्रेक्षमाणासु त्वम् आक्षिप्याशु नीयसे ।
कालतुल्यः सपत्नानां त्वं क्षिप्रम् अपनीयसे ॥

77.13

वयं दुःखेष्व् अनुचिताः सुखेष्व् एव तु योजिताः
कथं वत्स्याम विधवा नाथ कार्पण्यम् आश्रिताः ॥

77.14

स्त्रीणां चारित्रलुब्धानां पतिर् एकः परा गतिः
त्वं हि नः सा गतिश् छिन्ना कृतान्तेन बलीयसा ॥

77.15

वैधव्येनाभिभूताः स्मः शोकसंतप्तमानसाः
अहो कृतान्तस्य वशं गन्तव्यं सर्वजन्तुभिः ।
रोदितव्ये ध्रुवे मग्नाः क्व गच्छामस् त्वया विना ॥

77.16

सह त्वया गतः कालस् त्वदङ्के क्रीडितं गतम्
क्षणेन च विहीनाः स्म अनित्या हि नृणां गतिः ॥

77.17

अहो बत विपन्नाः स्म विपन्ने त्वयि मानद
एकदुष्कृतकारिण्यः सर्वाः वैधव्यलक्षणाः ॥

77.18

त्वया स्वर्गप्रतिच्छन्दैर् लालिताः स्म रतिप्रियाः
त्वयि कामवशाः सर्वाः स नस् त्यज्य क्व गच्छसि ॥

77.19

आसां विलपमानानां कुररीणाम् इव प्रभो
प्रतिवाक्यं जगन्नाथ दातुम् अर्हसि मानद ॥

77.20

एवम् आर्तकलत्रस्य श्राम्यमाणेषु बन्धुषु
गमनं ते महाराज दारुणं प्रतिभाति नः ॥

77.21

नूनं कान्ततराः कान्त तस्मिंल् लोके वरस्त्रियः
ततस् त्वं प्रस्थितो वीर विहायेमं गृहे जनम् ॥

77.22

किं नु ते करुणं वीर भार्यास्व् एतासु भूमिप
आर्तनादं रुदन्तीषु यन् नेहाद्यावबुध्यसे ॥

77.23

अहो निष्करुणा यात्रा नराणाम् और्ध्वदेहिकी
ये परित्यज्य दारान् स्वान् निरपेक्षा व्रजन्ति ह ॥

77.24

अपतित्वं स्त्रियाः श्रेयो न तु शूरः स्त्रियाः पतिः
स्वर्गस्त्रीणां प्रियाः शुरास् तेषाम् अपि च ताः प्रियाः ॥

77.25

अहो क्षिप्रम् अदृश्येन नयता त्वया रणप्रियम्
प्रहृतं नः कृतान्तेन सर्वासाम् अन्तरात्मसु ॥

77.26

हत्वा जरासंधबलं जित्वा यक्षांश् च संयुगे
जरासंधबलं जित्वा हत्वा राज्ञां च संयुगे ।
जित्वा देवगणं युद्धे यक्षान् अपि च संयुगे ।
कथं मानुषमात्रेण हतस् त्वं जगतीपते ॥

77.27

इन्द्रेण सह संग्रामं कृत्वा सायकविग्रहम्
अमर्त्यैर् अजितो युद्धे मर्त्येनासि कथं हतः ॥

77.28

त्वया सागरम् अक्षोख्यं विक्षोभ्य शरवृष्टिभिः
रत्नसर्वस्वहरणं जित्वा पाशधरं कृतम् ॥

77.29

त्वया पौरजनास्यार्थे मन्दं वर्षति वासवे
सायकैर् जलदान् भित्त्वा बलाद् वर्षं प्रवर्तितम् ॥

77.30

प्रतापावनताः सर्वे तव तिष्ठन्ति पार्थिवाः
प्रेषयाणा वरार्हाणि रत्नान्य् आच्छादनानि च ॥

77.31

तवैवं देवकल्पस्य दृष्टवीर्यस्य शत्रुभिः
कथं प्राणान्तिकं घोरम् ईदृशं भयम् आगतम् ॥

77.32

प्राप्ताः स्मो विधवाशब्दं त्वयि नाथे निपातिते
अप्रमत्ताः प्रमत्ताः स्म कृतान्तेन निराकृताः ॥

77.33

यद्य् एवं नाथ गन्तव्यं यदि वा विस्मृता वयम्
वाक्यमात्रेण यास्येति कर्तव्यो नः परिग्रहः ॥

77.34

प्रसीद नाथ भीताः स्म पादौ ते याम मूर्धभिः
अलं दूरप्रवासेन निवर्त मथुराधिप ॥

77.35

अहो वीर कथं शेषे निषण्णस् तृणपांसुषु
शयानस्य हि ते भूमौ कस्मान् नोद्विजते मनः ॥

77.36

केन सुप्तप्रहारो ऽयं दत्तो ऽस्माकम् अतर्कितः
प्रहृतं केन सर्वासु नारीस्व् एवं सुदारुणम् ॥

77.37

रुदितानुशयो नार्या जीवन्त्याः परिदेवनम्
किं वयं सति गन्तव्ये सह भर्त्रा रुदामहे ॥

77.38

एतस्मिन्न् अन्तरे दीना कंसमाता प्रवेपती
क्व मे वत्सः क्व मे पुत्र इति रोरूयते भृशम् ॥

77.39

सापश्यत् तं हतं पुत्रं निपीतं शशिनं यथा
हृदयेन विदीर्णेन श्राम्यमाणा पुनः पुनः ॥

77.40

पुत्रं समभिवीक्षन्ती हा हतास्मीति वाशती
हा हतास्मीति वाशन्ती पपात भुवि दुःखिता ।
स्नुषाणाम् आर्तनादेन विललाप रुरोद च ॥

77.41

सा तस्य वदनं दीनम् उत्सङ्गे पुत्रगृद्धिनी
कृत्वा पुत्रेति करुणं विललापार्तया गिरा ॥

77.42

पुत्र शूरव्रते युक्त ज्ञातीनां नन्दिवर्धन
किम् इदं त्वरितं तात प्रस्थानं कृतवान् असि ॥

77.43

प्रसुप्तश् चासि विवृते किं पुत्र शयनं विना
तात नैवंविधा भूमौ शेरते कृतलक्षणाः ॥

77.44

रावणेन पुरा गीतः श्लोको ऽयं साधुसंमतः
बलज्येष्ठेन लोकेषु राक्षसानां समागमे ॥

77.45

एवम् ऊर्जितवीर्यस्य मम देवनिघातिनः
बान्धवेभ्यो भयं घोरम् अनिवार्यं भविष्यति ॥

77.46

तथैव ज्ञातिलुब्धस्य मम पुत्रस्य धीमतः
ज्ञातिभ्यो भयम् उत्पन्नं शरीरान्तकरं महत् ॥

77.47

सा पतिं भूपतिं वृद्धम् उग्रसेनं विचेतसम्
उवाच रुदती वाक्यं विवत्सा सौरभी यथा ॥

77.48

एह्य् एहि राजन् धर्मात्मन् पश्य पुत्रं जनेश्वरम्
शयानं वीरशयने वज्राहतम् इवाचलम् ॥

77.49

अस्य कुर्मो महाराज निर्याणसदृशीं क्रियाम्
प्रेतत्वम् उपपन्नस्य गतस्य यमसादनम् ॥

77.50

वीरभोज्यानि राज्यानि वयं चापि पराजिताः
गच्छ विज्ञाप्यतां कृष्णः कंससंस्कारकारणात् ॥

77.51

मरणान्तानि वैराणि शान्ते शान्तिर् भविष्यति
प्रेतकार्याणि कार्याणि मृतः किम् अपराध्यते ॥

77.52

एवम् उक्त्वा पतिं भोजं केशान् आरुज्य दुःखिता
पुत्रस्य मुखम् ईक्षन्ती विललापैव सा भृशम् ॥

77.53

इमास् ते किं करिष्यन्ति भार्या राजन् सुखोचिताः
त्वां पतिं सुपतिं प्राप्य या विपन्नमनोरथाः ॥

77.54

इमं ते पितरं वृद्धं कृष्णस्य वशवर्तिनम्
कथं द्रक्ष्यामि शुष्यन्तं कासारसलिलं यथा ॥

77.55

अहं ते जननी पुत्र किमर्थं नाभिभाषसे
प्रस्थितो दीर्घम् अध्वानं परित्यज्य्य प्रियं जनम् ॥

77.56

अहो वीराल्पभाग्यायाः कृतान्तेनानिवर्तिना
आच्छिद्य मम मन्दाया नीयसे नयकोविद ॥

77.57

दानमानगृहीतानि तृप्तान्य् एतानि ते गुणैः
नामानि च गृहीतानि सम्यग्वृत्तानि तैर् गुणैः ।
रुदन्ति तव भृत्यानां कुलानि कुलयूथप ॥

77.58

उत्तिष्ठ नरशार्दूल दीर्घबाहो महाबल
त्राहि दीनं जनं सर्वं पुरम् अन्तःपुरं तथा ॥

77.59

रुदतीनाम् भृशार्तानां कंसस्त्रीणां सविस्तरम्
जगामास्तं दिनकरः संध्यारागेण रञ्जितः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc