भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 76

76.1

रौहिणेयो हते तस्मिंश् चाणूरे बलदर्पिते
जग्राह मुष्टिकं रङ्गे कृष्णस् तोसलकं पुनः ॥

76.2

संनिपाते तु तौ मल्लौ प्रथमे क्रोधमूर्च्छितौ
समेयातां रामकृष्णौ कालस्य वशवर्तिनौ ॥

76.3

कृष्णस् तोसलम् उद्यम्य गिरिशृङ्गोपमं बली
भ्रामयित्वा शतगुणं निष्पिपेष महीतले ॥

76.4

तस्य कृष्णाभिपन्नस्य पीडितस्य बलीयसा
मुखाद् रुधिरम् अत्यर्थम् आजगाम मुमूर्षतः ॥

76.5

संकर्षणस् तु सुचिरं योधयित्वा महाबलः
अन्ध्रमल्लं महामल्लो मण्डलानि विदर्शयन् ॥

76.6

मुष्टिनैकेन तेजस्वी साशनिस्तनयित्नुना
शिरस्य् अभ्यहनद् वीरो वज्रेणेव महागिरिम् ॥

76.7

स निष्पतितमस्तिष्को विस्रस्तनयनाननः
पपाताभिमुखस् तत्र ततो नादो महान् अभूत् ॥

76.8

अन्ध्रतोसलकौ हत्वा कृष्णसंकर्षणाव् उभौ
क्रोधसंरक्तनयनौ रङ्गमध्ये ववल्गतुः ॥

76.9

समाजवाटो निर्मल्लः सो ऽभवद् भीमदर्शनः
अन्ध्रे तदा महामल्ले मुष्टिके च निपातिते ॥

76.10

ये च संप्रेक्षका गोपा नन्दगोपपुरोगमाः
भयक्षोभितसर्वाङ्गाः सर्वे तत्रावतस्थिरे ॥

76.11

हर्षजं वारि नेत्राभ्यां वर्तयाना प्रवेपती
प्रस्नवोत्पीडिता कृष्णं देवकी समुदैक्षत ॥

76.12

कृष्णदर्शनयुक्तेन बाष्पेणाकुलितेक्षणः
वसुदेवो जरां त्यक्त्वा स्नेहेन तरुणायते ॥

76.13

वारमुख्याश् च ताः सर्वाः कृष्णस्य मुखपङ्कजम्
पपुर् हि नेत्रभ्रमरैर् निमेषान्तरगामिभिः ॥

76.14

कंसस्यापि मुखे स्वेदो भ्रूभेदान्तरगोचरः
अभवद् रोषनिर्यासः कृष्णसंदर्शनेरितः ॥

76.15

केशवायासधूमेन रोषनिःश्वासवायुना
दीप्तम् अन्तर्गतं तस्य हृदयं मानसाग्निना ॥

76.16

तस्य प्रस्फुरितौष्ठस्य भिन्नालीकस्य तस्य वै
कंसवक्त्रस्य रोषेण रक्तसूर्यायते वपुः ॥

76.17

क्रोधरक्तान् मुखात् तस्य प्रसृताः स्वेदबिन्दवः
उद्यतस्येव सूर्यस्य प्रसृताः पादपङ्क्तयः ॥

76.18

सो आज्ञापयत संक्रुद्धः पुरुषान् व्यायतान् बहून्
गोपाव् एतौ समाजौघान् निष्क्राम्येतां वनेचरौ ॥

76.19

न चैतौ द्रष्टुम् इच्छामि विकृतौ पापदर्शिनौ
गोपानाम् अपि मे राज्ये न कश्चित् स्थातुम् अर्हति ॥

76.20

नन्दगोपश् च दुर्मेधाः पापेष्व् अभिरतो मम
आयसैर् निगडाकारैर् लोहपाशैर् निगृह्यताम् ॥

76.21

वसुदेवश् च दुर्वृत्तो नित्यं छद्मचरो मम
अवृद्धार्हेण दण्डेन क्षिप्रम् अद्यैव वध्यताम् ॥

76.22

ये चेमे प्राकृता गोपा दामोदरपरायणाः
एषां ह्रियन्तां गावश् च यच् चास्ति वसु किंचन ॥

76.23

एवम् आज्ञापयानं तु कंसं परुषभाषिणम्
ददर्शायस्तनयनः कृष्णः सत्यपराक्रमः ॥

76.24

क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः
ज्ञातीनां च व्यथां दृष्ट्वा विसंज्ञां चैव देवकीम् ॥

76.25

स सिंह इव वेगेन केसरी जातविक्रमः
आरुरुक्षुर् महाबाहुः कंसनाशार्थम् अच्युतः ॥

76.26

रङ्गमध्याद् उत्पपात कृष्णः कंसासनान्तिकम्
असज्जन् वायुना क्षिप्तो यथा विद्युद् घनाद् घनम् ॥

76.27

ददृशुर् न हि तं सर्वे रङ्गमध्याद् अवप्लुतम्
केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः ॥

76.28

सो ऽपि कंसस् तथायस्तः परीतः कालधर्मणा
आकाशाद् इव गोविन्दं मेने तत्रागतं विभुम् ॥

76.29

स कृष्णेनायतं कृत्वा बाहुं परिघसंनिभम्
मूर्धजेषु परामृष्टः कंसो वै रङ्गसंसदि ॥

76.30

मुकुटश् चापतत् तस्य काञ्चनो वज्रभूषितः
सिरसस् तस्य कृष्णेन परामृष्टस्य पाणिना ॥

76.31

स हस्तग्रस्तकेशश् च कंसो निर्यत्नतां गतः
तथैव च विसंमूढो विह्वलः समपद्यत ॥

76.32

निगृहीतश् च केशेषु मन्दासुर् इव निःश्वसन्
न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा ॥

76.33

विकुण्डलाभ्यां कर्णाभ्यां छिन्नहारेण वक्षसा
प्रलम्बाभ्यां च बाहुभ्यां गात्रैर् विसृतभूषणैः ॥

76.34

भ्रंशितेनोत्तरीयेण सहसा चलितासनः
वेष्टमानः समाक्षिप्तः कंसः कृष्णेन तेजसा ॥

76.35

चकर्ष च महारङ्गे मञ्चान् निष्क्रम्य केशवः
केशेषु बलवद् गृह्य कंसं क्लेशार्हतां गतम् ॥

76.36

कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः
वैतनेयकरोद्धूतः पतगेन्द्र इवाभवत् ।
समाजवाटे परिखां देहकृष्टां चकार ह ॥

76.37

समाजवाटे विक्रीड्य विकृष्य च गतायुषम्
कृष्णो विसर्जयाम्_आस कंसदेहम् अदूरतः ॥

76.38

धरण्यां मृदितः शेते तस्य देहः सुखोचितः
क्रमेण विपरीतेन पांसुभिः परुषीकृतः ॥

76.39

तस्य तद् वदनं श्यावं सुप्ताक्षं मुकुटं विना
न विभाति विपर्यस्तं विपलाशं यथाम्बुजम् ॥

76.40

असंग्रामे हतः कंसः स बाणैर् अपरिक्षतः
कण्ठग्राहान् निरस्तासुर् वीरमार्गान् निराकृतः ॥

76.41

तस्य देहे प्रकाशन्ते सहसा केशवार्पिताः
मांसच्छेदघनाः सर्वे नखाग्रा जीवितच्छिदः ॥

76.42

तं हत्वा पुण्डरीकाक्षः प्रहर्षाद् द्विगुणप्रभः
ववन्दे वसुदेवस्य पादौ निहतकण्टकः ॥

76.43

मातुश् च शिरसा पादौ निपीड्य यदुनन्दनः
सासिञ्चत् प्रस्नवोत्पीडैः कृष्णम् आनन्दनिःसृतैः ॥

76.44

यादवांश् चैव तान् सर्वान् यथास्थानं यथावयः
पप्रच्छ कुशलं कृष्णो दीप्यमानः स्वतेजसा ॥

76.45

बलदेवो ऽपि धर्मात्मा कंसभ्रातरम् ऊर्जितम्
बाहुभ्याम् एव तरसा सुनामानम् अपोथयत् ॥

76.46

तौ जितारी जितक्रोधौ चिरं विप्रोषितौ व्रजे
स्वपितुर् भवनं वीरौ जग्मतुर् हृष्टमानसौ ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc