हरिवंश · अध्याय 75
प्रविशन्तं तु वेगेन मारुतावल्गिताम्बरम्
पूर्वजं पुरतः कृत्वा कृष्णं कमललोचनम् ॥
गजदन्तकृतोल्लेखं सुभुजं देवकीसुतम्
लीलाकृताङ्गदं वीरं मदेन रुधिरेण च ॥
वल्गमानं यथा सिंहं गर्जमानं यथा घनम्
बाहुशब्दप्रहारेण चालयन्तं वसुंधराम् ॥
औग्रसेनिः समालोक्य दन्तिदन्तोद्यतायुधम्
कृष्णं भृशायस्तमुखः सरोषं समुदैक्षत ॥
भुजासक्तेन शुशुभे गजदन्तेन केशवः
चन्द्रार्धबिम्बसंयुक्तो यथैकशिखरो गिरिः ॥
वल्गमाने गोविन्दे स कृत्स्नो रङ्गसागरः
जनौघप्रतिनादेन पूर्यमाण इवाबभौ ॥
कंसेनापि समाज्ञप्तश् चाणूरः पूर्वम् एव तु
योधव्यं सह कृष्णेन त्वया यत्नवतेति वै ॥
स रोषेण तु चाणूरः कषायीकृतलोचनः
अभ्यवर्तत युद्धाय अपां पूर्णो यथा घनः ॥
अवघुष्टे समाजे तु निःशब्दस्तिमिते जने
यादवास् तत्र सहिता इदं वचनम् अब्रुवन् ॥
बाहुयुद्धम् इदं रङ्गे सप्राश्निकम् अकातरम्
क्रियाबलसमाज्ञातम् अशस्त्रं निर्मितं पुरा ॥
अद्भिश् चापि श्रमो नित्यं विनेयः कालदर्शिभिः
करीषेण च मल्लस्य सततं प्रक्रिया स्मृता ॥
स्थितो भूमिगतश् चैव यो यथामार्गतः स्थितः
स्थितौ भूमिगतौ चैव यथा तौ मार्गम् आस्थितौ ।
नियुध्यतश् च पर्यायः प्राश्निकैः समुदाहृतः ॥
बालो वा यदि वा मध्यः स्थविरो वा कृशो ऽपि वा
बलस्थो वा स्थितो रङ्गे ज्ञेयः कक्ष्यान्तरेण वै ॥
बलतश् च क्रियातश् च बाहुयुद्धविधिर् युधि
निर्घातानन्तरं किंचिन् न कर्तव्यं विजानता ॥
तद् इदं प्रस्तुतं रङ्गे युद्धं कृष्णान्ध्रमल्लयोः
बालः कृष्णो महान् अन्ध्रस् तत्र न स्याद् विचारणा ॥
ततः किलकिलाशब्दः समाजे समवर्तत
प्रावल्गत च गोविन्दो वाक्यं चेदम् उवाच ह ॥
अहं बालो महान् अन्ध्रो वपुषा पर्वतोपमः
युद्धं मम सहानेन रोचते बाहुशालिना ॥
युद्धव्यतिक्रमः कश्चिन् न भविष्यति मत्कृतः
न ह्य् अहं बाहुयोधानां दूषयिष्यामि यन् मतम् ॥
यो ऽयं करीषधर्मश् च तोयधर्मश् च रङ्गजः
कषायस्य च संसर्गः समयो ह्य् एष कल्पितः ॥
संयमः स्थिरता शौर्यं व्यायामः मत्क्रिया बलम्
रेङ्गे च नियता सिद्धिर् एतद् युद्धमुखे व्रतम् ॥
यद् अयं बाहुभिर् युद्धं सवैरं कर्तुम् उद्यतः
अत्र वै निग्रहः कार्यस् तोषयिष्याम्य् अहं जगत् ॥
करूषेषु प्रसूतो ऽयं चाणूरो नाम नामतः
बाहुयोधी सरीरेण कर्मभिश् चानुचिन्त्यताम् ॥
एतेन बहवो मल्ला निहता युद्धदुर्मदाः
रङ्गप्रतापकामेन मल्लमार्गश् च दूषितः ॥
सस्त्रसिद्धिस् तु योधानां संग्रामे शस्त्रयोधिनाम्
रङ्गसिद्धिस् तु मल्लानां प्रतिमल्लनिघातजा ॥
रणे विजयमानस्य कीर्तिर् भवति शाश्वती
हतस्यापि रणे सस्त्रैर् नाकपृष्ठं विधीयते ॥
रणे ह्य् उभयतः सिद्धिर् हतस्यापि घ्नतो ऽपि वा
सा हि प्राणान्तिका यात्रा महद्भिः साधु पूजिता ॥
अयं तु मार्गो बलतः क्रियातश् च विनिःसृतः
मृतस्य रङ्गे कः स्वर्गो जयतो वा कुतो रतिः ॥
ये तु केचित् स्वदोषेण राज्ञः पण्डितमानिनः
योत्स्याम बाला बलिभिर् बाहुभिः सह संकटे ।
एवम् उक्त्वा ततः कृष्णश् चाणूरं समपद्यत ।
आस्फोट्य बाहू राजेन्द्र चाणूरः कृष्णम् अभ्ययात् ॥
ताव् उभौ सिंहविक्रान्तौ मत्ताव् इव महागजौ ।
युयुधाते तदान्योन्यम् एभिर् मल्लपरिश्रमैः ।
प्रतापार्थे हता मल्ला मल्लहन्तुर् वधो हि सः ॥
एवं संजल्पताम् एव ताभ्यां युद्धं सुदारुणम्
उभाभ्याम् अभवद् घोरं वारणाभ्यां यथा वने ॥
कृतप्रतिकृतैश् चित्रैर् बाहुभिश् च ससंकटैः
संनिपातावधूतैश् च प्रमाथोन्मथनैस् तथा ॥
क्षेपणैर् मुष्टिभिश् चैव वराहोद्भूतनिस्वनैः
कीलैर् वज्रनिपातैश् च प्रसृष्टाभिस् तथैव च ॥
शलाकानखपातैश् च पादोद्धूतैश् च दारुणैः
जानुभिश् चास्मनिर्घोषैः शिरोभिश् चावघट्टितैः ॥
तद् युद्धम् अभवद् घोरम् असस्त्रं बाहुतेजसा
बलप्राणेन शूराणां समाजोत्सवसंनिधौ ॥
संरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः
साधु वादांश् च मञ्चेषु घोषयन्त्य् अपरे जनाः ॥
ततः प्रस्विन्नवदनः कृष्णप्रणिहितेक्षणः
न्यवारयत तूर्याणि कंसः सव्येन पाणिना ॥
प्रतिषिद्धेषु तूर्येषु मृदङ्गादिषु तेषु वै
खे संगतान्य् अवाद्यन्त देवतूर्याण्य् अनेकशः ॥
युध्यमाने हृषीकेशे पुण्डरीकनिभेक्षणे
स्वयम् एव प्रवाद्यन्त तूर्यघोषाश् च सर्वशः ॥
अन्तर्धानगता देवा विमानैः कामरूपिभिः
चेरुर् विद्याधरैः सार्धं कृष्णस्य जयकाङ्क्षिणः ॥
जयस्व कृष्ण चाणूरं दानवं मल्लदेहिनम्
इति सप्तर्षयः सर्वे ऊचुश् चैव नभोगताः ॥
चाणूरेण चिरं कालं क्रीडित्वा देवकीसुतः
बलम् आहारयामास कंसस्याभावदर्शिवान् ॥
ततश् चचाल वसुधा मञ्चाश् चैव जुघूर्णिरे
मुकुताच् चापि कंसस्य पपात मणिर् उत्तमः ॥
दोर्भ्याम् आनम्य कृष्णस् तु चाणूरं पूर्णजीवितम्
प्राहरन् मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥
निःसृते साश्रुरुधिरे तस्य नेत्रे सबन्धने
तापनीये यथा घण्टे वक्ष्योपरि विलम्बिते ॥
स पपात च रङ्गस्य मध्ये निःसृतलोचनः
चाणूरो विगतप्राणो जीवितान्ते महीतले ॥
देहेन तस्य रङ्गस्य चाणूरस्य गतायुषः
संनिरुद्धो महामार्गः स शैलेनेव लक्ष्यते ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0