भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 74

74.1

तस्मिन्न् अहनि निर्वृत्ते द्वितीये समुपस्थिते
संकीर्यत महारङ्गः पौरैर् युद्धदिदृक्षुभिः ॥

74.2

सचित्राष्टास्त्रिचरणाः सार्गलद्वारवेदिकाः
सगवाक्षार्धचन्द्राश् च सतलोत्तमभूषिताः ॥

74.3

प्राङ्मुखैश् चारुनिर्मुक्तैः माल्यदामावतंसितैः
अलंकृतैर् विराजद्भिः शारदैर् इव तोयदैः ॥

74.4

मञ्चागारैः सुनिर्युक्तैर् युद्धार्थं सुविभूषितैः
समाजवाटः शुशुभे स मेघौघैर् इवार्णवः ॥

74.5

स्वकर्मद्रव्ययुक्ताभिः पताकाभिर् निरन्तरम्
श्रेणीनां च गणानां च मञ्चा भान्त्य् अचलोपमाः ॥

74.6

अन्तःपुरगतानां च प्रेक्षागाराण्य् अदूरतः
रेजुः काञ्चनचित्राणि रत्नज्वालाकुलानि च ॥

74.7

तानि रत्नौघकॢप्तानि ससानुप्रग्रहाणि च
रेजुर् जवनिकाक्षेपैः सपक्षा इव खे नगाः ॥

74.8

तत्र चामरहासैश् च भूषणानां च शिञ्जितैः
मणीनां च विचित्राणां विचित्राश् चेरुर् अर्चिषः ॥

74.9

गणिकानां पृथङ्मञ्चाः शुभैर् आस्तरणाम्बरैः
शोभिता वारमुख्याभिर् विमानप्रतिमौजसः ॥

74.10

तत्रासनानि मुख्यानि पर्यङ्काश् च हिरण्मयः
प्रकीर्णाश् च कुथाश् चित्राः सपुष्पस्तबकद्रुमाः ॥

74.11

सौवर्णाः पानकुम्भाश् च पानभूम्यश् च शोभिताः
फलावदंशपूर्णाश् च चाङ्गेर् यः पानयोजिताः ॥

74.12

अन्ये च मञ्चा बहवः काष्ठसंचयबन्धनाः
रेजुः प्रस्तरशस् तत्र प्रकाशा मञ्चसंचयाः ॥

74.13

उत्तमागारिकाश् चान्ये सूक्ष्मजालावलोकिनः
स्त्रीनां प्रेक्षागृहा भान्ति राजहंसा इवाम्बरे ॥

74.14

प्राखङ्मुश् चारुनिर्युक्तो मेरुशृङ्गसमप्रभः
रुक्मपत्रनिभस्तम्भश् चित्रनिर्योगशोभितः ॥

74.15

प्रेक्षागारः स कंसस्य प्रचकाशे ऽधिकं श्रिया
शोभितो माल्यदामैश् च निवासकृतलक्षणः ॥

74.16

तस्मिन्न् आनाजनाकीर्णे जनौघप्रतिनादिते
समाजवाटे संस्तब्धे कम्पमानार्णवप्रभे ॥

74.17

राजा कुवलयापीडो रङ्गस्य द्वारि कुञ्जरः
तिष्ठत्व् इति समाज्ञाप्य प्रेक्षागारम् अथाययौ ॥

74.18

स शुक्ले वाससी बिभ्रच् छ्वेतव्यजनचामरः
शुशुभे श्वेतमुकुटः श्वेताभ्र इव चन्द्रमाः ॥

74.19

तस्य सिंहासनस्थस्य सुखासीनस्य धीमतः
रूपम् अप्रतिमं दृष्ट्वा पौराः प्रोचुर् जयाशिषः ॥

74.20

ततः प्रविविशुर् मल्ला रङ्गम् आवल्गिताम्बराः
तिस्रश् च भागशः कक्ष्याः प्राविशन् बलशालिनः ॥

74.21

ततस् तूर्यनिनादेन क्ष्वेडितास्फोटितेन च
वसुदेवसुतौ हृष्टौ रङ्गद्वारम् उपस्थितौ ॥

74.22

ताव् आपतन्तौ त्वरितौ प्रतिषिद्धौ वराननौ
रङ्गद्वारं समासाद्य तस्मिन् गजम् अवस्थितम् ।
अपश्यत् कुवलयापीडं कृष्णो ऽम्बष्ठप्रणोदितम् ॥
बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् ।
उवाच हस्तिपं वाचा मेघनादगभीरया ॥
अम्बष्ठाम्बष्ठ मार्गं नौ देह्य् अपाक्रम मा चिरम् ।
नो चेत् सकुञ्जरं हत्वा नयामि यमसादनम् ॥
एवं निर्भर्त्सितो ऽम्बष्ठः कुपितः कोपितं गजम् ।
चोदयाम् आस कृष्णाय कालान्तकयमोपमम् ।
तेन मत्तेन नागेन चोद्यमानेन वै भृशम् ॥

74.23

स मत्तहस्ती दुष्टात्मा कृत्वा कुण्डलिनं करम्
चकार चोदितो यत्नं निहन्तुं बलकेशवौ ॥

74.24

ततः प्रहसितः कृष्णस् त्रास्यमानो गजेन वै
कंसस्यमत्सरं चैव जगर्हे स दुरात्मनः ॥

74.25

त्वरते खलु कंसो ऽयं गन्तुं वैवस्वतक्षयम्
यो माम् अनेन नागेन प्रधर्षयितुम् इच्छति ॥

74.26

संनिकृष्टे ततो नागे गर्जमाने यथा घने
सहसोत्पत्य गोविन्दश् चक्रे तालस्वनं प्रभुः ॥

74.27

क्ष्वेदितास्फोटितरवं कृत्वा नागस्य चाग्रतः
करं च श्रीधरस् तस्य प्रतिजग्राह वक्षसा ॥

74.28

विषाणान्तरगो भृत्वा पुनश् चरणमध्यगः
बबाधे तं गजं कृष्णः पवनस् तोयदं यथा ॥

74.29

स हस्ताच् च विनिष्क्रान्तो विषाणाग्राच् च दन्तिनः
विमुक्तः पादमध्याच् च कृष्णो द्विपम् अमोहयत् ॥

74.30

सो ऽन्तिकायस् तु संमूढो हन्तुं कृष्णम् अशक्नुवन्
गजः स्वेष्व् एव गात्रेषु मथ्यमानो ररास ह ॥

74.31

पपात भूमौ जानुभ्यां दशनाभ्यां तुतोद ह
मदं सुस्राव रोषाच् च घर्मापाय यथा घनः ॥

74.32

कृष्णस् तु तेन नागेन क्रीडित्वा शिशुना यथा
निधनाय मतिं चक्रे कंसद्विष्टेन चेतसा ॥

74.33

स तस्य प्रमुखे पादं कृत्वा कुम्भाद् अनन्तरम्
दोर्भ्यां विषाणम् उत्पाट्य तेनैव प्राहरत् तदा ॥

74.34

स तेन वज्रकल्पेन स्वेन दन्तेन कुञ्जरः
हन्यमानः शकृन्मूत्रं चकारार्तो ररास ह ॥

74.35

कृष्णजर्जरिताङ्गस्य कुञ्जरस्यार्तचेतसः
कटाभ्याम् अतिसुस्राव वेगवद् भूरि शोणितम् ॥

74.36

लाङ्गूलं चास्य वेगेन निश्चकर्ष हलायुधः
शैलपृष्ठार्धसंलीनं वैनतेय इवोरगम् ॥

74.37

तेनैव गजदन्तेन कृष्णो हत्वा तु कुञ्जरम्
जघानैकप्रहारेण गजारोहम् अथोल्बणम् ॥

74.38

सो ऽर्तनादं महत् कृत्वा विदन्तो दन्तिनां वरः
पपात समहामात्रो वज्रभिन्न इवाचलः ॥

74.39

तं हत्वा पुण्डरीकाक्षो नदन्तं दन्तिनां वरम्
अवतीर्णो ऽर्णवाकारं समाजं सहपूर्वजः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc