हरिवंश · अध्याय 73
महामात्रं ततः कंसो बभाषे हस्तिजीविनम्
हस्ती कुवलयापीडः समाजद्वारि तिष्ठतु ॥
बलवान् मदलोलाक्षश् चपलः क्रोधनो नृषु
दानोत्कटकटश् चण्डः प्रतिवारणरोषणः ॥
स संचोदयितव्यस् ते ताव् उद्दिश्य वनौकसौ
वसुदेवसुतौ नीचौ यथा स्यातां गतायुषौ ॥
त्वया चैव गजेन्द्रेण यदि तौ गोषु जीविनौ
भवेतां घातितौ रङ्गे पश्येयम् अहम् उत्कटौ ॥
ततस् तौ पतितौ दृष्ट्वा वसुदेवः सबान्धवः
छिन्नमूलो निरालम्बः सभार्यो विनशिष्यति ॥
ये चेमे यादवा मूर्खाः सर्वे कृष्णपरायणाः
विनशिष्यन्ति छिन्नाशा दृष्ट्वा कृष्णं निपातितम् ॥
एतौ हत्वा गजेन्द्रेण मल्लैर् वा स्वयम् एव वा
पुरीं निर्यादवां कृत्वा विचरिष्याम्य् अहं सुखी ॥
पितापि मे परित्यक्तो यो यादवकुलोद्वहः
शेषाश् च मे परित्यक्ता यादवाः कृष्णपक्षिणः ॥
न चाहम् उग्रसेनेन जातः किल सुतार्थिना
मानुषेणाल्पवीर्येण यथा माम् आह नारदः ॥
सुयामुनं नाम गिरिं मम माता रजस्वला
प्रेक्षितुं सह सा स्त्रीभिर् गता वनकुतूहलात् ॥
सा तत्र रमणीयेषु रुचिरद्रुमसानुषु
चचार नगशृङ्गेषु कन्दरेषु नदीषु च ॥
किंनरोद्गीतमधुराः प्रतिश्रुत्यानुनादिताः
शृण्वन्ती कामजननीर् वाचः श्रोत्रसुखावहाः ॥
बर्हिणानां च विरुतं खगानां च विकूजितम्
अभीक्ष्णम् अभिशृण्वन्ती स्त्रीधर्मम् अभिरोचयत् ॥
एतस्मिन्न् अन्तरे वायुर् वनराजिविनिःसृतः
हृद्यः कुसुमगन्धाढ्यो ववौ मन्मथबोधनः ॥
द्विरेफाभरणाश् चैव कदम्बा वायुघट्टिताः
मुमुचुर् गन्धम् अधिकं संततासारमूर्छिताः ॥
केसराः पुष्पवर्षैश् च ववृषुः मदबोधनाः
नीपा दीपा इवाभान्ति पुष्पकण्टकधारिणः ॥
मही नवतृणच्छन्ना शक्रगोपविभूषिता
यौवनस्थेव वनिता खं दधारार्तवं वपुः ॥
अथ सौभपतिः श्रीमान् द्रुमिलो नाम दानवः
उग्रसेनस्य रूपेण मातरं मे प्रधर्षयत् ॥
सा पतिस्निग्धहृदया भावेनोपससर्प तम्
शङ्किता चाभवत् पश्चात् तस्य गौरवदर्शनात् ॥
सा तम् आहोत्थिता भीता न त्वं मम पतिर् ध्रुवम्
कश् च त्वं विकृताकारो येनास्मि मलिनीकृता ॥
एकपत्नीव्रतम् इदं मम संदूषितं त्वया
पत्युर् मे रूपम् आस्थाय नीच नीचेन कर्मणा ॥
किं मां वक्ष्यन्ति रुषिता बान्धवाः कुलपांसनीम्
जुगुप्सिता च वत्स्यामि पतिपक्षैर् निराकृता ॥
धिक् त्वाम् ईदृशम् अक्षान्तं दौष्कुलं व्युत्थितेन्द्रियम्
अविश्वास्यम् अनायुष्यं परदाराभिमर्शनम् ॥
स ताम् आह प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः
अहं वै द्रुमिलो नाम सौभस्य पतिर् ऊर्जितः ॥
किं मां क्षिपसि दोषेण मूढे पण्डितमानिनि
मानुषं पतिम् आश्रित्य हीनवीर्यपराक्रमम् ॥
व्यभिचारान् न दुष्यन्ति स्त्रियः स्त्रीमान् अगर्विते
न्य् ह्य् आसीन्न् इयता बुद्धिर् मानुषीणां विशेषतः ॥
श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः
प्रसूता देवसंकाशान् पुत्रान् अमितविक्रमान् ॥
अतीव त्वं हि लोके ऽस्मिन् पतिधर्मवती सती
शुद्धा केशान्विधुन्वन्ती भाषसे यद् यद् इच्छसि ॥
कस्य त्वम् इति यच् चाहं त्वयोक्तो मत्तकाशिनी
कंसो नाम रिपुध्वंशी तव पुत्रो भविष्यति ॥
सा सरोषा पुनर् भूत्वा निन्दती तस्य तं वरम्
उवाच व्यथिता देवी दानवं दुष्टवादिनम् ॥
धिक् ते वृत्तं सुदुर्वृत्त यः सर्वा निन्दसे स्त्रियः
सन्ति स्त्रियो नीचवृत्ताः सन्ति चैव पतिव्रताः ॥
यास् त्व् एकपत्न्यः श्रूयन्ते ऽरुन्धतीप्रमुखाः स्त्रियः
धृतास् ताभिस् त्रयो लोकाः सर्वे वै कुलपांसन ॥
यस् त्वया मम पुत्रो वै दत्तो वृत्तविनाशनः
न मे बहुमतस् त्व् एष शृणु चापि यद् उच्यते ॥
उत्पत्स्यति पुमान् नीच पतिवंशे ममाव्ययः
भविष्यति स ते मृत्युर् यश् च दत्तस् त्वया सुतः ॥
द्रुमिलस् त्व् एवम् उक्तस् तु जगामाकाशम् एव तु
तेनैव रथमुख्येन दिव्येनाप्रतिगामिना ।
जगाम च पुरीं दीना माता तद् अहर् एव मे ॥
क्षेत्रजो ऽहं सुतस् त्व् एवम् उग्रसेनस्य हस्तिप
मातापितृभ्यां संत्यक्तः स्थापितः स्वेन तेजसा ॥
उभाभ्यां चापि विद्विष्टो बान्धवैश् च विशेषतः
तद् इमौ घातयित्वा तु हस्तिना गोपकिल्बिषौ ।
बध्वा च पितरं राज्ये स्थितो ऽस्मि च बलीयसा ।
एतान् अपि हनिष्यमि हत्वा गोपालकाव् उभौ ॥
तद् गच्छ गजम् आरुह्य साङ्कुशप्रासतोमरः
स्थिरो भव महामात्र समाजद्वारि मा चिरम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0