भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 72

72.1

स चिन्तयित्वा धनुषो भङ्गं भोजविवर्धनः
बभूव विमना राजा चिन्तयन् भृशदुःखितः ॥
कथं बालो विगतभीर् अवमत्य महाबलम् ।
प्रेक्षमाणस् तु पुरुषैर् धनुर् भङ्क्त्वा विनिर्गतः ॥
यस्यार्थे दारुणं कर्म कृत्वा लोकविगर्हितम् ।
पितृस्वस्रात्मजान् भीतः षडेवाहं उपस्थितम् ॥
दैवं पुरुषकारेण न शक्यम् अतिवर्तितुम् ।
नारदोक्तं च वचनं नूनं मह्यम् उपस्थितम् ॥
एवं राजा विचिन्त्याथ निष्क्रम्य स गृहोत्तमात् ।
प्रेक्षागारं जगामाशु मञ्चानाम् अवलोककः ॥

72.2

स दृष्ट्वा सर्वनिर्युक्तं प्रेक्षागारं नृपोत्तमः
श्रेणीनां दृढसंयुक्तैर् मञ्चवाटैर् निरन्तरम् ॥

72.3

सोत्तमागारयुक्ताभिर् वलभीभिर् विभूषितम्
कुटीभिश् च प्रवृद्धाभिर् एकस्तम्भैश् च भूषितम् ॥

72.4

सर्वतः सारनिर्युक्तं स्वायतं सुप्रतिष्ठितम्
उदक्प्रवणसंश्लिष्टं मञ्चारोहणम् उत्तमम् ॥

72.5

नृपासनपरिक्षिप्तं संचारपथसंकुलम्
छन्नं तद् वेदिकाभिश् च मानवौघभरक्षमम् ॥

72.6

स दृष्ट्वा भूषितं रङ्गम् आज्ञापयत बुद्धिमान्
श्वः सचित्राः समाल्याश् च सपताकास् तथैव च ॥

72.7

सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः
क्रियन्तां मञ्चवाटाश् च वलभीवीथयस् तथा ॥

72.8

अक्षवाटे करीषस्य कल्प्यन्तां राशयो ऽव्ययाः
पटास् तरणशोभाश् च बलयश् चानुरूपतः ॥

72.9

स्थाप्यन्तां सुनिखाताश् च महाकुम्भा यथाक्रमम्
उदभारसहाः सर्वे सकाञ्चनघटोत्तराः ॥

72.10

बलयश् चोपकल्प्यन्तां कषायाश् चैव कुम्भशः
प्राश्निकाश् च निमन्त्र्यन्तां श्रेण्यश् च सपुरोगमाः ॥

72.11

आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च
समाजे मञ्चशोभाश् च कल्प्यन्तां सूपकल्पिताः ॥

72.12

एवम् आज्ञाप्य राजा स समाजविधिम् उत्तमम्
समाजवाटान् निष्क्रम्य विवेश स्वं निवेशनम् ॥

72.13

आह्वानं तत्र संचक्रे तस्य मल्लद्वयस्य वै
चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च ॥

72.14

तौ तु मल्लौ महावीर्यौ बलिनौ युद्धशालिनौ
कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस् तदा ॥

72.15

तौ समीपगतौ मल्लौ दृष्ट्वा जगति विश्रुतौ
उवाच कंसो नृपतिः सोपन्यासम् इदं वचः ॥

72.16

भवन्तौ मम विख्यातौ मल्लौ वीरध्वजोचितौ
पूजितौ च यथान्यायं सत्कारार्हौ विशेषतः ॥

72.17

तन् मत्तो यदि सत्कारः स्मर्यते सुकृतानि वा
कर्तव्यं मे महत् कर्म भवद्भ्यां स्वेन तेजसा ॥

72.18

याव् एतौ मम संवृद्धौ व्रजे गोपालकाव् उभौ
संकर्षणश् च कृष्णश् च बालाव् अपि जितश्रमौ ॥

72.19

एतौ रङ्गगतौ युद्धे युध्यमानौ वनेचरौ
निपातान् अन्तरं शीघ्रं हन्तव्यौ नात्र संशयः ॥

72.20

बालाव् इमौ चपलकाव् अक्रियाव् इति सर्वथा
नावज्ञा तत्र कर्तव्या कर्तव्यो यत्न एव हि ॥

72.21

ताभ्यां युधि निरस्ताभ्यां गोपाभ्यां रङ्गसंनिधौ
आयतां च तदात्वे च श्रेयो मम भविष्यति ॥

72.22

नृपतेः स्नेहसंयुक्तैर् वचोभिर् हृष्टमानसौ
ऊचतुर् युद्धसंमत्तौ मल्लौ चाणूरमुष्टिकौ ॥

72.23

यद्य् आवयास् तौ प्रमुखे स्थास्येते गोपकिल्बिषौ
हताव् इत्य् अवगन्तव्यौ प्रेतरूपौ तपस्विनौ ॥

72.24

यदि वा प्रतियोत्स्येते ताव् अरिष्टपरिप्लुतौ
आवाभ्यां रोषयुक्ताभ्यां प्रमुखस्थौ वनौकसौ ॥

72.25

एवं वाग्विषम् उत्सृज्य ताव् उभौ मल्लपुंगवौ
अनुज्ञातौ नरेन्द्रेण स्वगृहं प्रतिजग्मतुः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc