भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 6

6.1

एकस्यार्थाय यो हन्याद् आत्मनो वा परस्य वा
बहून् वै प्राणिनो लोके भवेत् तस्येह पातकम् ॥

6.2

सुखम् एधन्ति बहवो यस्मिंस् तु निहते शुभे
तस्मिन् हते नास्ति भद्रे पातकं नोपपातकम् ॥

6.3

सो ऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुंधरे
यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥

6.4

त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम्
आत्मानं प्रथयित्वाहं प्रजा धारयिता स्वयम् ॥

6.5

सा त्वं शासनम् आस्थाय मम धर्मभृतां वरे
संजीवय प्रजाः सर्वाः समर्था ह्य् असि धारणे ॥

6.6

दुहितृत्वं च मे गच्छ तत एनम् अहं शरम्
नियच्छेयं त्वद्वधार्थम् उद्यतं घोरदर्शनम् ॥

6.7

सर्वम् एतद् अहं वीर विधास्यामि न संशयः
वत्सं तु मम तं पश्य क्षरेयं येन वत्सला ॥

6.8

समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर
यथा विष्यन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥

6.9

तत उत्सारयामास शिलाः शतसहस्रशः
धनुष्कोट्या तदा वैन्यस् तेन शैला विवर्धिताः ॥

6.10

न हि पूर्वविसर्गे वै विषमे पृथिवीतले
प्रविभागः पुराणां वा ग्रामाणां वा तदाभवत् ॥

6.11

न सस्यानि न गोरक्ष्यं न कृषिर् न वणिक्पथः
नैव सत्यानृतं तत्र न लोभो न च मत्सरः ।
वैवस्वते ऽन्तरे तस्मिन् सांप्रते समुपस्थिते ।
वैन्यात् प्रभृति राजेन्द्र सर्वस्यैतस्य संभवः ॥

6.12

यत्र यत्र समं त्व् अस्या भूमेर् आसीत् तदानघ
तत्र तत्र प्रजाः सर्वा निवासं समरोचयन् ॥

6.13

आहारः फलमूलानि प्रजानाम् अभवत् तदा
कृच्छ्रेण महता युक्त इत्य् एवम् अनुशुश्रुम ॥

6.14

संकल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम्
स्वे पाणौ पुरुषव्याघ्र दुदोह पृथिवीं ततः ॥

6.15

सस्यजातानि सर्वाणि पृथुर् वैन्यः प्रतापवान्
सस्यानि तेन वै दुग्धा वैन्येनेयं वसुंधरा ।
तेनान्नेन प्रजास् तात वर्तन्ते ऽद्यापि नित्यशः ॥

6.16

ऋषिभिः श्रूयते चापि पुनर् दुग्ध्हा वसुंधरा
वत्सः सोमो ऽभवत् तेषां दोग्धा चाङ्गिरसः सुतः ॥

6.17

बृहस्पतिर् महातेजाः पात्रं छन्दांसि भारत
क्षीरम् आसीद् अनुपमं तपो ब्रह्म च शाश्वतम् ॥

6.18

ततः पुनर् देवगणैः पुरंदरपुरोगमैः
काञ्चनं पात्रम् आदाय दुग्धेयं श्रूयते मही ॥

6.19

वत्सस् तु मघवान् आसीद् दोग्धा तु सविता विभुः
क्षीरम् ऊर्जस्करं चैव येन वर्तन्ति देवताः ॥

6.20

पितृभिः श्रूयते चापि पुनर् दुग्धा वसुंधरा
राजतं पात्रम् आदाय स्वधाम् अमितविक्रमैः ॥

6.21

यमो वैवस्वतस् तेषाम् आसीद् वत्सः प्रतापवान्
अन्तकश् चाभवद् दोग्धा कालो लोकप्रकालनः ॥

6.22

नागैश् च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम्
अलाबुपात्रम् आदाय विषं क्षीरं नरोत्तम ॥

6.23

तेषाम् ऐरावतो दोग्धा धृतराष्ट्रः प्रतापवान्
नागानां भरतश्रेष्ठ सर्पाणां च महीपते ॥

6.24

तेनैव वर्तयन्त्य् उग्रा महाकाया महाबलाः
तदाहारास् तदाचारास् तद्वीर्यास् तदपाश्रयाः ॥

6.25

असुरैः श्रूयते चापि पुनर् दुग्धा वसुंधरा
आयसं पात्रम् आदाय मायाः शत्रुनिबर्हणीः ॥

6.26

विरोचनस् तु प्राह्रादिर् वत्सस् तेषाम् अभूत् तदा
ऋत्विग् द्विमूर्धा दैत्यानां मधुर् दोग्धा महाबलः ॥

6.27

तयैते माययाद्यापि सर्वे मायाविनो ऽसुराः
वर्तयन्त्य् अमितप्रज्ञास् तद् एषाम् अमितं बलम् ॥

6.28

यक्षैश् च श्रूयते राजन् पुनर् दुग्धा वसुंधरा
आमपात्रे महाराज पुरान्तर्धानम् अक्षयम् ॥

6.29

वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस् तथा
दोग्धा रजतनाभस् तु पिता मणिवरस्य यः ।
यक्षात्मजो महातेजास् त्रिशीर्षः सुमहातपाः ।
दोग्धा तु धनदः स्वामिन्न् एवं तैश् च वसुंधरा ।
तेन ते वर्तयन्तीह परमर्षिर् उवाच ह ॥

6.30

राक्षसैश् च पिशाचैश् च पुनर् दुग्धा वसुंधरा
शावं कपालम् आदाय प्रजा भोक्तुं नरर्षभ ॥

6.31

दोग्धा रजतनाभस् तु तेषाम् आसीत् कुरूद्वह
वत्सः सुमाली कौरव्य क्षीरं रुधिरम् एव च ॥

6.32

तेन क्षीरेण रक्षांसि यक्षाश् चैवामरोपमाः
वर्तयन्ति पिशाचाश् च भूतसंघास् तथैव च ॥

6.33

पद्मपत्रे पुनर् दुग्धा गन्धर्वैः साप्सरोगणैः
वत्सं चित्ररथं कृत्वा शुचीन् गन्धान् नरोत्तम ॥

6.34

तेषां च सुरुचिस् त्व् आसीद् दोग्धा भरतसत्तम
गन्धर्वराजो ऽतिबलो महात्मा सूर्यसंनिभः ॥

6.35

शैलैश् च श्रूयते दुग्धा पुनर् देवी वसुंधरा
ओषधीर् वै मूर्तिमती रत्नानि विविधानि च ॥

6.36

वत्सस् तु हिमवान् आसीद् दोग्धा मेरुर् महागिरिः
पात्रं तु शैलम् एवासीत् तेन शैलाः प्रतिष्ठिताः ॥

6.37

दुग्धेयं वृक्षवीरुद्भिः श्रूयते च वसुंधरा
पालाशं पात्रम् आदाय च्छिन्नदग्धप्ररोहणम् ॥

6.38

सेयं धात्री विधात्री च पावनी च वसुंधरा
चराचरस्य सर्वस्य प्रतिष्ठा योनिर् एव च
सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहिणी ॥

6.39

आसीद् इयं समुद्रान्ता मेदिनीति परिश्रुता
मधुकैटभयोः कृत्स्ना मेदसाभिपरिप्लुता ॥

6.40

ततो ऽभ्युपगमाद् राज्ञः पृथोर् वैन्यस्य भारत
दुहितृत्वम् अनुप्राप्ता देवी पृथ्वीति चोच्यते ॥

6.41

पृथुना प्रविभक्ता च शोधिता च वसुंधरा
सस्याकरवती स्फीता पुरपत्तनमालिनी ॥

6.42

एवंप्रभावो वैन्यः स राजासीद् राजसत्तम
नमस्यश् चैव पूज्यश् च भूतग्रामैर् न संशयः ॥

6.43

ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः
पृथुर् एव नमस्कार्यो वृत्तिदः स सनातनः ॥

6.44

पार्थिवैश् च महाभागैः पार्थिवत्वम् अभीप्सुभिः
आदिराजो नमस्कार्यः पृथुर् वैन्यः प्रतापवान् ॥

6.45

योधैर् अपि च विक्रान्तैः प्राप्तुकामैर् जयं युधि
आदिराजो नमस्कार्यो योधानां प्रथमो नृपः ॥

6.46

यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम्
स घोररूपान् संग्रामान् क्षेमी तरति कीर्तिमान् ॥

6.47

वैश्यैर् अपि च वित्ताढ्यैर् वैश्यवृत्तिम् अनुष्ठितैः
पृथुर् एव नमस्कार्यो वृत्तिदाता महायशाः ॥

6.48

तथैव शूद्रैः शुचिभिस् त्रिवर्णपरिचारिभिः
पृथुर् एव नमस्कार्यः श्रेयः परम् अभीप्सुभिः ॥

6.49

एते वत्सविशेषाश् च दोग्धारः क्षीरम् एव च
पात्राणि च मयोक्तानि किं भूयो वर्णयामि ते ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc