हरिवंश · अध्याय 67
अक्रूरो ऽपि यथाज्ञप्तः कृष्णदर्शनलालसः
जगाम रथमुख्येन मनसस् तुल्यगामिना ॥
कृष्णस्यापि निमित्तानि शुभान्य् अङ्गगतानि वै
पितृतुल्येन शंसन्ति बान्धवेन समागमम् ॥
प्राग् एव च नरेन्द्रेण माथुरेणौग्रसेनिना
केशिनः प्रेषितो दूतो वधायोपेन्द्रकारणात् ॥
स तु दूतवचः श्रुत्वा केशी क्लेशकरो नृणाम्
वृन्दावनगतो गोपान् बाधते स्म दुरासदः ॥
मानुषं मांसम् अश्नानः क्रुद्धो दुष्टपराक्रमः
दुर्दान्तो वाजिदैत्यो ऽसौ करोति कदनं महत् ॥
निघ्नन् गा वै सगोपाला गवां पिशितभोजनः
दुर्दमः कामचारी च केसरी निरवग्रहः ॥
तदरण्यं श्मशानाभं नृणाम् अस्थिभिर् आवृतम्
यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः ॥
खुरैर् दारयते भूमिम् वेगेनारुजते द्रुमान्
हेषितैः स्पर्धते वायुम् प्लुतैर् लङ्घ्यते नभः ॥
अतिप्रवृद्धो मत्तश् च दुष्टाश्वो वनगोचरः
आकम्पितसटो रौद्रः कंसस्य चरितानुगः ॥
इरिणं तद्वनं सर्वं तेन सौदासकर्मणा
कृतं तुरगदैत्येन सर्वान् गोपाञ् जिघांसता ॥
तेन दुष्टप्रचारेण दूषितं तद्वनं महत्
न नृभिर् गोधनैर् वापि सेव्यते वनवृत्तिभिः ॥
निःसंपातः कृतः पन्थास् तेन तद्विषयाश्रयः
मदाच् चलितवृत्तेन नृमांसान्य् अश्नता भृशम् ॥
नृशब्दानुसरः क्रुद्धः स कदाचिद् दिनागमे
जगाम घोषसंवासं चोदितः कालधर्मणा ॥
तं दृष्ट्वा दुद्रुवुर् गोपाः स्त्रियश् च शिशुभिः सह
क्रन्दमाना जगन्नाथम् कृष्णं नाथम् उपाश्रिताः ॥
तासां रुदितशब्देन गोपानां क्रन्दितेन च
दत्त्वाभयं तु कृष्णो वै केशिनं सो ऽभिदुद्रुवे ॥
केशी चाभ्युद्यत ग्रीवः प्रकाशदशनेक्षणः
हेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ ॥
तम् आपतन्तं संप्रेक्ष्य केशिनं हयदानवम्
प्रत्युज्जगाम गोविन्दस् तोयदः शशिनं यथा ॥
केशिनस् तु तम् अभ्याशे दृष्ट्वा कृष्णम् अवस्थितम्
मनुष्यबुद्धयो गोपाः कृष्णम् ऊचुर् हितौषिणः ॥
कृष्ण तात न खल्व् एष सहसा ते हयाधमः
उपसर्प्यो भवान् बालः पापश् चैष दुरासदः ॥
एष कंसस्य सहजः प्राणस् तात बहिश्चरः
उत्तमश् च हयेन्द्राणां दानवो ऽप्रतिमो युधि ॥
त्रासनः परसैन्यानां तुरगाणां महाबलः
स्वध्यः सर्वसत्त्वानां प्रथमः पापकर्मणाम् ॥
गोपानां तद्वचः श्रुत्वा वदतां मधुसूदनः
केशिना सह युद्धाय मतिं चक्रे ऽरिसूदनः ॥
ततः सव्यं दक्षिणं च मण्डलानि परिभ्रमन्
पद्भ्याम् उभाभ्यां स हयः क्रोधेनारुजते द्रुमान् ॥
मुखे लम्बसटे चास्य स्कन्धदेशे घनावृते
वलयो ऽभ्रतरंगाभाः सुस्रुवुः क्रोधजं जलम् ॥
स फेनं वक्त्रजं चैव ववर्ष रजसावृतम्
हिमकाले यथा व्योम्नि नीहारम् इव चन्द्रमाः ॥
गोविन्दम् अरविन्दाक्षं हेषितोगारशीकरैः
स फेनैर् गात्रनिर्गीर्णैः प्रोक्षयामास सर्वतः ॥
खुरोद्धरणमुक्तेन मधुरक्षोदपाण्डुना
रजसा स हयः कृष्णं चकारारुणमूर्धजम् ॥
प्लुतवल्गितपादस् तु तक्षमाणो धरां खुरैः
दन्तान् निर्दशमानस् तु केशी कृष्णम् उपाद्रवत् ॥
स संसक्तस् तु कृष्णेन केशी तुरगसत्तमः
पुर्वाभ्यां चरणाभ्यां वै कृष्णं वक्षस्य् अताडयत् ॥
पुनः पुनश् च स बली प्राहिणोत् पार्श्वतः खुरान्
कृष्णस्य दानवो घोरं प्रहारम् अमितौजसः ।
वक्त्रेण चास्य घोरेण तीक्ष्णदंष्ट्रायुधेन वै
अदशद् बाहुविवरं कृष्णस्य रुषितो हयः ॥
स लम्बकेसरसटः कृष्णेन सह संगतः
रराज केशी मेघेन संसक्तः ख इवांशुमान् ॥
उरश् चास्योरसा हन्तुम् इयेष बलवान् हयः
वेगेन वासुदेवस्य क्रोधाद् द्विगुणविक्रमः ॥
तस्योत्सिक्तस्य बलवान् कृष्णो ऽप्य् अमितविक्रमः
बाहुम् आभोगिनं कृत्वा मुखे क्रुद्धः समादधत् ॥
स तं बाहुम् अशक्तो वै खादितुं भोक्तुम् एव वा
पुनर् आभोगिनं बाहुं तद्वक्त्रगतम् अञ्जसा ।
कृष्णः प्रसारयामास लीलया दानवं हसन् ।
दशनैर् मूलनिर्मुक्तैः सफेनं रुधिरं वमन् ॥
विपाटिताभ्याम् ओष्ठाभ्याम् कटाभ्यां विदलीकृतः
अक्षिणी विकृते चक्रे विसृते मुक्तबन्धने ॥
निरस्तहनुर् आविष्टः शोणितास्राविलेक्षणः
उत्कर्णो नष्टचेतास् तु स केशी बह्वचेष्टत ॥
उत्पत्य चासकृत् पादैः सकृन्मूत्रं समुत्सृजन्
स्विन्नार्द्रलोमा श्रान्तस् तु निर्यत्नचरणो ऽभवत् ॥
केशिवक्त्रविलग्नस् तु कृष्णबाहुर् अशोभत
व्याभुग्न इव घर्मान्ते चन्द्रार्धकिरणैर् घनः ॥
केशी च कृष्णसंसक्तः श्रान्तगात्रो व्यरोचत
प्रभातावनतश् चन्द्रः श्रान्तो मेरुम् इवाश्रितः ॥
तस्य कृष्णभुजोद्धूताः केशिनो दशना मुखात्
केशिनो वक्त्रनिर्धूता विविधा दशना भुवि ।
पेतुः शरदि निस्तोयाः सिताभ्रावयवा इव ॥
बाहुना कृत्तदेहस्य केशिनो रूपम् आबभौ
पशोर् इव महाघोरं निहतस्य पिनाकिना ॥
द्विपादपृष्ठपुच्छार्धे स्रवणैकाक्षिनासिके
केशिनस् ते द्विधा भूते द्वे अर्धे रेजतुः क्षितौ ॥
केशिदन्तक्षतश् चापि कृष्णस्य शुशुभे भुजः
वृद्धस् ताल इवारण्ये गजेन्द्रदशनाङ्कितः ॥
तं हत्वा केशिनं युद्धे कल्पयित्वा च भागशः
कृष्णः पद्मपलाशाक्षो हसंस् तत्रैव तस्थिवान् ॥
तं हतं केशिनं दृष्ट्वा गोपा गोपस्त्रियश् च ताः
बभूवुर् मुदिताः सर्वे हतविघ्ना हतक्लमाः ॥
दामोदरं च श्रीमन्तम् यथास्थानं यथावयः
अभ्यनन्दन् प्रियैर् वाक्यैः पूजयन्तः पुनः पुनः ॥
अहो तात कृतं कर्म हतो ऽयं लोककण्टकः
दैत्यः क्षितिचरः कृष्ण हयरूपं समास्थितः ॥
कृतं वृन्दावनं क्षेमं सेव्यं सर्वनृपक्षिणाम्
घ्नता पापम् इमं तात केशिनं हयम् आहवे ॥
हता नो बहवो गोपा गावो वत्साश् च वत्सलाः
नैके चान्ये जनपदा हतानेन दुरात्मना ॥
एष संवर्तकं कर्तुम् उद्यतः किल पापकृत्
नृलोकं निर्नरं कृत्वा चर्तुकामो यथासुखम् ॥
नैतस्य प्रमुखे स्थातुं कश्चिच् छक्तो जिजीविषुः
अपि देवसमूहेषु किं पुनः पृथिवीतले ॥
अथाहान्तर्हितो विप्रो नारदः खगमो मुनिः
प्रीतो ऽस्मि विष्णो देवेश कृष्ण कृष्णेति चासकृत् ॥
यद् इदं दुष्करं कर्म कृतं केशिजिघांसया
त्वय्य् एव केवलं युक्तम् त्रिदिवे त्र्यम्बके ऽपि वा ॥
अहं युद्धोत्सुकस् तात तर्पितेनान्तरात्मना
इदं नरहयं युद्धम् दर्ष्टुं स्वर्गाद् इहागतः ॥
पूतनानिधनादीनि कर्माणि तव दृष्टवान्
अहं त्व् अनेन गोविन्द कर्मणा परितोषितः ॥
हयस्यास्य महेन्द्रो ऽपि बिभेति बलसूदनः
कुर्वाणस्य वपुर् घोरम् केशिनो दुष्टचेतसः ॥
यत् त्वया पाटितो द्वैधं भुजेनायतपर्वणा
एषो ऽस्य मृत्युर् अन्ताय विहितो विश्वयोनिना ॥
यस्मात् त्वया हतः केशी तस्मान् मच्छासनं शृणु
केशवो नाम नाम्ना त्वं ख्यातो लोके भविष्यसि ॥
स्वस्त्य् अस्तु भवतो लोके साधयाम्य् अहम् आशुगः
कृत्यशेषं च ते कार्यं शक्तस् त्वम् असि माचिरम् ॥
त्वयि कार्यान्तरगते नरा इव दिवौकसः
विडम्बयन्तः क्रीडन्ति लीलां त्वद्बलम् आश्रिताः ॥
अभ्याशे वर्तते कालो भारतस्याहवोदधेः
हस्तप्राप्तानि युद्धानि राज्ञां त्रिदिवगामिनाम् ॥
पन्थानः शोधिता व्योम्नि विमानारोहिणोर्ध्वगाः
अवकाशा विभज्यन्ते शक्रलोके महीक्षिताम् ॥
उग्रसेनसुते शान्ते पदस्थे त्वयि केशव
अभितस् तन् महद्युद्धं भविष्यति महीक्षिताम् ॥
त्वां चाप्रतिमकर्माणं संश्रयिष्यन्ति पार्थिवाः
भेदकाले नरेन्द्राणां पक्षग्राहो भविष्यसि ॥
त्वयि राजासनस्थे हि राजश्रीं वहति प्रभो
श्रियं त्यक्ष्यन्ति राजानस् त्वत्प्रभावान् न संशयः ॥
एष मे कृष्ण संदेशः श्रुतिभिः ख्यातिम् एष्यसि
देवतानां दिविस्थानां जगतश् च जगत्पते ॥
दृष्टं मे भवतः कर्म दृष्टश् चासि मया प्रभो
कंसे भूयः समेष्यामि शासिते साधयाम्य् अहम् ॥
नारदस्य वचः श्रुत्वा देवसंगीतयोगिनः
तथेति स समाभाष्य पुनर् गोपान् समासदत् ।
गोपान् कृष्णः समासाद्य व्रजम् एव विवेष ह ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0