भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 68

68.1

अथास्तं गच्छति तदा मन्दरश्मौ दिवाकरे
संध्यारक्ततले व्योम्नि शशाङ्के पाण्डुमण्डले ॥

68.2

नीडस्थेषु विहंगेषु सत्सु प्रादुष्कृताग्निषु
ईषत् तमः संवृतासु दिक्षु सर्वासु सर्वतः ॥

68.3

घोषावासेषु सुप्तेषु वाशन्तीषु शिवासु च
नक्तंचरेषु हृष्टेषु पिशिताम् इषकाङ्क्षिषु ॥

68.4

शक्रगोपापाह्वयामोदे प्रदोषे ऽभ्याशतस् करे
संध्यामयीम् इव गुहां संप्रविष्टे दिवाकरे ॥

68.5

अधिश्रयणवेलायां प्राप्तायां गृहमेधिनाम्
वन्यैर् वैखानसैर् मन्त्रैर् हूयमाने हुताशने ॥

68.6

उपावृत्तासु वै गोषु दुह्यमानासु च व्रजे
असकृद् व्याहरन्तीषु बद्धवत्सासु धेनुषु ॥

68.7

प्रकीर्णदामनीकेषु गास् तथैवाह्वयत्सु च
सनिनादेषु गोपेषु काल्यमाने च गोधने ॥

68.8

करीषेषु प्रक्लृप्तेषु दीप्यमानेषु सर्वशः
काष्ठभारानतस्कन्धैर् गोपैर् अभ्यागतैस् तथा ॥

68.9

किंचिद् अभ्युत्थिते सोमे मन्दरश्मौ विराजति
ईषद् विगाहमानायां रजन्यां दिवसे गते ॥

68.10

प्राप्ते दिनव्युपरमे प्रवृत्ते क्षणदामुखे
भास्करे तेजसि गते सौम्ये तेजस्य् उपस्थिते ॥

68.11

अग्निहोत्राकुले काले सौम्येन्दौ प्रत्युपस्थिते
अग्नीषोमात्मके संधौ वर्तमाने जगन्मये ॥

68.12

पश्चिमेनाग्निना दीप्ते पूर्वेणोत्तरवर्चसा
दग्धाद्रिसदृशे व्योम्नि किंचित् तारागणाकुले ॥

68.13

वयोभिर् वासशुभताम् बन्धुभिश् च समागमम्
शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर् व्रजम् ॥

68.14

प्रविशन्न् एव पप्रच्छ सांनिध्यं केशवस्य सः
रौहिणेयस्य चाक्रूरो नन्दगोपस्य चासकृत् ॥

68.15

स नन्दगोपस्य गृहं वासाय वसुदोपमः
अवरुह्य ततो यानात् प्रविवेश महाबलः ॥

68.16

प्रविशन्न् एव च द्वारि ददर्शादोहने गवाम्
वत्समध्ये स्थितं कृष्णं सवत्सम् इव गोवृषम् ॥

68.17

स तं हर्षपरीतेन वचसा गद्गदेन वै
नेत्राभ्यां यादवो विष्णुम् आकुलं समुदैक्षत ॥
अचिन्तयत् तदाक्रूरो लोके मत्सदृशो न हि ।
य एनं लोकनाथं तं सकलं दृष्टवान् अहम् ॥
नारायणम् अणीयांसं स्थूलात् स्थूलतरं हरिम् ॥
को ऽयं मत्सदृशो लोके दृष्टवान् यो ऽहम् ईश्वरम् ।
एहि केशव तातेति प्रव्याहरत धर्मवित् ॥

68.18

उत्तानशायिनं दृष्ट्वा पुनर् दृष्ट्वा श्रिया वृतम्
अव्यक्तयुवनं कृष्णम् अक्रूरः प्रशशंसे ह ॥

68.19

अयं स पुण्डरीकाक्षः सिंहशार्दूलविक्रमः
संपूर्णजलमेघाभः पर्वतप्रवराकृतिः ॥

68.20

मृधेष्व् अधर्षणीयेन सश्रीवत्सेन वक्षसा
द्विषन्निधनदक्षाभ्यां भुजाभ्यां साधु भूषितः ॥

68.21

मूर्तिमान् सरहस्यात्मा जगतो ऽग्र्यस्य भाजनम्
गोपवेषधरो विष्णुर् उदग्राग्रतनूरुहः ॥

68.22

किरीटलाञ्च्छनेनापि शिरसा च्छत्रवर्चसा
कुण्डलोत्तमयोग्याभ्यां श्रवणाभ्यां विभूषितः ॥

68.23

हारार्हेण च पीनेन सुविस्तीर्णेन वक्षसा
द्वाभ्यां भुजाभ्यां दीर्घाभ्यां वृत्ताभ्याम् उपशोभितः ॥

68.24

स्त्रीसहस्रोपचर्येण वपुषा मन्मथाग्निना
पीते वसानो वसने सो ऽयं विष्णुः सनातनः ॥

68.25

धरण्याश्रयभूताभ्यां चरणाभ्याम् अरिंदमः
त्रैलोक्याक्रान्तिभूताभ्यां भुवि पद्भ्याम् अवस्थितः ॥

68.26

रुचिराग्रकरश् चास्य चक्रोचित इवेक्ष्यते
द्वितीय उद्यतश् चैव गदासंयोगम् इच्छति ॥

68.27

अवतीर्णो भवायेह प्रथमं पदम् आत्मनः
शोभते ऽद्य भुवि श्रेष्ठस् त्रिदशानां धुरंधरः ॥

68.28

अयं भविष्ये दृष्टो वै भविष्यकुशलैर् बुधैः
गोपालो यादवं वंशं क्षीणं विस्तारयिष्यति ॥

68.29

तेजसा चास्य यदवः शतशो ऽथ सहस्रशः
वंशम् आपूरयिष्यन्ति ओघा इव महार्णवम् ॥

68.30

अस्येदं शासने सर्वं जगत् स्थास्यति शाश्वतम्
निहतामित्रसामन्तं स्फीतं कृतयुगे यथा ॥

68.31

अयम् आस्थाय वसुधां स्थापयित्वा जगद्वशे
राज्ञां भविष्यत्य् उपरि न च राजा भविष्यति ॥

68.32

नूनं त्रिभिः क्रमैर् जित्वा यथानेन कृतः प्रभुः
पुरा पुरंदरो राजा देवतानां त्रिविष्टपे ॥

68.33

तथैव वसुधां जित्वा जितपूर्वां त्रिभिः क्रमैः
स्थापयिष्यति राजानम् उग्रसेनं न संशयः ॥

68.34

प्रमृष्टवैरगाधो ऽयं प्रश्नैश् च बहुभिः श्रुतः
ब्राह्मणैर् ब्रह्मवादैश् च पुराणो ऽयं हि गीयते ॥

68.35

स्पृहणीयो हि लोकस्य भविष्यति च केशवः
तथा ह्य् अस्योत्थिता बुद्धिर् मानुष्यम् उपसेवितुम् ॥

68.36

अहं त्व् अस्याद्य वसतिं पूजयिष्ये यथाविधि
विष्णुत्वं मनसा चैव पूजयिष्यामि मन्त्रवत् ॥

68.37

यच् च जातिपरिज्ञानं प्रादुर्भावश् च वै नृषु
अमानुषं वेद्मि चैनं ये चान्ये दिव्यचक्षुषः ॥

68.38

सो ऽहं कृष्णेन वै रात्रौ संमन्त्र्य विदितात्मना
सहानेन गमिष्यामि सव्रजो यदि मंस्यते ॥

68.39

एवं बहुविधं कृष्णं दृष्ट्वा हेत्वर्थकारणैः
विवेश नन्दगोपस्य कृष्णेन सह संसदम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc