भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 66

66.1

क्षिप्तं यदुवृषं दृष्ट्वा सर्वे ते यदुपुंगवाः
निपीड्य श्रवणान् हस्तैर् मेनिरे तं गतायुषम् ॥

66.2

अन्धस् त्व् अनाविग्नमना धैर्याद् अविकृतं वचः
प्रोवाच वदतां श्रेष्ठः समासात् कंसम् ओजसा ॥

66.3

अश्लाघ्यो मे मतः पुत्र तवायं वाक्परिश्रमः
अयुक्तो गर्हितः सद्भिर् बान्धवेषु विशेषतः ॥

66.4

अयादवो यदि भवाञ् शृणु तावद् यद् उच्यते
न हि त्वां यादवा वीर बलात् कुर्वन्ति यादवम् ॥

66.5

अश्लाघ्या वृष्णयः पुत्र येषां त्वम् अनुशासिता
इक्ष्वाकुवंशजो राजा विनिवृत्तः स्ववंशकृत् ॥

66.6

भोजो वा यादवो वासि कंसो वासि यथा तथा
सहजं ते शिरस् तात जटी मुण्डो ऽपि वा भव ॥

66.7

उग्रसेनस् त्व् अयं शोच्यो यो ऽस्माकं कुलपांसनः
दुर्जातीयेन येन त्वम् ईदृशो जनितः सुतः ॥

66.8

न चात्मनो गुणांस् तात प्रवदन्ति मनीषिणः
परेणोक्ता गुणा गौण्यं यान्ति वेदार्तसंमिताः ॥

66.9

पृथिव्यां यदुवंशो ऽयं निन्दनीयो महीक्षिताम्
बालः कुलान्तकृन् मूढो येषां त्वम् अनुशासिता ॥

66.10

साधुस् त्वम् एभिर् वाक्यैश् च त्वया साध्व् इति भाषितैः
न वाचा साधितं कार्यम् आत्मा च विवृतः कृतः ॥

66.11

गुरोर् अनवलिप्तस्य मान्यस्य महताम् अपि
क्षेपणं कः शुभं मन्येद् द्विजस्येव वधं कृतम् ॥

66.12

मान्याश् चैवाभिगम्याश् च वृद्धास् तात यथाग्रयः
क्रोधो हि तेषां प्रदहेल् लोकान् अन्तर्गतान् अपि ॥

66.13

बुधेन तात दान्तेन नित्यम् अभ्युच्छ्रितात्मना
धर्मस्य गतिर् अन्वेष्या मत्स्यस्य गतिर् अप्स्व् इव ॥

66.14

केवलं त्वं तु गर्वेण वृद्धान् अग्निसमान् इह
वाचा दुनोषि मर्मघ्न्या अमन्त्रोक्ता यथाहुतिः ॥

66.15

वसुदेवं च पुत्रार्थे यदि त्वं परिगर्हसे
तत्र मिथ्याप्रलापं ते निन्दामि कृपणं वचः ॥

66.16

दारुणे ऽपि पिता पुत्रे नैव दारुणतां व्रजेत्
दारुणो ऽपि पितुः पुत्रः कः पुत्रे दारुणः पिता ।
पुत्रार्थे ह्य् आपदः कष्टाः पितरः प्राप्नुवन्ति हि ॥

66.17

छादितो वसुदेवेन यदि पुत्रः शिशुस् तदा
मन्यसे यद्य् अकर्तव्यं पृच्छस्व पितरं स्वकम् ॥

66.18

गर्हता वसुदेवं च यदुवंशं च निन्दता
त्वया यादवपुत्राणां वैरजं विषम् अर्जितम् ॥

66.19

अकर्तव्यं यदि कृतं वसुदेवेन पुत्रजम्
किमर्थम् उग्रसेनेन शिशुस् त्वं न विनाशितः ॥

66.20

पुन् नाम्नो नरकात् पुत्रो यस्मात् त्राता पितॄन् सदा
तस्माद् ब्रुवन्ति पुत्रेति पुत्रं धर्मविदो जनाः ॥

66.21

जात्या हि यादवः कृष्णः स च संकर्षणो युवा
त्वं चापि विधृतस् ताभ्यां जातवैरेण चेतसा ॥

66.22

उद्धूतानीह सर्वेषां यदूनां हृदयानि वै
वसुदेवे त्वया क्षिप्ते वासुदेवे च कोपिते ॥

66.23

कृष्णे च भवतो द्वेषाद् वसुदेवविगर्हणात्
त्यक्ष्यामहे वयं सर्वे भवन्तं यदि साधवः ।
असन्तो वयम् एवात्र लोके ख्याता नराधम ॥
यदि सक्ताः परित्यक्तुं पुत्र त्वां सांप्रतं वयम् ।
सर्वान् अस्मान् परित्यज्य गच्छसीति न संशयः ।
शंसन्ति हीमानि भयं निमित्तान्य् अशुभानि ते ॥

66.24

सर्पाणां दर्शनं तीव्रं स्वप्नानां च निशाक्षये
पुर्या वैधव्यशंसीनि कारणैर् अनुमीमहे ॥

66.25

एष घोरो ग्रहः स्वातीम् उल्लिखन् खे गभस्तिभिः
वक्रम् अङ्गारकश् चक्रे व्याहरन्ति खरं द्विजाः ॥

66.26

शिवा श्मशानान् निष्क्रम्य निःश्वासाङ्गारवर्षिणी
उभे संध्ये पुरीं घोरा पर्येति बहु वाशती ॥

66.27

उल्का निर्घातनादेन पपात धरणीतले
चलत्य् अपर्वणि मही गिरीणां शिखराणि च ॥

66.28

प्राक्संध्या परिघग्रस् ता भाभिर् बध्नाति भास्करम्
प्रतिलोमं च यान्त्य् एते व्याहरन्तो मृगद्विजाः ॥

66.29

ग्रस्तः स्वर्भानुना सूर्यो दिवा नक्तम् अजायत
धूमोत्पातैर् दिशो व्याप्ताः शुष्काशनिसमाहताः ॥

66.30

प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः
चलिता देवताः स्थानात् त्यजन्ति विहगा नगान् ॥

66.31

यानि राजविनाशाय दैवज्ञाः कथयन्ति हि
तानि सर्वाणि पश्यामो निमित्तान्य् अशुभानि वै ॥

66.32

त्वं चापि स्वजनद्वेषी राजधर्मपराङ्मुखः
अनिमित्तागतक्रोधः संनिकृष्टभयो ह्य् असि ॥

66.33

यस् त्वं देवोपमं वृद्धं वसुदेवम् धृतव्रतम्
मोहात् क्षिपसि दुर्बुद्धे कुतस् ते शान्तिर् आत्मनः ॥

66.34

त्वद्गतो यो हि नः स्नेहस् तं त्यजामो ऽद्य वै वयम्
अहितं स्वस्य वंशस्य न त्वां वयम् उपास्महे ॥

66.35

स हि दानपतिर् धन्यो यो द्रक्ष्यति वनेगतम्
पुण्डरीकपलाशाक्षं कृष्णम् अक्लिष्टकारिणम् ॥

66.36

छिन्नमूलो ह्य् अयं वंशो यदूनां त्वत्कृते कृतः
कृष्णो ज्ञातीन् समानाय्य स संधानं करिष्यति ॥

66.37

क्षान्तम् एव तदानेन वसुदेवेन धीमता
कालसंपक्वविज्ञानो ब्रूहि त्वं यद् यद् इच्छसि ॥

66.38

मह्यं तु रोचते कंस वसुदेवसहायवान्
गच्छ कृष्णस्य निलयं प्रीतिस् ते तेन रोचताम् ॥

66.39

अन्धकस्य वचः श्रुत्वा कंसः संरक्तलोचनः
किंचिद् अप्य् अब्रुवन् क्रोधाद् विवेश स्वं निवेशनम् ॥

66.40

ते च सर्वे यथावेश्म यादवाः श्रुतविस्तराः
जग्मुर् विगतसंकल्पाः कंसवैकृतशंसिनः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc