भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 65

65.1

कृष्णं व्रजगतं श्रुत्वा वर्धमानम् इवानलम्
उद्वेगम् अगमत् कंसः शङ्कमानस् ततो भयम् ॥

65.2

पूतनायां हतायां च कालिये च पराजिते
धेनुके प्रलयं नीते प्रलम्बे च निपातिते ॥

65.3

धृते गोवर्धने चैव विफले शक्रशासने
गोषु त्रातासु च तथा स्पृहणीयेन कर्मणा ॥

65.4

ककुद्मिनि हते ऽरिष्टे गोपेषु मुदितेषु च
दृश्यमाने विनाशे च संनिकृष्टे महाभये ॥

65.5

कर्षणेन च वृक्षाभ्यां बालेनाबालकर्मणा
अचिन्त्यं कर्म तच् छ्रुत्वा वर्धमानेषु शत्रुषु ॥

65.6

प्राप्तारिष्टम् इवात्मानं मेने स मथुरेश्वरः
विसंज्ञेन्द्रियभूतात्मा गतासुप्रतिमो ऽभवत् ॥

65.7

ततो ज्ञातीन् समानाय्य पितरं चोग्रशासनः
निशि स्तिमितमूकायाम् मथुरायां जनाधिपः ॥

65.8

वसुदेवं च देवाभं कह्वं चाहूय यादवम्
सत्यकं दारुकं चैव कह्वावरजम् एव च ॥

65.9

भोजं वैतरणं चैव विकद्रुं च महाबलम्
भयेसखं च राजानं विपृथुं च पृथुश्रियम् ॥

65.10

बभ्रुं दानपतिं चैव कृतवर्माणम् एव च
भूरितेजसम् अक्षोभ्यं भूरिश्रवसम् एव च ॥

65.11

एतान् स यादवान् सर्वान् आभाष्य शृणुतेति च
उग्रसेनसुतो राजा प्रोवाच मथुरेश्वरः ॥

65.12

भवन्तः सर्वकार्यज्ञाः सर्वशास्त्रविशारदाः
न्यायवृत्तान्तकुशलास् त्रिवर्गस्य प्रवर्तकाः ॥

65.13

कर्तव्यानां च कर्तारो लोकस्य विबुधोपमाः
पर्वता इव निष्कम्पा वृत्ते महति तस्थुषः ॥

65.14

अदम्भवृत्तयः सर्वे गुरुकर्मसु चोद्यताः
राजमन्त्रधराः सर्वे सर्वे धनुषि पारगाः ॥

65.15

यशःप्रदीपा लोकानां वेदार्थानां विवक्षवः
आश्रमाणां निसर्गज्ञा वर्णानां क्रमपारगाः ॥

65.16

प्रवक्तारः सुनियता नेतारो नयदर्शिनः
भेत्तारः परराष्ट्राणां त्रातारः शरणार्थिनाम् ॥

65.17

एवम् अक्षतचारित्रैः श्रीमद्भिर् उदितोदितैः
द्यौर् अपि अनुगृहीता स्याद् भवद्भिः किं पुनर् मही ॥

65.18

ऋषीणाम् इव वो वृत्तं प्रभावो मरुताम् इव
रुद्राणाम् इव वः क्रोधो दीप्तिर् अङ्गिरसाम् इव ॥

65.19

व्यावर्तमानं सुमहद् भवद्भिः ख्यातकीर्तिभिः
धृतं यदुकुलं वीरैर् भूतलं पर्वतैर् इव ॥

65.20

एवं भवत्सु युक्तेषु मम चित्तानुवर्तिषु
वर्धमानो ममानर्थो भवद्भिः किम् उपेक्षितः ॥

65.21

एष कृष्ण इति ख्यातो नन्दगोपसुतो व्रजे
वर्धमान इवाम्भोदो मूलं नः परिकृन्तति ॥

65.22

अनमात्यस्य शून्यस्य चारान्धस्य ममैव तु
कारणान् नन्दगोपस्य स सुतो गोपितो गृहे ॥

65.23

उपेक्षित इव व्याधिः पूर्यमाण इवाम्बुदः
नदन्मेघ इवोष्णान्ते स दुरात्मा विवर्धते ॥

65.24

तस्य नाहं गतिं जाने न योगं न परायणम्
नन्दगोपस्य भवने जातस्याद्भुतकर्मणः ॥

65.25

किं तद्भूतं समुत्पन्नं देवापत्यं न विद्महे
अतिदेवैर् अमानुष्यैः कर्मभिः सो ऽनुमीयते ॥

65.26

पूतना शकुनी बाल्ये शिशुना स्तनपायिना
स्तनपानेप्सुना पीता प्राणैः सह दुरासदा ॥

65.27

यमुनायां ह्रदे नागः कालियो दमितस् तथा
रसातलचरो नीतः क्षणेनादर्शनं ह्रदात्
नन्दगोपसुतो योगं कृत्वा च पुनर् उत्थितः ॥

65.29

धेनुकस् तालशिखरात् पातितो जीवितं विना
तस्याग्रजो महावीर्यो बलभद्रो दुरात्मवान् ।
प्रलम्बं यं मृधे देवा न शेकुर् अभिवीक्षितुम्
बालेन मुष्टिनैकेन स हतः प्राकृतो यथा ॥

65.30

वासवस्योत्सवं भङ्क्त्वा वर्षं वासवरोषजम्
निर्जलं गोकुलं कृत्वा धृतो गोवर्धनो गिरिः ॥

65.31

हतस् त्व् अरिष्टो बलवान् विशृङ्गश् च कृतो व्रजे
केन वा नररूपेण शक्यो गोवर्धनो गिरिः ।
उद्धर्तुं गोव्रजे सत्यं न जाने ऽप्य् अद्भुतं ततः ॥
इदम् अत्यद्भुतं सर्वं वर्षं वासवनिर्मितम् ।
निवारितं सप्तदिनं किम् अतः परम् अद्भुतम् ।
अबालो बाल्यम् आस्थाय रमते बाललीलया ॥

65.32

प्रबन्धः कर्मणाम् एष तस्य गोव्रजवासिनः
संनिकृष्टं भयं चैव केशिनो मम च ध्रुवम् ॥

65.33

भूतपूर्वश् च मे मृत्युः स नूनं पूर्वदैहिकः
युद्धकाङ्क्षी हि स यथा तिष्ठतीव ममाग्रतः ॥

65.34

क्व च गोपत्वम् अशुभं मानुष्यं मृत्युदुर्बलम्
क्व च देवप्रभावेन क्रीडितव्यं व्रजे मम ॥

65.35

अहो नीचेन वपुषा च्छादयित्वात्मनो वपुः
को ऽप्य् एष रमते देवः श्मशानस्थ इवानलः ॥

65.36

श्रूयते हि पुरा विष्णुः सुराणां कारणान्तरे
वामनेन तु रूपेण जहार पृथिवीम् इमाम् ॥

65.37

कृत्वा केसरिणो रूपं विष्णुना प्रभविष्णुना
हतो हिरण्यकशिपुर् दानवानां पितामहः ॥

65.38

अचिन्त्यं रूपम् आस्थाय श्वेतशैलस्य मूर्धनि
भवेन च्याविता दैत्याः पुरा तत् त्रिपुरं घ्नता ॥

65.39

पालितो गुरुपुत्रेण भार्गवो ऽङ्गिरसेन वै
प्रविश्य चासुरीं मायाम् अनावृष्टिं चकार ह ॥

65.40

अनन्तः शाश्वतो देवः सहस्रवदनो ऽव्ययः
वाराहं रूपम् आस्थाय उज्जहारार्णवान् महीम् ॥

65.41

अमृते निर्मिते पूर्वं विष्णुः स्त्रीरूपम् आस्थितः
सुराणाम् असुराणां च युद्धं चक्रे सुदारुणम् ॥

65.42

अमृतार्थे पुरा चापि देवदैत्यसमागमे
दधार मन्दरं विष्णुर् अकूपार इति श्रुतिः ॥

65.43

चतुर्धा तेजसो भागं कृत्वा दाशरथे गृहे
स एव रामसंज्ञो वै रावणं व्यशसत् तदा ॥

65.44

एवम् एष निकृत्या वै तत्तद्रूपम् उपागतः
साधयत्य् आत्मनः कार्यं सुराणाम् अर्थसिद्धये ॥

65.45

तद् एष नूनं विष्णुर् वा शक्रो वा मरुतां वरः
मत्साधनेप्सया प्राप्तो नारदो मां यद् उक्तवान् ॥

65.46

अत्र मे शङ्कते बुद्धिर् वसुदेवं प्रति प्रभो
अस्य बुद्धिविशेषेण वयं कातरतां गताः ॥

65.47

अहं हि खट्वाङ्गवने नारदेन समागतः
द्वितीयं स हि मां विप्रः पुनर् एवाब्रवीद् वचः ॥

65.48

यत् त्वयानुष्ठितो यत्नः कंस गर्भकृते महान्
वसुदेवेन ते रात्रौ कर्म तद् विफलीकृतम् ॥

65.49

दारिका या त्वया रात्रौ शिलायां कंस पातिता
तां यशोदासुतां विद्धि कृष्णं च वसुदेवजम् ॥

65.50

रात्रौ व्यावर्तिताव् एतौ गर्भौ तव वधाय वै
वसुदेवेन संधाय मित्ररूपेण शत्रुणा ॥

65.51

सा तु कन्या यशोदाया विन्ध्ये पर्वतसत्तमे
हत्वा शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ ॥

65.52

कृताभिषेका वरदा भूतसंघनिषेविता
अर्च्यते दस्युभिर् घोरैर् महापशुबलिप्रिया ॥

65.53

सुरापिशितपूर्णाभ्यां कुम्भाभ्याम् उपशोभिता
मयूराङ्गदचित्रैश् च बर्हभारैश् च भूषिता ॥

65.54

दृप्तकुकुटसंनादं वनं वायसनादितम्
छागयूथैश् च संपूर्णम् अविरुद्धैश् च पक्षिभिः ॥

65.55

सिंहव्याघ्रवराहाणां नादेन प्रतिनादितम्
वृक्षगम्भीरनिबिडं कान्तारैः सर्वतो वृतम् ॥

65.56

दिव्यभृङ्गारचमरैर् आदर्शैश् च विभूषितम्
देवतूर्यनिनादैश् च शतशः प्रतिनादितम्
स्थानं तस्या नगे विन्ध्ये निर्मितं स्वेन तेजसा ॥

65.57

रिपूणां त्रासजननी नित्यं तत्र मनोरमे
वसते परमप्रीता दैवतैर् अपि पूजिता ॥

65.58

यस् त्व् अयं नन्दगोपस्य कृष्ण इत्य् उच्यते सुतः
अत्र मे नारदः प्राह सुमहत् कर्म कारणम् ॥

65.59

द्वितीयो वसुदेवाद् वै वासुदेवो भविष्यति
स हि ते सहजो मृत्युर् बान्धवश् च भविष्यति ॥

65.60

स एव वासुदेवो वै वसुदेवसुतो बली
बान्धवो धर्मतो मह्यं हृदयेनान्तको रिपुः ॥

65.61

यथा हि वायसो मूर्ध्नि पद्भ्यां यस्यैव तिष्ठति
नेत्रे तुदति तस्यैव वक्त्रेणामिषगृद्धिना ॥

65.62

वसुदेवस् तथैवायं सपुत्रः सहबान्धवः
च्छिनत्ति मम मूलानि भुङ्क्ते च मम पार्श्वतः ॥

65.63

भ्रूणहत्यापि संतार्या गोवधः स्त्रीवधो ऽपि वा
न कृतघ्नस्य लोको ऽस्ति बान्धवस्य विशेषतः ॥

65.64

पतितानुगतं मार्गं निषेवत्य् अचिरेण सः
यः कृतघ्नो ऽनुबन्धेन प्रीतिं वहति दारुणाम् ॥

65.65

नरकाध्युषितः पन्था गन्तव्यस् तेन दारुणः
अपापे पापहृदयो यः पापम् अनुतिष्ठति ॥

65.66

अहं वा स्वजनः श्लाघ्यः स वा श्लाघ्यतरः सुतः
नियमैर् गुरुवृत्तेन त्वया बान्धवकाम्यया ॥

65.67

हस्तिनां कलहे घोरे वधम् ऋच्छन्ति वीरुधः
युद्धव्युपरमे ते तु सहाश्नन्ति महावने ॥

65.68

बान्धवानाम् अपि तथा भेदकाले समुत्थिते
वध्यते यो ऽन्तरप्रेप्सुः स्वजनो याति विक्रियाम् ॥

65.69

कलिस् त्वं हि विनाशाय मया पुष्टो विजानता
गच्छ गच्छ यथाकामं वसुदेव नराधम ॥
तद् दत्तं कृपणं पिण्डं यद् दत्तं तव जानता ।
तच् छ्वभ्यो यदि दत्तं स्याच् छ्रेयो मम भविष्यति ।
वसुदेव कुलस्यास्य यद् विरोधयसे भृशम्
अमर्षी वैरशीलश् च सदा पापमतिः शठः ॥

65.70

स्थाने यदुकुलं मूढ शोचनीयं त्वया कृतम्
वसुदेव वृथावृद्ध यन् मया त्वं पुरस्कृतः ॥

65.71

श्वेतेन शिरसा वृद्धो नैव वर्षशती भवेत्
यस्य बुद्धिः परिणता स वै वृद्धतमो नृणाम् ॥

65.72

त्वं तु कर्कशशीलश् च बुद्ध्या च न बहुश्रुतः
केवलं वयसा वृद्धो यथा शरदि तोयदः ॥

65.73

किं च त्वं साधु जानीषे वसुदेव वृथामते
हते कंसे मम सुतो मथुरां पालयिष्यति ॥

65.74

छिन्नाशस् त्वं वृथावृद्ध मिथ्या ह्य् एवं विचारितम्
जिजीविषुर् न स ह्य् अस्ति यो हि तिष्ठेन् ममाग्रतः ॥

65.75

प्रहर्तुकामो विश्वस्ते यस् त्वं स्वस्थेन चेतसा
तत् ते प्रतिकरिष्यामि पुत्रयोस् तव पश्यतः ॥

65.76

न मे वृद्धवधः कश्चिद् द्विजस्त्रीवध एव वा
कृतपूर्वः करिष्ये वा विशेषेण तु बान्धवे ॥

65.77

इह त्वं जातसंवृद्धो मम पित्रा विवर्धितः
पितृष्वसुर् मे भर्ता च यदूनां प्रथमो गुरुः ॥

65.78

कुले महति विख्यातः प्रथिते चक्रवर्तिनाम्
गुर्वर्थं पूजितः सद्भिर् यदुभिर् धर्मबुद्धिभिः ॥

65.79

किं करिष्यामहे सर्वे सत्सु वक्तव्यतां गताः
यदूनां यूथमुख्यस्य यस्य ते वृत्तम् ईदृशम् ॥

65.80

मद्वधो वा जयो वाथ वसुदेवस्य दुर्णयैः
सत्सु यास्यन्ति पुरुषा यदूनाम् अवगुण्ठिताः ॥

65.81

त्वया हि मद्वधोपायं तर्कयानेन वै मृधे
अविश्वास्यं कृतं कर्म वाच्याश् च यदवः कृताः ॥

65.82

अशाम्यं वैरम् उत्पन्नं मम कृष्णस्य चोभयोः
शान्तिम् एकतरे शान्तिं गते यास्यन्ति यादवाः ॥

65.83

गच्छत्व् अयं दानपतिः क्षिप्रम् आनयितुं व्रजात्
नन्दगोपं च गोपांश् च करदान् मम शासनात् ॥

65.84

वाच्यश् च नन्दगोपो वै करम् आदाय वार्षिकम्
शीघ्रम् आगच्छ नगरं गोपैः सर्वैः समन्वितः ॥

65.85

कृष्णसंकर्षणौ चैव वसुदेवसुताव् उभौ
द्रष्टुम् इच्छति वै कंसः सभृत्यः सपुरोहितः ॥

65.86

एतौ युद्धविदौ रङ्गे कालनिर्माणयोधिनौ
दृढप्रतिकृती चैव शृणोमि व्यायतोद्यमौ ॥

65.87

अस्माकम् अपि मल्लौ द्वौ सज्जौ जयधृतोत्सवौ
ताभ्यां सह नियोत्स्येते तौ युद्धकुशलाव् उभौ ॥

65.88

द्रष्टव्यौ च मयावश्यं बालौ ताव् अमरोपमौ
पितृष्वसुः सुतौ मुख्यौ व्रजवासौ वनेचरौ ॥

65.89

वक्तव्यं च व्रजे तस्मिन् समीपे व्रजवासिनाम्
राजा धनुर्महं नाम कारयिष्यति वै सुखी ॥

65.90

संनिकृष्टे व्रजास् तत्र निवसन्तु यथासुखम्
जनस्यामन्त्रितस्यार्थे यथा स्यात् सर्वम् अव्ययम् ॥

65.91

पयसः सर्पिषश् चैव दध्नो दध्युत्तर्स्य च
यथाकामप्रदानाय भोज्याधिश्रयणाय च ॥

65.92

अक्रूर गच्छ शीघ्रं त्वं ताव् आनय ममाज्ञया
संकर्षणं च कृष्णं च द्रष्टुं कौतूहलं हि मे ॥

65.93

ताभ्याम् आगमने प्रीतिः परा मम कृता भवेत्
दृष्ट्वा तु तौ महावीर्यौ तद् विधास्यामि यद् धितम् ॥

65.94

स्यान् नाम वाक्यं श्रुत्वैवं मम तौ परिभाषितम्
न गच्छेतां यथाकालं निग्राह्याव् अपि तौ मम ॥

65.95

सान्त्वम् एव तु बालेषु प्रधानं प्रथमो नयः
मधुरेणैव तौ मन्दौ स्वयम् एवानयाशु वै ॥

65.96

अक्रूर कुरु मे प्रीतिम् एतां परमदुर्लभाम्
यदि वा नोपजप्तो ऽसि वसुदेवेन सुव्रत ॥

65.97

एवम् आक्रुष्यमानस् तु वसुदेवो वसूपमः
सागराकारम् आत्मानं निष्प्रकम्पम् अधारयत् ॥

65.98

वाक्शल्यैस् ताड्यमानस् तु कंसेनादीर्घदर्शिना
क्षमां मनसि संध्याय नोत्तरं प्रत्यभाषत ॥

65.99

ये तु तं ददृशुस् तत्र क्षिप्यमाणम् अनेकशः
धिग् धिग् इत्य् असकृत् ते वै शनैर् ऊचुर् अवाङ्मुखाः ॥

65.100

अक्रूरस् तु महातेजा जानन् दिव्येन चक्षुषा
जलम् दृष्ट्वेव तृषितः प्रेषितः प्रीतिमान् अभूत् ॥

65.101

तस्मिन्न् एव मुहूर्ते तु मथुरायाः स निर्ययौ
प्रीतिमान् पुण्डरीकाक्षं द्रष्टुं दानपतिः स्वयम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc