भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 62

62.1

धृतं गोवर्धनं दृष्ट्वा परित्रातं च गोकुलम्
कृष्णस्य दर्शनं शक्रो रोचयामास विस्मितः ॥

62.2

स निर्जलाम्बुदाकारं मत्तं मदजलोक्षितम्
आरुह्यैरावतं नागम् अजगाम महीतलम् ॥

62.3

स ददर्शोपविष्टं वै गोवर्धनशिलातले
कृष्णम् अक्लिष्टकर्माणं पुरुहूतः पुरंदरः ॥

62.4

तं दृश्य बालं महता तेजसा दीप्तम् अव्ययम्
गोपविषधरं विष्णुं परिजज्ञे पुरंदरः ॥

62.5

तालस्तम्भवनश्यामं स तं श्रीवत्सलक्षणम्
पर्याप्तनयनः शक्रः सर्वैर् नेत्रैर् उदैक्षत ॥

62.6

दृष्ट्वा चैनं श्रिया जुष्टं मर्त्यलोके ऽमरोपमम्
सुराणां कार्यसिद्ध्यर्थं नित्यं कर्मसु निष्ठितम् ।
सूपविष्टं शिलापृष्टे शक्रः स व्रीडितो ऽभवत् ॥

62.7

तस्योपविष्टस्य सुखम् पक्षाभ्यां पक्षिपुंगवः
अन्तर्धानगतश् छायाम् चकारोरगभोजनः ॥

62.8

तं विविक्ते नगगतं लोकवृत्तान्ततत्परम्
उपतस्थे गजं हित्वा कृष्णं बलनिषूदनः ॥

62.9

स समीपगतस् तस्य दिव्यस्रगनुलेपनः
रराज देवराजो वै वज्रपूर्णकरः प्रभुः ॥

62.10

किरीतेणार्कवर्णेन विद्युद्विद्योतकारिणा
कुण्डलाभ्यां स दिव्याभ्यां सततं शोभिताननः ।
पञ्चस्तबकलम्बेन देवभूषणभूषितः ॥
सहस्रपत्रकान्तेन देहभूषणकारिणा ।
ईक्षमाणः सहस्रेण नेत्राणां कामरूपिणाम् ।
त्रिदशाज्ञापनार्थेन मेघनिर्घोषकारिणा ।
प्रणाम अकरोच् छक्रः क्षन्तव्यम् इति चाब्रवीत् ।
तुष्टाव च हरिं विष्णुं गोपवेषविभूषितम् ॥
नमस् ते देवदेवेश भूतभावनभावन ।
हिरण्यरेतसे तुभ्यं नमः सोमप्रदायिने ॥
नमो वेदैकतत्त्वार्थ तन्निबोधन बोधन ।
नमः प्रणववाच्याय वाचकाय नमो नमः ॥
नमस् ते विश्वरूपाय नमो लोकहिताय ते ।
नमो गोपविरूपाय नमो गोधरधारिणे ॥
नमः पुराणरूपाय नमस् ते मधुसूदन ॥
किं वानेन जगन्नाथ नमस्कारेण केशव ।
या यास् तु देवदेवस्य मूर्तयो मूर्तिमत्तर ।
नमस् ताभ्यस् तथा विष्णो सर्वाभ्यः सर्वकामद ॥
क्षन्तव्यं मम देवेश कृतं गोपालनन्दन ।
अज्ञानाद् एथ वा ज्ञानाद् रोषाद् वा यदुनन्दन ॥
समर्थेष्व् असमर्थेषु रोषः प्रस्फुरति प्रभो ।
न केनचिद् भवाञ् शास्यः शास्ता सर्वस्य वै प्रभो ॥
त्वन्निमित्तम् इदं सर्वम् ऐन्द्रं मम सुदुर्लभम् ।
त्वत्प्रसादज् जगन्नाथ देवानाम् ईश्वरो यतः ॥
ततश् च देवदेवेश क्षन्तव्यं दास इत्य् अहम् ।
इत्य् उक्त्वाथ पुनर् वाक्यं व्याजहार शचीपतिः ॥
कृष्णं कमलपत्राक्षम् अबालं बालरूपिणम् ।
अतसीपुष्पसंकाशं श्रीवत्सकृतलक्षणम् ।
उपविष्टं शिलापृष्ठे कृत्वा कर्मातिमानुषम् ॥
न हि दासेषु कोपो ऽस्ति स्वामिनां स्वामिसत्तम ।
अथ दिव्येन मधुरम् व्याजहार स्वरेण तम् ॥

62.11

कृष्ण कृष्ण महाबाहो ज्ञातीनां नन्दिवर्धन
अतिदैवं कृतं कर्म त्वया प्रीतिमता गवाम् ॥

62.12

मया सृष्टेषु मेघेषु युगान्तावर्तकारिषु
यत् त्वया रक्षिता गावस् तेनास्मि परितोषितः ॥

62.13

स्वायंभुवेन योगेन यच् चायं पर्वतोत्तमः
धृतो वेश्म इवाकाशे को ह्य् एतेन न विस्मयेत् ॥

62.14

प्रतिषिद्धे मम महे मयेयं रुषितेन वै
अतिवृष्टिः कृता कृष्ण गवां वै सप्तरात्रिकी ॥

62.15

सा त्वया प्रतिषिद्धेयं मेघवृष्टिर् दुरासदा
देवैः सदानवगणैर् दुर्निवार्या मयि स्थिते ॥

62.16

अहो मे सुप्रियं कृष्ण यत् त्वं मानुषदेहवान्
समग्रं वैष्णवं तेजो विनिगूहसि रोषितः ॥

62.17

साधितं देवतानां हि मन्ये ऽहं कार्यम् अव्ययम्
त्वयि मानुष्यम् आपन्ने युक्तेनैवं स्वतेजसा ॥

62.18

सेत्स्यते वीर कार्यार्थो न किंचित् परिहास्यते
देवानाम् यद् भवान् नेता सर्वकार्यपुरोगमः ॥

62.19

एकस् त्वम् असि लोकानां देवानां च सनातनः
द्वितीयं नानुपश्यामि धुरं यस् ते समुद्वहेत् ॥

62.20

यथा हि पुंगवः श्रेष्ठो मग्ने धुरि नियुज्यते
एवं त्वम् असि देवानां मग्नानां द्विजवाहन ॥

62.21

त्वच्छरीरगतं कृष्ण जगत्प्रहरणं त्व् इदम्
ब्रह्मणा साधु निर्दिष्टं धातुभ्य इव काञ्चनम् ॥

62.22

स्वयं स्वयंभूर् भगवान् बुद्ध्याथ वयसापि वा
न त्वानुगन्तुं शक्तो वै पङ्गुर् द्रुतगतिं यथा ॥

62.23

स्ताणुभ्यो हिमवाञ् श्रेष्ठो ह्रदानां वरुणालयः
गरुत्मान् पक्षिणां श्रेष्ठो देवतानां भवान् वरः ॥

62.24

अपाम् अधस्ताल् लोको वै तस्योपरि महीधराः
नागानाम् उपरिष्टाद् भूः पृथिव्युपरि मानुषाः ॥

62.25

मनुष्यलोकाद् ऊर्ध्वं तु खगानां गतिर् उच्यते
आकाशस्योपरि रविर् द्वारं स्वर्गस्य भानुमान् ॥

62.26

देवलोकः परस् तस्माद् विमानगहनो महान्
यत्राहं कृष्ण देवानाम् ऐन्द्रे विनिहितः पदे ॥

62.27

स्वर्गाद् ऊर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः
तत्र सोमगतिश् चैव ज्योतिषां च महात्मनाम् ॥

62.28

तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि
स हि सर्वगतः कृष्ण महाकाशगतो महान् ॥

62.29

उपर्युपरि तत्रापि गतिस् तव तपोमयी
यां न विद्मो वयं सर्वे पृच्छन्तो ऽपि पितामहम् ॥

62.30

लोकस् त्व् अर्वाग् दुष्कृतिनां नागलोकस् तु दारुणः
पृथिवी कर्मशीलानां क्षेत्रं सर्वस्य कर्मणः ॥

62.31

खम् अस्थिराणां विषयो वायुना तुल्यवृत्तिनाम्
गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम् ॥

62.32

ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः
गवाम् एव हि गोलोको दुरारोहा हि सा गतिः ॥

62.33

स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना
धृतो धृतिमता वीर निघ्नतोपद्रवं गवाम् ॥

62.34

तद् अहं समनुप्राप्तो गवां वाक्येन चोदितः
ब्रह्मनश् च महाभाग गौरवात् तव चागतः ॥

62.35

अहं भूतपतिः कृष्ण देवराजः पुरंदरः
अदितेर् गर्भपर्याये पूर्वजस् ते पुरातनः ॥

62.36

तेजस् तेजस्विनश् चैव यत् ते दर्शितवान् अहम्
मेघरूपेण तत् सर्वं क्षन्तुम् अर्हसि मे विभो ॥

62.37

एवं क्षान्तमनाः कृष्ण स्वेन सौम्येन तेजसा
ब्रह्मणः शृणु मे वाक्यं गवां च गजविक्रम ॥

62.38

आह त्वा भगवान् ब्रह्मा गावश् चाकाशगा दिवि
कर्मभिस् तोषिता दिव्यैस् तव संरक्षणादिभिः ॥

62.39

भवता रक्षिता गावो गोभिर् लोकाश् च रक्षिताः
यद् वयं पुंगवैः सार्धं वर्धामः प्रसवैस् तथा ॥

62.40

कर्षकान् पुंगवैर् वाह्यैर् मेध्येन हविषा सुरान्
श्रियं शकृत्पवित्रेण तर्पयिष्याम कामगाः ॥

62.41

तद् अस्माकं गुरुस् त्वं हि प्राणदश् च महाबल
अद्यप्रभृति नो राजा त्वम् इन्द्रो वै भविष्यसि ॥

62.42

तस्मात् त्वं काञ्चनैः पूर्णैर् दिव्यस्य पयसो घटैः
एभिस् त्वम् अभिषिच्यस्व मया हस्तावनामितैः ॥

62.43

अहं किलेन्द्रो देवानां त्वं गवाम् इन्द्रतां गतः
गोविन्द इति लोकास् त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥

62.44

ममोपरि यथेन्द्रस् त्वम् स्थापितो गोभिर् ईश्वरः
उपेन्द्र इति कृष्ण त्वाम् गास्यन्ति दिवि देवताः ॥

62.45

ये चेमे वार्षिका मासाश् चत्वारो विहिता मम
एषाम् अर्धं प्रयच्छामि शरत्कालं तु पश्चिमम् ॥

62.46

वर्षार्धे च ध्वजो नित्यं ततः पूजाम् अवाप्स्यति
ममाम्बुप्रभवं दर्पं तदा त्यक्ष्यन्ति बर्हिनः ॥

62.47

अल्पवीर्यमदाश् चैव ये चान्ये मेघनादिनः
शान्तिं सर्वे गमिष्यन्ति जलकालविचारिणः ॥

62.48

त्रिशङ्क्वगस्त्यचरिताम् आशां च विचरिष्यति
सहस्ररश्मिर् आदित्यस् तापयन् स्वेन तेजसा ॥

62.49

ततः शरदि युक्तानां मौनमूकेषु बर्हिषु
यावत् सुखतरैस् तोयैर् विप्लुतेषु प्लुतेषु च ॥

62.50

मत्तक्रौञ्चप्रणादेषु मत्तेषु वृषभेषु च
गोषु चैव प्रहृष्टासु क्षरन्तीषु पयो बहु ॥

62.51

निवृत्तेषु च मेघेषु निर्यात्य जगतो जलम्
आकाशे शस्त्रसंकाशे हंसेषु विचरत्सु च ॥

62.52

जातपद्मेषु तोयेषु वापीषु च सरित्सु च
तडागेषु च कान्तेषु तोयेषु विमलेषु च ।
कलमावनताग्रासु पक्वकेदारपङ्क्तिषु ॥

62.53

मध्यस्थं सलिलारम्भं कुर्वन्तीषु नदीषु च
ससस्यायां च सीमायां मनोहर्यां मुनेर् अपि ॥

62.54

पृथिव्यां पृथुराष्ट्रायां रमायां वर्षसंक्षये
श्रामत्सु पङ्क्तिमार्गेषु फलवत्सु तृणेषु च
इक्षुमत्सु च देशेषु प्रवृत्तेषु मखेषु च ॥

62.55

ततः प्रवर्त्स्यते पुण्या शरत्सुप्तोत्थिते त्वयि
लोके ऽस्मिन् कृष्ण निखिले यथैव त्रिदिवे तथा ॥

62.56

नरास् त्वां चैव मां चैव ध्वजाकारासु यष्टिषु
महेन्द्रश् चाप्य् उपेन्द्रश् च महीयेतां महीतले ॥

62.57

ये चावयोः स्थिता वृत्ते महेन्द्रोपेन्द्रसंज्ञिते
मानवाः प्रणमिष्यन्ति तेषां नास्त्य् अनयागमः ॥

62.58

ततः शक्रस् तु तान् गृह्य घटान् दिव्यपयोधरान्
अभिषेकेण गोविन्दं योजयामास योगवित् ॥

62.59

दृष्ट्वा तम् अभिषिच्यन्तं गावस् ताः सह यूथपैः
स्तनैः प्रस्नवसंयुक्तैः सिषिचुः कृष्णम् अव्ययम् ॥

62.60

मेघाश् च दिवि मुक्ताभिः सामृताभिः समन्ततः
सिषिचुस् तोयधाराभिर् अभिषिच्यन्तम् अव्ययम् ॥

62.61

वनस्पतीनां सर्वेषां सुस्रावेन्दुनिभं पयः
ववर्षुः पुष्पवर्षं च नेदुस् तूर्याणि चाम्बरे ॥

62.62

स्तुवन्ति मुनयः सर्वे वाग्भिर् मन्त्रपरायणाः
वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः ।
विश्वामित्रो भरद्वाजः कण्वो ऽत्रिर् भगवान् प्रभुः ।
एते च मुनयः सर्वे सिद्धाश् च परमर्षयः ।
एकार्णवविमुक्तं च दधार वसुधा वपुः ॥

62.63

प्रसादं सागरा जग्मुर् ववुर् वाता जगद्धिताः
ईतयः प्रशमं जग्मुर् जग्मुर् निर्वैरतां नृपाः ॥

62.64

मार्गस्थो विबभौ भानुः सोमो योगेन संगतः
प्रवालपुष्पशबलाः फलवन्तश् च पादपाः ॥

62.65

मदं प्रसुस्रुवुर् नागा यातास् तोषं वने मृगाः
अलंकृता गात्ररुहैर् वातुभिर् भान्ति पर्वताः ॥

62.66

देवलोकोपमो लोकस् तृप्तो ऽमृतसुतर्पितः
आसीत् कृष्णाभिषेके हि दिव्यस्वर्गरसोक्षितः ॥

62.67

अभिषिक्तं तु तं गोभिः शक्रो गोविन्दम् अव्ययम्
दिव्यशुक्लाम्बरधरम् देवराजो ऽब्रवीद् इदम् ॥

62.68

एष मे प्रथमः कृष्ण नियोगो गोषु यः कृतः
श्रूयतामपरं चापि ममागमनकारणम् ॥

62.69

क्षिप्रं संसाध्यतां कंसः केशी च तुरगाधमः
अरिष्टश् च मदाविष्टो राजराज्यं ततः कुरु ॥

62.70

पितृष्वसरि जातस् ते ममांशो ऽहम् इव स्थितः
स ते रक्ष्यश् च मान्यश् च सख्ये च विनियुज्यताम् ॥

62.71

त्वया ह्य् अनुगृहीतः स तव वृत्तानुवर्तकः
त्वद्वशे वर्तमानः स प्राप्स्यते विपुलं यशः ॥

62.72

भारतस्य च वंशस्य स वरिष्ठो धनुर्धरः
भविष्यत्य् अनुरूपश् च त्वाम् ऋते न च रंस्यते ॥

62.73

भारतं त्वयि चासक्तं तस्मिंश् च पुरुषोत्तमे
उभाभ्याम् अपि संयोगे यास्यन्ति निधनं नृपाः ॥

62.74

प्रतिज्ञातं च मे कृष्ण ऋषिमध्ये सुरेषु च
मम पुत्रो ऽर्जुनो नाम जातः कुन्त्यां कुरूद्वहः ॥

62.75

सो ऽस्त्राणां पारतन्त्रज्ञः श्रेष्ठश् चापविकर्षणे
तं प्रवेक्ष्यन्ति वै सर्वे राजानः शस्त्रयोधिनः ॥

62.76

अक्षौहिण्यश् च शूराणां राज्ञां संग्रामशालिनाम्
समरे राजधर्मेण योजयिष्यन्ति मृत्युना ॥

62.77

तस्यास्त्रचरितं मार्गं धनुषो लाघवेन च
नानुयास्यन्ति राजानो देवा वा त्वां विना प्रभो ॥

62.78

स ते बन्धुः सहायश् च संग्रामेषु भविष्यति
तस्य योगो विधातव्यस् त्वया गोविन्द मत्कृते ॥

62.79

द्रष्टव्यः स यथाहं वै त्वया मान्यश् च नित्यशः
ज्ञाता त्वम् एव लोकानाम् अर्जुनस्य च नित्यशः ॥

62.80

त्वया हि नित्यं रक्ष्यः स आहवेषु महत्सु च
रक्षितस्य त्वया तस्य न मृत्युः प्रभविष्यति ॥

62.81

अर्जुनं विद्धि मां कृष्ण मां चैवात्मानम् आत्मना
आत्मा ते ऽहं यथा शश्वत् तथैव तव सो ऽर्जुन ॥

62.82

त्वया लोकान् इमाञ् जित्वा बलेर् हस्तात् त्रिभिः क्रमैः
देवतानां कृतो राजा पुरा ज्येष्ठक्रमाद् अहम् ॥

62.83

त्वां च सत्यमयं ज्ञात्वा सत्येष्टं सत्यविक्रमम्
सत्येनोपेत्य देवा वै योजयन्ति रिपुक्षये ॥

62.84

सो ऽर्जुनो नाम मे पुत्रः पितुस् ते भगिनीसुतः
इह सौहृदतां यातु भूत्वा सहचरः पुरा ॥

62.85

तस्य ते युध्यतः कृष्ण स्वस्थाने ऽथ गृहे ऽपि वा
वोढव्या पुंगवेनेव धूः सर्वा रणवाहिनी ॥

62.86

कंसे विनिहते कृष्ण त्वया भाव्यर्थदर्शिना
अभितस् तन् महद्युद्धं भविष्यति महीक्षिताम् ॥

62.87

तत्र तेषां नृवीराणाम् अतिमानुषकर्मणाम्
विजयस्यार्जुनो भोक्ता यशसा त्वं तु योक्ष्यसे ॥

62.88

एतन् मे कृष्ण कार्त्स्न्येन कर्तुम् अर्हसि भाषितम्
यद्य् अहं ते सुराश् चैव सत्यं च प्रियम् अच्युत ॥

62.89

शक्रस्य वचनं श्रुत्वा कृष्णो गोविन्दतां गतः
प्रीतेन मनसा युक्तः प्रतिवाक्यं जगाद ह ॥

62.90

प्रीतो ऽस्मि दर्शनाद् एव तव शक्र शचीपते
यत् त्वयाभिहितं चेदं न किंचित् परिहास्यते ॥

62.91

जानामि भवतो भावं जानाम्य् अर्जुनसंभवम्
जाने पितृष्वसा दत्ता पाण्डोर् वसुमतीपतेः ॥

62.92

युधिष्ठिरं च जानामि कुमारं धर्मनिर्मितम्
भीमसेनं च जानामि वायोः संतानजां तनुम् ॥

62.93

अश्विभ्यां साधु जानामि सृष्टं पुत्रद्वयं शुभम्
नकुलं सहदेवं च माद्र्याः कुक्षिभवाव् उभौ ॥

62.94

कानीनं चापि जानामि सवितुः प्रथमं सुतम्
पितृष्वसरि कर्णं वै प्रसूतं सूततां गतम् ॥

62.95

धार्तराष्ट्राश् च मे सर्वे विदिता युद्धकाङ्क्षिणः
दुर्योधनमुखाः शक्र कौरवाणां महाबलाः ।
पाण्डोर् उपरमं चैव शापाशनिनिपातजम् ॥

62.96

तद् गच्छ त्रिदिवं शक्र सुखाय त्रिदिवौकसाम्
नार्जुनस्य रिपुः कश्चिन् ममाग्रे प्रभविष्यति ॥

62.97

अर्जुनार्थे च तान् सर्वान् पाण्डवान् अक्षतान् युधि
कुन्त्या निर्यातयिष्यामि निवृत्ते भारते मृधे ॥

62.98

यच् च वक्ष्यति मां शक्र तनूजस् तव सो ऽर्जुनः
भृत्यवत् तत् करिष्यामि तव स्नेहेन यन्त्रितः ॥

62.99

सत्यसंधस्य तच् छ्रुत्वा प्रियं प्रीतस्य भाषितम्
प्रणम्य देवदेवस्य मूर्ध्ना शक्रः पदाम्बुजम् ।
कृष्णस्य साक्षात् त्रिदिवं जगाम त्रिदशेश्वरः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc