हरिवंश · अध्याय 63
गते शक्रे ततः कृष्णः पूज्यमानो व्रजौकसैः
गोवर्धनधरः श्रीमान् विवेश व्रजम् एव ह ॥
तं स्म वृद्धाभिनन्दन्ति ज्ञातयश् च सहोषिताः
धन्याः स्मो ऽनुगृहीताः स्मस् त्वद्धृतेन नगेन ह ॥
गावो वर्षभयात् तीर्णा वयं तीर्णा महाभयात्
तव प्रसादाद् गोविन्द देवतुल्य महाद्युते ॥
अमानुषाणि कर्माणि तव पश्याम गोपते
धारणेनास्य शैलस्य विद्मस् त्वां कृष्णम् अव्ययम् ॥
कस् त्वं भवसि रुद्राणां मरुतां वा महाबल
वसूनां वा किमर्थं च वसुदेवः पिता तव ॥
वने च बालक्रीडा ते जन्म चास्मासु गर्हितम्
कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः ॥
किमर्थं गोपवेषेण रमसे ऽस्मासु गर्हितम्
लोकपालोपमश् चैव गास् त्वं किं परिरक्षसि ॥
देवो वा दानवो वा त्वम् यक्षो गन्धर्व एव वा
अस्माकं बान्धवो जातो यो ऽसि सो ऽसि नमो ऽस्तु ते ॥
केनचिद् यदि कार्येण वससि*इह यदृच्छया
वयं* तव*अनुगाः सर्वे भवन्तं* शरणं* गताः ॥
गोपानां* वचनं* श्रुत्वा कृष्णः पद्मनिभेक्षणः
प्रत्युवाच स्मितं* कृत्वा ज्ञातीन् सर्वान् समागतान् ॥
यथा मन्यन्ति मां सर्वे भवन्तो भीमविक्रमाः
तथाहं नावगन्तव्यः स्वजातीयो ऽस्मि बान्धवः ॥
यदि त्व् अवश्यं श्रोतव्यः कालः संप्रतिपाल्यताम्
ततो भवन्तः श्रोष्यन्ति मां च द्रक्ष्यन्ति तत्त्वतः ॥
यद्य् अहं भवतां श्लाघ्यो बान्धवो देवसप्रभः
परिज्ञानेन किं कार्यम् यद्य् एषो ऽनुग्रहो मम ॥
एवम् उक्तास् तु ते गोपा वसुदेवसुतेन वै
बद्धमौना दिशः सर्वे भेजिरे पिहिताननाः ॥
कृष्णस् तु यौवनं दृष्ट्वा निशि चन्द्रमसो नवम्
शारदीनां निशानां च मनश् चक्रे रतिं प्रति ॥
स करीषाङ्गरागासु व्रजरथ्यासु वीर्यवान्
वृषाणां जातरागाणां युद्धानि समयोजयत् ॥
गोपालांश् च बलोदग्रान् योधयाम् आस वीर्यवान्
वने स वीरो गाश् चैव जग्राह ग्राहवद् विभुः ॥
युवत्यो गोपकन्याश् च रात्रौ संकाल्य कालवित्
कैशोरकं मानयानः सह ताभिर् मुमोद ह ॥
तास् तस्य वदनं कान्तं कान्ता गोपस्त्रियो निशि
पिबन्ति नयनाक्षेपैर् गां गतं शशिनं यथा ॥
हरितालार्द्रपीतेन कौशेयेन च भास्वता
भद्रवस्त्रेण वसितः कृष्णः कान्ततरो ऽभवत् ॥
स बद्धाङ्गदनिर्यूहश् चित्रया वनमालया
शोभमानो हि गोविन्दः शोभयाम् आस तं व्रजम् ॥
नमो दामोदरायेति गोपकन्यास् तदाब्रुवन्
विचित्रं चरितं घोषे दृष्ट्वा तत् तस्य भास्वतः ॥
तास् तं पयोधरोत्तानैर् उरोभिः समपीडयन्
भ्रामिताक्षैश् च वदनैर् निरीक्षन्ते वराङ्गनाः ॥
ता वार्यमानाः पितृभिर् भ्रातृभिर् मातृभिस् तथा
कृष्णं गोपाङ्गना रात्रौ मृगयन्ति रतिप्रियाः ॥
तास् तु पङ्क्तीकृताः सर्वा* रमयन्ति मनोरमम्
गायन्त्यः कृष्णचरितं* द्वंद्वशो गोपकन्यकाः ॥
कृष्णलीलानुकारिण्यः कृष्णप्रणिहितेक्षणाः
कृष्णस्य गतिगामिन्यस् तरुण्यस् ता वराङ्गनाः ॥
वनेषु तालहस्ताग्रैः कुट्टयन्त्यस् तथापराः
चेरुर् वै चरितं तस्य कृष्णस्य व्रजयोषितः ॥
तास् तस्य नृत्यं गीतं च विलासस्मितवीक्षितम्
मुदिताश् चानुकुर्वन्त्यः क्रीडन्ति व्रजयोषितः ॥
भावनिष्पन्नमधुरं गायन्त्यस् ता वराङ्गनाः
व्रजं गताः सुखं चेरुर् दामोदरपरायणाः ॥
करीषपांसुदिग्धाङ्ग्यस् ताः कृष्णम् अनुवव्रिरे
रमयन्त्यो यथा नागं सप्रमोदाः करेणवः ॥
तम् अन्या भावविकचैर् नेत्रैः प्रहसिताननाः
पिबन्त्य् अतृप्ता वनिताः कृष्णं कृष्णमृगेक्षणाः ॥
मुखम् अस्यापरा वीक्ष्य तृषिता गोपकन्यकाः
रत्यन्तरगता रात्रौ पिबन्ति रतिलालसाः ॥
हाहेति कुर्वतस् तस्य प्रहृष्टास् ता वराङ्गनाः
जगृहुर् निःसृतां वाणीं साम्ना दामोदरेरिताम् ॥
तासां ग्रथितसीमन्ता रतिचिन्ताकुलीकृताः
चारु विस्रंसिरे केशाः कुचाग्रे गोपयोषिताम् ॥
एवं स कृष्णो गोपीनां चक्रवालैर् अलंकृतः
शारदीषु सचन्द्रासु निशासु मुमुदे सुखी ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0