भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 61

61.1

महे प्रतिहते शक्रः सक्रोधस् त्रिदशेश्वरः
संवर्तकं नाम गणं तोयदानाम् अथाब्रवीत् ॥

61.2

भो बलाहकमातङ्गाः श्रूयतां मम भाषितम्
यदि वो मत्प्रियं कार्यं राजभक्तिपुरस्कृतम् ॥

61.3

एते वृन्दावन गता दामोदरपरायणाः
नन्दगोपादयो गोपा विद्विषन्ति ममोत्सवम् ॥

61.4

आजीवो यः परस् तेषां गोपत्वं च यतः स्मृतम्
ता गावः सप्तरात्रेण पीड्यन्तां वृष्टिमारुतैः ॥

61.5

ऐरावतगतश् चाहम् स्वयम् एवाम्बु दारुणम्
स्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम् ॥

61.6

भवद्भिश् चण्डवर्षेण चरता मारुतेन च
हतास् ताः सव्रजा गावस् त्यक्ष्यन्ति भुवि जीवितम् ॥

61.7

एवम् आज्ञापयाम् आस स सर्वाञ् जलदान् प्रभुः
प्रत्याहते वै कृष्णेन शासने पाकशासनः ॥

61.8

ततस् ते जलदाः कृष्णा घोरनादा भयावहाः
आकाशं छादयामासुः सर्वतः पर्वतोपमाः ॥

61.9

विद्युत्संपातजननाः शक्रचापविभूषिताः
तिमिरावृतम् आकाशं चक्रुस् ते जलदास् तदा ॥

61.10

गजा इवान्ये संसक्ताः केचिन् मकरवर्चसः
नागा इवान्ये गगने चेरुर् जलदपुंगवाः ॥

61.11

ते ऽन्योन्यवपुषा बद्धा नागयूथायुतोपमाः
दुर्दिनं विपुलं चक्रुश् छादयन्तो नभस् तलम् ॥

61.12

नृहस्तनागहस्तानां वेणूनां चैव सर्वशः
स्थूलनागोरुहस्तानां सततं सर्वतोदिशम् ।
धाराभिस् तुल्यरूपाभिर् ववृषुस् ते बलाहकाः ॥

61.13

समुद्रं मेनिरे तं हि खम् आरूढं नृचक्षुषः
दुर्विगाह्यम् अपर्यन्तम् अगाधं दुर्दिनं महत् ॥

61.14

न संपतन्ति खगमा दुद्रुवुर् मृगजातयः
पर्वताभेषु मेघेषु खे नदत्सु समन्ततः ॥

61.15

सुप्तसूर्येन्दुसदृशे मेघैर् नभसि दारुणैह्
अतिवृष्टेन लोकस्य विरूपम् अभवद् वपुः ॥

61.16

मेघौघैर् निष्प्रभाकारम् अदृश्यग्रहतारकम्
चन्द्रसूर्यांशुरहितं खं बभूवातिनिष्प्रभम् ॥

61.17

वारिणा मेघमुक्तेन मुच्यमानेन चासकृत्
मेघयुक्तेन वातेन घूर्णितम् विश्वतोमुखम् ।
आबभौ सर्वतस् तत्र भूमिस् तोयमयी यथा ॥

61.18

विनेदुर् बर्हिणस् तत्र स्तोककाल्परुताः खगाः
विवृद्धिं निम्नगा याताः प्लवगाः संप्लवं गताः ॥

61.19

गर्जितेन च मेघानां पर्जन्यनिनदेन च
तर्जितानीव कम्पन्ते तृणानि तरुभिः सह ॥

61.20

प्राप्तो ऽन्तकालो लोकानां प्राप्ता चैकार्णवा मही
इति गोपगणा वाक्यं व्याहरन्ति भयार्दिताः ॥

61.21

हम्भारवैः क्रन्दमाना न चेलुः स्तम्भितोपमाः
निष्कम्पसक्थिश्रवणा निष्प्रयत्नखुराननाः
हृष्टलोमार्द्रतनवः क्षामकुक्षिपयोधराः ॥

61.22

काश्चित् प्राणान् जहुः श्रान्ता निपेतुः काश्चिद् आतुराः
काश्चित् सवत्साः पतिता गावः शीकरवेजिताः ॥

61.23

काश्चिद् आक्रम्य क्रोडेन वत्सांश् तिष्ठन्ति मातरः
विमुखाः श्रान्तसक्थ्यश् च निराहाराः कृशोदराः ॥

61.24

पेतुर् आर्ता वेपमाना गावो वर्षपराजिताः
वत्साश् चोन्मुखका बाला दामोदर मुखाः स्थिताः
त्राहीति वदनैर् दीनैः कृष्णम् ऊचुर् इवार्तवत् ॥

61.25

गवां तत्कदनं दृष्ट्वा दुर्दिनागमजं भयम्
गोपांश् चासन्नवदनान् कोपं कृष्णः समादधे ॥

61.26

स चिन्तयित्वा संरब्धो दृष्टो योगो गवाम् इति
आत्मानम् आत्मना वाक्यम् इदम् आह प्रियंवदः ॥

61.27

अद्याहम् इमम् उत्पाट्य सकाननवनं गिरिम्
कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्धरम् ॥

61.28

अयं धृतो मया शैलो भूमीगृहनिभोपमः
त्रास्यन्ते सव्रजा गावो मद्वश्यश् च भविष्यति ॥

61.29

एवं स चिन्तयित्वा तु विष्णुः सत्यपराक्रमः
इत्य् उक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् ।
दधार लीलया कृष्णश् छत्राकम् इव बालकः ।
बाह्वोर् बलं दर्शयिष्यन् समीपं तं महीधरम्
दोर्भ्यां उत्पाटयामास कृष्णो गिरिर् इवापरः ॥

61.30

स धृतः संगतो मेघैर् गिरिः सव्येन पाणिना
गृहभावं गतस् तत्र गृहाकारेण वर्चसा ॥

61.31

भूमेर् उत्पाट्यमानस्य तस्य शैलस्य सानुषु
शिलाः प्रशिथिलाश् चेलुर् निष्पेतुश् च सपादपाः ॥

61.32

शिखरैर् घूणमानैश् च सीदमानैश् च सर्वतः
विधृतैश् चोच्छ्रितैः शृङ्गैर् अगमः खगमो ऽभवत् ॥

61.33

चलत्प्रस्रवणैः पार्श्वैर् मेघौघैर् एकतां गतैः
भिद्यमानाश्मनिचयश् चचाल धरणीधरः ॥

61.34

न मेघानां प्रवृष्टानां न शैलस्याश्मवर्षिणः
वायोश् च घूर्णमानस्य विद्युतां भ्रमताम् अपि ।
विष्णुतेजोभिभूतानाम् अदृश्यन्त वपूंषि च ।
विविदुस् ते जना रूपं वायोस् तस्य च गर्जतः ॥

61.35

मेघैः शिखरसंधानैर् जलप्रस्रवणान्वितैः
मिश्रीकृत इवाभाति गिरिर् उद्दामबर्हिणः ॥

61.36

आप्लुतो ऽयं गिरिः पक्षैर् इति विद्याधरोरगाः
गन्धर्वऋषयश् चैव वाचो मुञ्चन्ति सुस्वराः ॥

61.37

स कृष्णतलविन्यस्तो मुक्तमूलः क्षितेस् तलात्
रीतीर् निर्वर्तयामास काञ्चनाञ् जनराजतीः ॥

61.38

कानिचिच् छादितानीव संकीर्णार्धानि कानिचित्
गिरेर् मेघं प्रविष्टानि तस्य शृङ्गाणि चाभवन् ॥

61.39

गिरिणा कम्प्यमानेन कम्पितानां तु शाखिनाम्
पुष्पम् उच्चावचं भूमौ व्यशीर्यत समन्ततः ॥

61.40

निःसृताः पृथुमूर्धानः स्वस्तिकार्धविभूषिताः
द्विजिह्वपतयः क्रुद्धाः खेचराः खे समन्ततः ॥

61.41

आर्तिं जग्मुः खगगणा वर्षेण च भयेन च
उत्पत्योत्पत्य गगनात् पुनः पेतुर् अवाङ्मुखाः ॥

61.42

रेजुश् चारोषिताः सिंहाः सजला इव तोयदाः
गर्गरा इव मथ्यन्तो नेदुः शार्दूलपुंगवाः ॥

61.43

विषमैश् च समीभूतैः समैश् चात्यन्तदुर्गमैः
व्यावृत्तदेहः स गिरी रम्य एवोपलक्ष्यते ॥

61.44

अभिवृष्टस्य तैर् मेघैस् तस्य रूपं बभूव ह
स्तम्भितस्येव रुद्रेण त्रिपुरस्य विहायसि ॥

61.45

बाहुदण्डेन कृष्णस्य विधृतं सुमहत् तदा
नीलाभ्रपटलच् छन्नं तद्गिरिच्छत्रम् आबभौ ॥

61.46

स्वप्नायमानो जलदैर् निमीलितगुहामुखः
बाहूपधाने कृष्णस्य प्रसुप्त इव खे गिरिः ॥

61.47

निर्विहंगरुतैर् वृक्षैर् निर्मयूररुतैर् वनैः
निरालम्ब इवाभाति गिरिः स शिखरैर् वृतः ॥

61.48

पर्यस्तैर् घूर्णमानैश् च प्रचलद्भिश् च सानुभिः
सज्वराणीव शैलस्य वनानि शिखराणि च ॥

61.49

उत्तमाङ्गगतास् तस्य मेघाः पवनवाहनाः
त्वर्यमाणा महेन्द्रेण तोयं मुमुचुर् अक्षयम् ॥

61.50

स लम्बमानः कृष्णस्य भुजाग्रे सघनो गिरिः
चक्रारूढ इवाभाति देशो नृपतिपीडितः ॥

61.51

स मेघनिचयस् तस्थौ गिरिं तं परिवार्य ह
पुरं पुरस्कृत्य यथा स्फीतो जनपदो महान् ॥

61.52

निवेश्य तं करे शैलं तुलयित्वा च सस्मितम्
प्रोवाच गोप्ता गोपानां प्रजापतिर् इव स्थितः ॥

61.53

एतद् देवैर् असंभाव्यं दिव्येन विधिना मया
कृतं गिरिगृहं गोपा निवातशरणं गवाम् ॥

61.54

क्षिप्रं विशन्तु यूथानि गवाम् इह हि शान्तये
निवातेषु च देशेषु निवसन्तु यथासुखम्
यथाव्रजं यथायूथं यथासारं च वै सुखम् ॥

61.55

विभज्यताम् अयं देशः कृतो वर्षनिवारणः
शैलोत्पाटनभूर् एषा महती निर्मिता मया
युथशश् च विभज्याथ वसध्वं गोपसत्तमाः ।
पञ्चक्रोशप्रमाणेन क्रौशैकं विस्तरो महान् ।
त्रैलोक्यम् अप्य् उत्सहते ग्रसितुं किं पुनर् व्रजम् ॥

61.56

ततः किलकिलाशब्दो गवां हम्भारवाश्रितः
गोपानां तुमुलो जज्ञे मेघनादश् च बाह्यतः ॥

61.57

प्रविशन्ति ततो गावो गोपैर् यूथप्रकल्पिताः
तस्य शैलस्य विपुलं प्रदरं गह्वरोदरम् ॥

61.58

कृष्णो ऽपि मूले शैलस्य शैलस्तम्भ इवोच्छ्रितः
दधारैकेन हस्तेन शैलं प्रियम् इवातिथिम् ॥

61.59

ततो व्रजस्य भाण्डानि युक्तानि शकटानि च
विविशुर् वर्षभीतानि तद् गृहं गिरिनिर्मितम् ॥

61.60

अतिदैवं तु कृष्णस्य दृष्ट्वा तत् कर्म वज्रभृत्
मिथ्याप्रतिज्ञो जलदान् वारयामास वै विभुः ॥

61.61

सप्तरात्रे तु निर्वृत्ते धरण्यां विगतोत्सवे
जगाम संवृतो मेघैर् वृत्रहा स्वर्गम् उत्तमम् ॥

61.62

निवृत्ते सप्तरात्रे तु तिष्ये स्कन्ने शतक्रतौ
गताभ्रे विमले व्योम्नि दिवसे दीप्तभास्करे ॥

61.63

गावस् तेनैव मार्गेण परिजग्मुर् गतश्रमाः
खं च स्थानं ततो घोषः प्रत्ययात् पुनर् एव सः ॥

61.64

कृष्णो ऽपि तं गिरिश्रेष्ठं स्वस्थाने स्थावरात्मवान्
प्रीतो निवेशयामास ध्रुवाय वरदो विभुः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc