हरिवंश · अध्याय 60
दामोदरवचः श्रुत्वा हृष्टास् ते गोषु जीविनः
तद्वाग् अमृतम् आख्यातं प्रत्यूचुर् अविशङ्कया ॥
तवैषा बाल महती गोपानां हर्षवर्धिनी
प्रीणयत्य् एव नः सर्वान् बुद्धिर् वृद्धिकरी नृणाम् ॥
त्वं गतिस् त्वं रतिश् चैव त्वं वेत्ता त्वं परायणम्
भयेष्व् अभयदस् त्वं नस् त्वं चैव सुहृदां सुहृत् ॥
त्वत्कृते कृष्ण घोषो ऽयं क्षेमो मुदितगोकुलः
कृत्स्नो वसति शान्तारिर् यथा स्वर्गगतस् तथा ॥
जन्मप्रभृति दिव्यैस् तैर् विक्रान्तैर् भुवि दुष्करैः
बोद्धव्याच् चाभिमानाच् च विस्मितानि मनांसि नः ॥
बलेन च परार्ध्येन यशसा विक्रमेण च
उत्तमस् त्वं च मर्त्येषु देवेष्व् इव पुरंदरः ॥
कान्त्या लक्ष्म्या प्रसादेन वदनेन स्मितेन च
उत्तमस् त्वं च मर्त्येषु देवेष्व् इव निशाकरः ॥
वेषेण वपुषा चैव बाल्येन चरितेन च
स्यात् ते शक्तिधरस् तुल्यो न तु कश्चन मानुषः ॥
यत् त्वयाभिहितं वाक्यं गिरियज्ञं प्रति प्रभो
कस् तल् लङ्घयितुं शक्तो वेलाम् इव महोदधेः ॥
स्थितः शक्रमहस् तात श्रीमान् गिरिमहस् त्व् अयम्
त्वत्प्रणीतो ऽद्य गोपानां गवां हेतोः प्रवर्तताम् ॥
भोजनान्य् उपकल्प्यन्तां पयसः पेशलानि च
कुम्भाश् च विनिवेश्यन्ताम् उदपानेषु शोभनाः
लेह्यस्य पायसस्यार्थे द्रोण्यश् च विपुलायताः ॥
भक्ष्यं भोज्यं च पेयं च तत् सर्वम् उपनीयताम्
भाजनानि च मांसस्य न्यस्यन्ताम् ओदनस्य च
त्रिरात्रं चैव संदोहः सर्वघोषस्य गृह्यताम् ॥
विशस्यन्तां च पशवो भोज्या ये महिषादयः
प्रवर्ततां च यज्ञो ऽयं सर्वगोपसुसंकुलः ॥
आनन्दजननो घोषो महान् मुदितगोकुलः
तूर्यप्रणादघोषैश् च वृषभाणां च गर्जितैः ॥
हम्भारवैश् च वत्सानां गोपानां हर्षवर्धनः
दधिह्रदो घृतावर्तः पयःकुल्यासमाकुलः ॥
मांसराशिप्रक्लृप्ताढ्यः प्रकाशौदनपर्वतः
संप्रावर्तत यज्ञः स गिरेर् गोभिः समाकुलः
तुष्टगोपजनाकीर्णो गोपनारीमनोहरः ॥
अथाधिश्रितपर्यन्ते पर्याप्ते यज्ञसंविधौ
यज्ञं गिरेस् तिथौ सौम्ये चक्रुर् गोपा द्विजैः सह ॥
यजनान्ते तद् अन्नं तु तत् पयो दधि चोत्तमम्
मांसं च मायया कृष्णो गिरिर् भूत्वा समश्नुते ॥
तर्पिताश् चापि विप्राग्र्यास् तुष्टाः संपूर्णभोजनाः
उत्तस्थुः प्रीतमनसः स्वस्ति वाच्य यथासुखम् ॥
भुक्त्वा चावभृते कृष्णः पयः पीत्वा च कामतः
संतृप्तो ऽस्मीति दिव्येन रूपेण प्रजहास वै ॥
तं गोपाः पर्वताकारं दिव्यस्रगनुलेपनम्
गिरिमूर्ध्नि स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः ॥
भगवान् अपि तेनैव रूपेणाच् छादितः प्रभुः
सह तैः प्रणतो गोपैर् ववन्दात्मानम् आत्मना ॥
तम् ऊचुर् विस्मिता गोपा देवं गिरिवरे स्थितम्
भगवंस् त्वद्वशे युक्ता दासाः किं कुर्म किंकराः ॥
स उवाच ततो गोपान् गिरिः सुप्रभया गिरा
अद्यप्रभृति याज्यो ऽहं गोषु यद्य् अस्ति वो दया ॥
अहं वः प्रथमो देवः सर्वकामकरः शिवः
मम प्रभावाच् च गवाम् अयुतान्य् एव भोक्ष्यथ ॥
शिवस् च वो भविष्यामि मद्भक्तानां वने वने
रंस्ये च सह युष्माभिर् यथा दिविगतस् तथा ॥
ये चेमे प्रथिता गोपा नन्दगोपादयः स्थिताः
एषां प्रीतः प्रयच्छामि गोपानां विपुलं धनम् ॥
पर्याप्नुवन्तु मां क्षिप्रं गावो वत्ससमाकुलाः
एवं मम परा प्रीतिर् भविष्यति न संशयः ॥
ततो नीराजनार्थं वै वृन्दशो गोकुलानि च
परिवव्रुर् गिरिवरं सवृषाणि सहस्रशः ॥
ता गावः प्रस्नुता वत्सैः सापीडस्तबकाङ्गदाः
सस्रगापीडशृङ्गाग्राः शतशो ऽथ सहस्रशः ॥
अनुजग्मुश् च गोपालाः कालयन्तो धनानि च
भक्तिच्छेदानुलिप्ताङ्गा रक्तपीतासिताम्बराः ॥
मयूरचित्राङ्गदिनो भुजैः प्रहरणावृतैः
मयूरपत्रवृन्तानां केशबन्धैः सुयोजितैः
बभ्राजुर् अधिकं गोपाः समवाये तदाद्भुते ॥
अन्ये वृषान् आरुरुहुर् नृत्यन्ति स्मापरे मुदा
गोपालास् त्व् अपरे गाश् च जगृहुर् वेगगामिनः ॥
तस्मिन् पर्यायनिर्वृत्ते गवां नीराजनोत्सवे
अन्तर्धानं जगामाशु तेन देहेन सो गिरिः ॥
कृष्णो ऽपि गोपस्थितो विवेश व्रजम् एव ह
गिरियज्ञप्रवृत्तेन तेनाश्चर्येण विस्मितः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0