हरिवंश · अध्याय 5
आसीद् धर्मस्य संगोप्ता पूर्वम् अत्रिसमः प्रभुः
अत्रिवंशसमुत्पन्नस् त्व् अङ्गो नाम प्रजापतिः ॥
तस्य पुत्रो ऽभवद् वेनो नात्यर्थं धार्मिको ऽभवत्
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥
स मातामहदोषेण वेनः कालात्मजात्मजः
स्वधर्मं पृष्ठतः कृत्वा कामाल् लोकेष्व् अवर्तत ॥
मर्यादां स्थापयामास धर्मापेतां स पार्थिवः
वेदधर्मान् अतिक्रम्य सो ऽधर्मनिरतो ऽभवत् ॥
निःस्वाध्यायवषट्काराः प्रजास् तस्मिन् प्रजापतौ
प्रावर्तन्न पपुः सोमं हुतं यज्ञेषु देवताः ॥
न यष्टव्यं न होतव्यम् इति तस्य प्रजापतेः
आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥
अहम् ईज्यश् च यष्टा च यज्ञश् चेति कुरूद्वह
मयि यज्ञो विधातव्यो मयि होतव्यम् इत्य् अपि ॥
तम् अतिक्रान्तमर्यादम् आददानम् असांप्रतम्
ऊचुर् महर्षयः सर्वे मरीचिप्रमुखास् तदा ॥
वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून्
फलदायी स चास्माकं यज्ञस् ते ऽद्यापि नान्यथा ।
अधर्मं कुरु मा वेन नैष धर्मः सतां मतः ॥
निधने हि प्रसूतस् त्वं प्रजापतिर् असंशयम्
प्रजाश् च पालयिष्ये ऽहम् इति ते समयः कृतः ॥
तांस् तथा ब्रुवतः सर्वान् महर्षीन् अब्रवीत् तदा
वेनः प्रहस्य दुर्बुद्धिर् इमम् अर्थम् अनर्थवत् ॥
स्रष्टा धर्मस्य कश् चान्यः श्रोतव्यं कस्य वा मया
श्रुतवीर्यतपःसत्यैर् मया वा कः समो भुवि ।
प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।
संमूढा न विदुर् नूनं भवन्तो मां विशेषतः ॥
इच्छन् दहेयं पृथिवीं प्लावयेयं तथा जलैः
द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा ॥
यदा न शक्यते मानाद् अवलेपाच् च पार्थिवः
अनुनेतुं तदा वेनं ततः क्रुद्धा महर्षयः ॥
निगृह्य तं महात्मानो विस्फुरन्तं महाबलम्
हन्यतां हन्यतां पाप इत्य् ऊचुस् ते परस्परम् ॥
यो यज्ञपुरुषं देवम् अनादिनिधनं हरिम् ।
विनिन्दत्य् अधमाचारो न स योग्यो भुवः पतिः ॥
इत्य् उक्त्वा मन्त्रपूतैस् तैः कुशैर् मुनिगणा नृपम् ।
निजघ्नुर् निहतं पूर्वं भगवन् निन्दनादिना ॥
तस्मिन् हते जगत् सर्वं दस्युभूतं अभून् नृप ।
ततः संमन्त्र्य ऋषयो ममन्थुस् तस्य भूभुजः ।
ततो ऽस्य सव्यम् ऊरुं ते ममन्थुर् जातमन्यवः ॥
तस्मिंस् तु मथ्यमाने वै राज्ञ ऊरौ प्रजज्ञिवान्
ह्रस्वो ऽतिमात्रः पुरुषः कृष्णश् चापि बभूव ह ॥
स भीतः प्राञ्जलिर् भूत्वा स्थितवाञ् जनमेजय
तम् अत्रिर् विह्वलं दृष्ट्वा निषीदेत्य् अब्रवीत् तदा ॥
निषादवंशकर्ता स बभूव वदतां वर
धीवरान् असृजच् चापि वेनकल्मषसंभवान् ॥
ये चान्ये विन्ध्यनिलयास् तुमुरास् तुम्बुरास् तथा
अधर्मरुचयस् तात विद्धि तान् वेनकल्मषान् ॥
ततः पुनर् महात्मानः पाणिं वेनस्य दक्षिणम्
अरणीम् इव संरब्धा ममन्थुस् ते महर्षयः ॥
पृथुस् तस्मात् समुत्तस्थौ कराज् ज्वलनसंनिभः
दीप्यमानः स्ववपुषा साक्षाद् अग्निर् इव ज्वलन् ॥
आद्यम् आजगवं नाम धनुर् गृह्य महारवम्
शरांश् च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ॥
तस्मिञ् जाते ऽथ भूतानि संप्रहृष्टानि सर्वशः
समापेतुर् महाराज वेनश् च त्रिदिवं ययौ ॥
समुत्पन्नेन कौरव्य सत्पुत्रेण महात्मना
त्रातः स पुरुषव्याघ्र पुन्नाम्नो नरकात् तदा ॥
तं समुद्राश् च नद्यश् च रत्नान्य् आदाय सर्वशः
तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ॥
पितामहश् च भगवान् देवैर् आङ्गिरसैः सह
स्थावराणि च भूतानि जंगमानि च सर्वशः ॥
समागम्य तदा वैन्यम् अभ्यषिञ्चन् नराधिपम्
महता राजराज्येन प्रजापालं महाद्युतिम् ॥
सो ऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः
आधिराज्ये तदा राजा पृथुर् वैन्यः प्रतापवान् ॥
पित्रापरञ्जितास् तस्य प्रजास् तेनानुरञ्जिताः
अनुरागात् ततस् तस्य नाम राजेत्य् अजायत ॥
आपस् तस्तम्भिरे तस्य समुद्रम् अभियास्यतः
पर्वताश् च ददुर् मार्गं ध्वजसङ्गश् च नाभवत् ॥
अकृष्टपच्या पृथिवी सिध्यन्त्य् अन्नानि चिन्तया
सर्वकामदुघा गावः पुटके पुटके मधु ॥
एतस्मिन्न् एव काले तु यज्ञे पैतामहे शुभे
सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः ॥
तस्मिन्न् एव महायज्ञे जज्ञे प्राज्ञो ऽथ मागधः
पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥
ताव् ऊचुर् ऋषयः सर्वे स्तूयताम् एष पार्थिवः
कर्मैतद् अनुरूपं वां पात्रं चायं नराधिपः ॥
ताव् ऊचतुस् तदा सर्वांस् तान् ऋषीन् सूतमागधौ
आवां देवान् ऋषींश् चैव प्रीणयावः स्वकर्मभिः ॥
न चास्य विद्वो वै कर्म न तथा लक्षणं यशः
स्तोत्रं येनास्य कुर्याव राज्ञस् तेजस्विनो द्विजाः ॥
ऋषिभिस् तौ नियुक्तौ तु भविष्यैः स्तूयताम् इति
तौ स्तुतिं चक्रतुर् युक्तं सूतमागधकौ नृप ।
यानि कर्माणि कृतवान् पृथुः पश्चान् महाबलः ॥
तदाप्रभृति त्रैलोक्ये स्तवेषु जनमेजय
आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ॥
तयोः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः
अनूपदेशं सूताय मगधं मागधाय च ॥
तं दृष्ट्वा परमप्रीताः प्रजाः प्राहुर् महर्षयः
वृत्तीनाम् एष वो दाता भविष्यति जनेश्वरः ॥
ततो वैन्यं महाराज प्रजाः समभिदुद्रुवुः
त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात् तदा ॥
सो ऽभिद्रुतः प्रजाभिस् तु प्रजाहितचिकीर्षया
धनुर् गृह्य पृषत्कांश् च पृथिवीम् आर्दयद् बली ॥
ततो वैन्यभयत्रस्ता गौर् भूत्वा प्राद्रवन् मही
तां पृथुर् धनुर् आदाय द्रवन्तीम् अन्वधावत ॥
सा लोकान् ब्रह्मलोकादीन् गत्वा वैन्यभयात् तदा
प्रददर्शाग्रतो वैन्यं प्रगृहीतशरासनम् ॥
ज्वलद्भिर् निशितैर् बाणैर् दीप्ततेजसम् अच्युतम्
महायोगं महात्मानं दुर्धर्षम् अमरैर् अपि ॥
अलभन्ती तु सा त्राणं वैन्यम् एवान्वपद्यत
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस् त्रिभिः सदा ॥
उवाच वैन्यं नाधर्मं स्त्रीवधे परिपश्यसि
कथं धारयिता चासि प्रजा राजन् विना मया ॥
मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत्
मत्कृते न विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥
न माम् अर्हसि हन्तुं वै श्रेयश् चेत् त्वं चिकीर्षसि
प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥
उपायतः समारब्धाः सर्वे सिध्यन्त्य् उपक्रमाः
तस्माद् वदाम्य् उपायं ते तं कुरुष्व यदीच्छसि ।
उपायं पश्य येन त्वं धारयेथाः प्रजा नृप ॥
हत्वापि मां न शक्तस् त्वं प्रजानां पोषणे नृप
अन्नभूता भविष्यामि यच्छ कोपं महाद्युते ॥
अवध्याश् च स्त्रियः प्राहुस् तिर्यग्योनिगतेष्व् अपि
सत्त्वेषु पृथिवीपाल न धर्मं त्यक्तुम् अर्हसि ॥
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः
चिन्तयित्वा बहुविधं प्रजानां हितकम्यया ।
कोपं निगृह्य धर्मात्मा वसुधाम् इदम् अब्रवीत् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0