हरिवंश · अध्याय 56
सोपसृत्य नदीतीरं बद्ध्वा परिकरं दृढम्
आरोहच् चपलः कृष्णः कदम्बशिखरं युवा ॥
कृष्णः कदम्बशिखराल् लम्बमानो ऽम्बुदाकृतिः
ह्रदमध्ये ऽकरोच् छब्दं निपतन्न् अम्बुजेक्षणः ॥
स कृष्णेनावपतता क्षोभितः स महाह्रदः
संप्राशिच्यत वेगेन भिद्यमान इवार्णवः ॥
तेन शब्देन संक्षुब्धं तत्सर्पभवनं महत्
उत्तिष्ठद् उदकात् सर्पो रोषपर्याकुलेक्षणः ॥
स चोरगपतिः क्रुद्धो मेघराशिसमप्रभः
ततो रक्तान्तनयनः कालियः समदृश्यत ॥
पञ्चास्यः पावकोच्छ्वासश् चलज्जिह्वो ऽनलाननः
पृतुभिः पञ्चभिर् घोरैः शिरोभिः परिवारितः ॥
पूरयित्वा ह्रदं सर्वं भोगेनानलवर्चसा
स्फुरन्न् इव स रोषेण ज्वलन्न् इव च तेजसा ॥
क्रोधेन तज्जलं तस्य सर्वं शृतम् इवाभवत्
प्रतिश्रोताश् च भीतेव जगाम यमुना नदी
तस्य क्रोधाग्निपूर्णेन वक्त्रेणाभूच् च मारुतः ॥
दृष्ट्वा कृष्णं ह्रदगतं क्रीडन्तं शिशुलीलया
सधूमाः पन्नगेन्द्रस्य मुखान् निश्चेरुर् अर्चिषः ॥
सृजता तेन रोषाग्निं समीपे तीरजा द्रुमाः
क्षणेन भस्मसान् नीता युगान्तप्रतिमेन वै ॥
तस्य पुत्राश् च दाराश् च भृत्याश् चान्ये महोरगाः
वमन्तः पावकं घोरं वक्त्रेभ्यो विषसंभवम्
सधूमाः पन्नगेन्द्रास् ते निपेतुर् अमितौजसः ॥
प्रवेशितश् च तैः सर्पैः स कृष्णो भोगबन्धनम्
निर्यत्नचरणाकारस् तस्थौ गिरिर् इवाचलः ॥
ददंशुर् दशनैस् तीक्ष्णैर् विषोत्पीडजलाविलैः
ते कृष्णं सर्पपतयो न ममार च वीर्यवान् ॥
एतस्मिन्न् अन्तरे भीता गोपालाः सर्व एव ते
क्रन्दमाना व्रजं जग्मुर् बाष्पसंदिग्धया गिरा ॥
एष मोहं गतः कृष्णो मग्नो वै कालियह्रदे
भक्ष्यते सर्पराजेन तद् आगच्छत माचिरम् ॥
नन्दगोपाय वै क्षिप्रं बल्लवाय निवेद्यताम्
एष ते कृष्यते पुत्रः सर्पेणेति महाह्रदे ॥
नन्दगोपस् तु तच् छ्रुत्वा वज्रपातोपमं वचः
आर्तः स्खलितविक्रान्तस् तं जगाम ह्रदोत्तमम् ॥
सबालयुवतीवृद्धः स च संकर्षणो युवा
आक्रीडं पन्नगेन्द्रस्य जनस् तं समुपागमत् ॥
नन्दगोपमुखा गोपास् ते सर्वे साश्रुलोचनाः
इदं किं त्व् इति संभ्रान्ताः कस्येदं कर्म चेति वै ।
हाहाकारं प्रकुर्वन्तस् तस्थुस् तीरे ह्रदस्य वै ॥
व्रीडिता विस्मिताश् चैव शोकार्ताश् च पुनः पुनः
केचित् तु कृष्ण हा हेति हा धिग् इत्य् अपरे पुनः
अपरे हा हताः स्मेति रुरुदुर् भृशदुःखिताः ॥
स्त्रियश् चैव यशोदां ताम् हा हतासीति चुक्रुशुः
या पश्यसि प्रियं पुत्रं सर्पराजवशंगतं
संदितं सर्पभोगेन कृष्यमाणं यथा मृगम् ॥
अश्मसारमयं नूनं हृदयं ते ऽभिलक्ष्यते
पुत्रं कथम् इमं दृष्ट्वा यशोदे नावदीर्यते ॥
दुःखितं बत पश्यामो नन्दगोपं ह्रदान्तिके
न्यस्य पुत्रमुखे दृष्टिं निश्चेतनम् अवस्थितम् ॥
यशोदाम् अनुगच्छन्त्यः सर्पावासम् इमं ह्रदम्
प्रविशामो न यास्यामः सर्वा दामोदरं विना ॥
दिवसः को विना सूर्यं विना चन्द्रेण का निशा
विना वृषेण का गावो विना कृष्णेन को व्रजः
विना कृष्णं न यास्यामो विवत्सा इव धेनवः ॥
तासां विलपितं श्रुत्वा तेषाम् च व्रजवासिनाम्
विलापं नन्दगोपस्य यशोदां रुदतीं तथा ।
एकभावशरीरज्ञ एकदेहो द्विधाकृतः
संकर्षणस् तु संक्रुद्धो बभाषे कृष्णम् अव्ययम् ॥
कृष्ण कृष्ण महाबाहो गोपानां नन्दिवर्धन
दम्यताम् एष वै क्षिप्रं सर्पराजो विषायुधः ॥
इमे नो बान्धवास् तात त्वां मत्वा मानुषं प्रभो
परिदेवन्ति करुणम् सर्वे मानुषबुद्धयः ॥
तच् छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम्
विक्रीड्यास्फोटयद् बाहू तद् भित्त्वा भोगबन्धनम् ॥
तस्य पद्भ्यां अथाक्रम्य भोगराशिं जलोक्षितम्
शिरो ऽस्य कृष्णो जग्राह स्वहस्तेनावनाम्य च ॥
तस्यारुरोह सहसा मध्यमं तन् महच् छिरः
सो ऽस्य मूर्ध्नि स्थितः कृष्णो ननर्त रुचिराङ्गदः ॥
मृद्यमानः स कृष्णेन श्रान्तमूर्धा भुजंगमः
अस्यैः सरुधिरोद्गारैः कातरं वाक्यम् अब्रवीत् ॥
अविज्ञानान् मया कृष्ण रोषो ऽयं संप्रदर्शितः
दमितो ऽहं हतविषो वशगस् ते वरानन ॥
तदाज्ञापय किं कुर्यां सदारापत्यबान्धवः
कस्य वा वशतां यामि जीवितं मे प्रदीयताम् ॥
पञ्चमूर्धानतं दृष्ट्वा सर्पं सर्पारिकेतनः
अक्रुद्ध एव भगवान् प्रत्युवाचोरगेश्वरम् ॥
तवास्मिन् यमुनातोये नैव स्थानं ददाम्य् अहम्
गच्छार्णवजलं सर्प सपुत्रः सहबान्धवः ॥
यश् चेह भूयो दृश्येत स्थले वा यदि वा जले
तव भृत्यस् तनूजो वा क्षिप्रं वध्यः स मे भवेत् ॥
शिवं चास्य जलस्यास्तु त्वं च गच्छ महार्णवम्
स्थाने त्व् इह भवेद् दोषस् तवान्तकरणो महान् ॥
मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे
गरुदः पन्नगरिपुस् त्वयि न प्रहरिष्यति ॥
गृह्य मूर्ध्ना तु चरणौ कृष्णस्योरगपुंगवः
पश्यताम् एव गोपानां जगामादर्शनं ह्रदात् ॥
निर्जिते तु गते सर्पे कृष्णम् उत्तीर्य विष्ठितम्
विस्मितास् तुष्टुवुर् गोपाश् चक्रुश् चैव प्रदक्षिणम् ॥
ऊचुः सर्वे सुसंप्रीता नन्दगोपं वनेचराः
धन्यो ऽस्य् अनुगृहीतो ऽसि यस्य ते पुत्र ईदृशः ॥
अद्यप्रभृति गोपानां गवां घोषस्य चानघ
आपत्सु शरणं कृष्णः प्रभुश् चायतलोचनः ॥
जाता शिवजला सर्वा यमुना मुनिसेविता
सर्वैस् तीर्थैः सुखं गावो विचरिष्यन्ति नः सदा ॥
व्यक्तम् एव वयं गोपा वने यत् कृष्णम् ईदृशम्
महद्भूतं न जानीमश् छन्नम् अग्निम् इव व्रजे ॥
एवं ते विस्मिताः सर्वे स्तुवन्तः कृष्णम् अव्ययम्
जग्मुर् गोपगणा घोषं देवाश् चैत्ररथं यथा ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0