हरिवंश · अध्याय 57
दमिते सर्पराजे तु कृष्णेन यमुनाह्रदे
तम् एव चेरतुर् देशम् सहितौ रामकेशवौ ॥
जग्मतुस् तौ तु संरक्तौ गोधनैः सह गामिनौ
गिरिं गोवर्धनं रम्यं वसुदेवसुताव् उभौ ॥
गोवर्धनस्योत्तरतो यमुनातीरम् आश्रितम्
ददृशाते ऽथ तौ वीरौ रम्यं तालवनं महत् ॥
तौ तालपर्णप्रतते रम्ये तालवने रतौ
चेरतुः परमप्रीतौ वृषपोताव् इवोद्गतौ ॥
स तु देशः समः स्निग्धो लोष्टपाषाणवर्जितः
दर्भप्रायस्थलीभूतः सुमहान् कृष्णमृत्तिकः ॥
तालैस् तैर् विपुलस्कन्धैर् उच्छ्रितैः श्यामपर्वभिः
फलाग्रशाखिभिर् भाति नागहस्तैर् इवोच्छ्रितैः ॥
तत्र दामोदरो वाक्यम् उवाच वदतां वरः
अहो तालफलैः पक्वैर् वासितेयं वनस्थली ॥
स्वादून्य् आर्य सुगन्धीनि श्यामानि रसवन्ति च
तालपक्वानि सहितौ पातयावो लघुक्रमौ ॥
यद्य् एषाम् ईदृशो गन्धो मधुरो घ्रानसंमतः
रसेनामृतकल्पेन भविष्यन्तीति मे मतिः ॥
दामोदरवचः श्रुत्वा रौहिणेयो हसन्न् इव
पातयंस् तालपक्वानि चालयाम् आस तांस् तरून् ॥
तत् तु तालवनं नॄणाम् असेव्यं दुरतिक्रमम्
निर्माणभूतम् इरिणं पुरुषादालयोपमम् ॥
दारुणो धेनुको नाम दैत्यो गर्दभरूपवान्
खरयूथेन महता वृतः समुपसेवते ॥
स तत् तलवनं घोरं गर्दभः परिरक्षति
नृपक्षिश्वापदगणांस् त्रासयानः स दुर्मतिः ॥
तालशब्दं स तं श्रुत्वा संघुष्टं फलपातने
नामर्षयत संक्रुद्धस् तालस्वनम् इव द्विपः ॥
शब्दानुसारी संक्रुद्धो दर्पाविद्धसटाननः
स्तब्धाक्षो हेषितपटुः खुरैर् निर्दारयन् महीम् ॥
आविद्धपुच्छो हृषितो व्यात्तानन इवान्तकः
आपतन्न् एव ददृशे रौहिणेयम् अवस्थितम् ॥
तालानां तम् अधो दृष्ट्वा स ध्वजाकारम् अव्ययम्
रौहिणेयं खरो दुष्टः सो ऽदशद् दशनायुधः ॥
पद्भ्याम् उभाभ्यां च पुनः पश्चिमाभ्यां पराङ्मुखः
जघानोरसि दैत्यः स रौहिणेयं निरायुधम् ॥
ताभ्याम् एव स जग्राह पद्भ्यां तं दैत्यगर्दभम्
आवर्जितमुखस्कन्धं प्रैरयत् तालमूर्धनि ॥
स भग्नोरुकटिग्नीवो भग्नपृष्ठो दुराकृतिः
खरस् तालफलैः सार्धं पपात धरणीतले ॥
तं गतासुं गतश्रीकं पतितं वीक्ष्य गर्दभम्
ज्ञातींस् तथापरांस् तस्य चिक्षेप तृणराजनि ॥
सा भूर् गर्दभदेहैश् च तालपक्वैश् च पातितैः
बभासे छन्नजलदा द्यौर् इवाव्यक्तशारदी ॥
तस्मिन् गर्दभदैतेय तु सानुगे विनिपातिते
रम्यं तालवनं तद्द् हि भूयो रम्यतरं बभौ ॥
विप्रमुक्तभयं शुभ्रं विविक्ताकारदर्शनम्
चरन्ति स्म सुखं गावस् तत्तालवनम् उत्तमम् ॥
ततः प्रव्याहृताः सर्वे गोपा वननिवासिनः
वीतशोका वनं सर्वे चञ्चूर्यन्ते स्म ते सुखम् ॥
ततः सुखं प्रकीर्णासु गोषु नागेन्द्रविक्रमौ
द्रुमपर्णासने कृत्वा तौ यथार्हं निषिदतुः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0