भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 55

55.1

कदाचित् तु तदा कृष्णो विना संकर्षणं गुरुम्
चचार तद्वनवरं कामरूपी वराननः ॥

55.2

काकपक्षधरः श्रीमाञ् श्यामः पद्मदलेक्षणः
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ॥

55.3

साङ्गदेनाग्रपादेन पङ्कजोद्भिन्नवर्चसा
सुकुमाराभिताम्रेण क्रान्तविक्रान्तगामिना ॥

55.4

पीते प्रीतिकरे नॄणां पद्मकिञ्जल्कसप्रभे
सूक्ष्मे वसानो वसने ससंध्य इव तोयदः ॥

55.5

वन्यव्यापारयुक्ताभ्यां व्यग्राभ्यां दण्डरज्जुभिः
भुजाभ्यां साधुवृत्ताभ्यां पूजिताभ्यां दिवौकसैः ॥

55.6

सदृशं पुण्डरीकस्य गन्धेन कमलस्य च
रराज तस्य तद्बाल्ये रुचिरोष्ठपुटं मुखम् ॥

55.7

शिखाभिस् तस्य मुक्ताभी रराज मुखपङ्कजम्
वृत्तं षट्पदपङ्क्तीभिर् यथा स्यात् पद्ममण्डलम् ॥

55.8

तस्यार्जुनकदम्बाढ्या नीपकन्दलमालिनी
रराज माला शिरसि नक्षत्राणां यथा दिवि ॥

55.9

स तया मालया वीरः शुशुभे सर्वपुष्पया
मेघकालाम्बुदश्यामो नभस्य इव मूर्तिमान् ॥

55.10

एकेनामलपत्रेण कण्ठसूत्रावलम्बिना
रराज बर्हिपत्रेण मन्दमारुतकम्पिना ॥

55.11

क्वचिद् गायन् क्वचित् क्रीडंश् चञ्चूर्यंश् च क्वचित् क्वचित्
पर्णवाद्यं श्रुतिसुखं वादयानः क्वचिद् वने ॥

55.12

गोपवेणुं सुमधुरं कामात् तम् अपि वादयन्
प्रह्लादनार्थं च गवां क्वचिद् वनगतो युवा
गोकुले ऽम्बुधरश्यामश् चचार द्युतिमान् प्रभुः ॥

55.13

रेमे च तत्र रम्यासु चित्रासु वनराजिषु
मयूररवघुष्टासु मदनोद्दीपनीषु च
मेघनादप्रतिव्यूहैर् नादितासु समन्ततः ॥

55.14

शाड्वलच्छन्नमार्गासु शिलीन्ध्राभरणासु च
कन्दलामलदन्तीषु स्रवन्तीषु नवं जलम् ॥

55.15

केसराणां नवैर् गन्धैर् मदनिःश्वसितोपमैः
अभीक्ष्णं निःश्वसन्तीषु योषित्स्व् इव समन्ततः ॥

55.16

सेव्यमानो नवैर् वातैर् द्रुमसंघातनिःसृतैः
तासु कृष्णो मुदं लेभे सौम्यासु वनराजिषु ॥

55.17

स कदाचिद् वने तस्मिन् गोभिः सह परिव्रजन्
ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् ॥

55.18

स्थितं धरण्यां मेघाभं निबिडं पत्रसंचयैः
गगनार्धोच्छ्रिताकारं पवनाभोगकारिणं ॥

55.19

नीलचित्राङ्गवर्णैश् च सेवितं बहुभिर् द्विजैः
फलैः प्रवालैश् च घनं सेन्द्रचापघनोपमम् ॥

55.20

भवनाकारविटपं लतापुष्पसुमण्डितम्
विशालमूलावततं पवनाम्भोदधारिणम् ॥

55.21

आधिपत्यम् इवान्येषां तस्य देशस्य शाखिनाम्
कुर्वाणं शुभकर्माणं तिरो वर्षन्तम् अव्ययम् ॥

55.22

न्यग्रोधं पर्वताकारं भाण्डीरं नाम नामतः
दृष्ट्वा तत्र मतिं चक्रे निवासाय दिवा प्रभुः ॥

55.23

स तत्र वयसा तुल्यैर् वत्सपालैः सहानघः
रेमे वै दिवसं कृष्णः पुरा स्वर्गगतो यथा ॥

55.24

तं क्रीडमाणं गोपालाः कृष्णं भाण्डीरवासिनम्
रमयन्ति स्म बहवो वन्यैः क्रीडनकैस् तदा ॥

55.25

अन्ये स्म परिगायन्ति गोपा मुदितमानसाः
गोपालाः कृष्णम् एवान्ये गायन्ति स्म रतिप्रियाः ॥

55.26

तेषां स गायताम् एव वादयामास वीर्यवान्
पर्णवाद्यान्तरे वेणुं तुम्बीवीणां च तत्र ह ॥

55.27

कदाचिच् चारयन्न् एव गाः स गोवृषभेक्षणः
जगाम यमुनातीरं लतालंकृतपादपम् ॥

55.28

तरंगापाङ्गकुटिलां वारिस्पर्शसुखानिलाम्
तां च पद्मोत्पलवतीं ददर्श यमुनां नदीम् ॥

55.29

सुतीर्थां स्वादुसलिलां ह्रदिनीं वेगगामिनीम्
तोयवातोद्धतैर् वेगैर् अवनामितपादपाम् ॥

55.30

हंसकारण्डवोद्घुष्टां सारसैश् च विनादिताम्
अन्योन्यमिथुनैश् चैव सेवितां मिथुनेचरैः ॥

55.31

जलजैः प्राणिभिः कीर्णां जलजैर् भूषितां गुणैः
जलजैः कुसुमैश् चित्रां जलजैर् हरितोदकाम् ॥

55.32

प्रस्थितस्रोतचरणां पुलिनश्रोणिमण्डलाम्
आवर्तनाभिगम्भीरां पद्मलोमानुरञ्जिताम् ॥

55.33

ह्रदशातोदराक्रान्तां त्रितरंगवलीधराम्
चक्रवाकस्तनतटां तीरपार्श्वायताननाम् ॥

55.34

फेनप्रहृष्टदशनां प्रसन्नां हंसहासिनीम्
रुचिरोत्पलपत्राक्षीं नतभ्रूं जलजेक्षणाम् ॥

55.35

ह्रददीर्घललाटान्तां कान्तां शैवलमूर्धजाम्
दीर्घस्रोतायतभुजाम् आभोगश्रवणायताम् ॥

55.36

कारण्डवाकुण्डलिनीं श्रीमत्पङ्कजलोचनाम्
काशचामीकरं वासो वसानां हंसलक्षणाम् ॥

55.37

तटजाभरणोपेतां मीननिर्मलमखलाम्
वारिप्लवप्लवक्षौमां सारसारावनूपुराम् ॥

55.38

झाषनक्रानुलिप्ताङ्गीं कूर्मलक्षणशोभिनीम्
निपानश्वापदापीडां नृभिः पीतपयोधराम्
श्वापदोच्छिष्टसलिलाम् आश्रमस्थानसंकुलाम् ॥

55.39

तां समुद्रस्य महिषीं वीक्षमाणः समन्ततः
चचार रुचिरं कृष्णो यमुनाम् उपशोभयन् ॥

55.40

तां चरन् स नदीं श्रेष्ठां ददर्श ह्रदम् उत्तमम्
दीर्घं योजनविस्तारं दुस्तरं त्रिदशैर् अपि ॥

55.41

गम्भीरम् अक्षोभ्यजलं निष्कम्पम् इव सागरम्
तोयपैः श्वापदैस् त्यक्तं शून्यं तोयचरैः खगैः ॥

55.42

अगाधेनाम्भसा पूर्णं मेघपूर्णम् इवाम्बरम्
दुःखोपसर्प्यं तीरेषु ससर्पैर् विपुलैर् बिलैः ॥

55.43

विषारणिगतस्याग्नेर् धूमेन परिवेष्टितम् ॥

55.44

उपभोगैः परित्यक्तं सद्भिस् त्रिषवणार्थिभिः
आकाशाद् अप्य् असंचार्यं खगैर् आकाशगोचरैः ॥

55.45

तृणेष्व् अपि पतत्स्व् अप्सु ज्वलन्तम् इव तेजसा
समन्ताद् योजनंसाग्रं तीरेष्व् अपि दुरासदम् ॥

55.46

विषानलेन घोरेण ज्वालाप्रज्वलितं ह्रदम्
वज्रस्योत्तरतस् तस्य क्रोशमात्रे निरामये ॥

55.47

तं दृष्ट्वा चिन्तयामास कृष्णो वै विपुलं ह्रदम्
अगाधं द्योतमानं च कस्येदं सुमहद् ध्रदम् ॥

55.48

अस्मिन् स कालियो नाम कालाञ्जनचयोपमः
उरगाधिपतिः साक्षाद् ध्रदे वसति दारुनः ॥

55.49

उत्सृज्य सागरे वासं यो मया वाहितः पुरा
भयात् पतगराजस्य सुपर्णस्योरगाशिनः ॥

55.50

तेनेयं दूषिता सर्वा यमुना सागरंगमा
भयात् तस्योरगपतेर् नायं देशो निषेव्यते ॥

55.51

तद् इदं दारुणाकारम् अरण्यं रूढशाड्वलम्
सावरोहद्रुमं घोरं कीर्णं नानालताद्रुमैः ॥

55.52

रक्षितं सर्पराजस्य सचिवैर् वनवासिभिः
वनं निर्विषयाकारं विषान्नम् इव दुःस्पृशम्
तैर् आप्तकारिभिर् नित्यं सर्वतः परिरक्षितम् ॥

55.53

शैवालमलिनैश् चापि वृक्षैः क्षुपलताकुलैः
कर्तव्यमार्गौ भ्राजेते ह्रदस्यास्य तटाव् उभौ ॥

55.54

तद् अस्य सर्पराजस्य कर्तव्यो निग्रहो मया
यथेवं सरिदम्भोदा भवेच् छिवजलाशया ॥

55.55

व्रजोपभोग्या च शुभा नागे वै दमिते मया
सर्वर्तुसुखसंचारा सर्वतीर्थसुखाश्रया ॥

55.56

एतदर्थं च वासो ऽयम् व्रजे ऽस्मिन् गोपजन्म च
अमीषाम् उत्पथस्थानां शासनार्थं दुरात्मनाम् ॥

55.57

एतं कदम्बम् आरुह्य तद् एष शिशुलीलया
विनिपत्य ह्रदे घोरे दमयिष्यामि कालियम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc