भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 54

54.1

तौ तु वृन्दावनं प्राप्तौ वसुदेवसुताव् उभौ
चेरतुर् वत्सयूथानि चारयन्तौ सुनिर्वृत्तौ ॥

54.2

पूर्णस् तु घर्मसमयस् तयोस् तत्र वने सुखम्
क्रीडतोः सह गोपालैर् यमुनां चावगाहतोः ॥

54.3

ततः प्रावृद् अनुप्राप्ता मनसः कामदीपनी
प्रववर्षुर् महाघोराः शक्रचापाङ्क्तितोदराः
बभूवादर्शनः सूर्यो भूमिश् चादर्शयत् तृणम् ॥

54.4

पतता मेघवातेन नवतोयानुकर्षिणा
संमार्जिततला भूमिर् यौवनस्थेव लक्ष्यते ॥

54.5

नववर्षावसिक्तानि शक्रगोपकुलानि च
नष्टदावाग्निधूमानि ववानि प्रचकाशिरे ॥

54.6

नृत्तव्यापारकालश् च मयूराणां कलापिनाम्
मदरक्ताः प्रवृत्ताश् च केकाः पटुरवाः कृताः ॥

54.7

नवप्रावृषि कान्तानां षट्पदाहारदायिनाम्
यौवनस्थं कदम्बानां नवाभ्रैर् भ्राजते वपुः ॥

54.8

हासितं कुटजैः फुल्लैः कदम्बैर् वासितं वनम्
त्रासितं जलदैर् उष्णं तोषिता वसुधा जलैः ॥

54.9

संतप्ता भास्करजलैर् अभितप्ता देवाग्निभिः
जलैर् बलाहकोत्सृष्टैर् उच्छ्वसन्तीव पर्वताः ॥

54.10

महावातसमुद्धूतं महामेघगणार्पितम्
महीमहारजःपूरैस् तुल्यम् आपद्यते नभः ॥

54.11

क्वचित् कदम्बहासाढ्यं सिलिन्ध्राभरणं क्वचित्
संप्रदीप्तं इवाभाति फुल्लनीपद्रुमं वनम् ॥

54.12

ऐन्द्रेण पयसा सिक्तं मारुतेन नवीकृतम्
पार्थिवं गन्धम् आघ्राय लोकः क्षुभितमानसः ॥

54.13

दृप्तसारङ्गनिनदैर् दर्दुर् अव्याहृतेन च
नवैश् च शिखिविक्रुष्टैर् एकवर्णा वसुंधरा ॥

54.14

भ्रमत्तूर्णमहावेगा वर्षप्राप्तमहारयाः
हर्यन्तस् तीरजान् वृक्सान् विस्तरां यान्ति निम्नगाः ॥

54.15

संततासारनिर्यत्नाः क्लिन्नपत्रोत्तरच्छदाः
न त्यजन्त्य् अगमाग्राणि श्रान्ता इव पतत्रिणः ॥

54.16

तोयगम्भीरलम्बेषु प्रस्रवत्सु नदत्सु च
उदरेषु नवाभ्राणां मज्जतीव दिवाकरः ॥

54.17

तनूरुहैर् उत्पतितैः सलिलोत्पीडसंकुला
अन्वेष्यमार्गा वसुधा भाति शाड्वलमालिनी ॥

54.18

वज्रेणेवावरुग्नानां नगानां नगशालिनाम्
स्रोतोभिः परिकृत्तानि पतन्ति शिखराणि च ॥

54.19

पतता मेघवर्षेण यथानिम्नानुसारिणा
पल्वलोद्गीर्णरक्तेन पूर्यन्ते वनराजयः ॥

54.20

हस्तोच्छ्रितमुखा वन्या मेघनादानुसारिणः
भान्त्यातिवृष्ट्या मातङ्गा गां गता इव तोयदाः ॥

54.21

प्रावृट्प्रवृत्तिं संदृश्य दृष्ट्वा चाम्बुधरान् घनान्
रौहिणेयो मिथः काले कृष्णं वचनम् अब्रवीत् ॥

54.22

पश्य कृष्ण घनान् कृष्णान् बलाकोत्पातभूषणान्
गगने तव गात्राणां वर्णचोरान् समुत्थितान् ॥

54.23

तव निद्राकरः कालस् तव गात्रोपमम् नभः
त्वम् इवाज्ञातवसतिं चन्द्रो वसति वार्षिकीम् ॥

54.24

एतन् नीलोत्पलश्यामं नीलोत्पलदलप्रभम्
नीलोत्पलदले काले भाति वृन्दावनं वनम् ।
संप्राप्ते दुर्दिने काले दुर्दिनं भाति वै नभः ॥

54.25

पश्य कृष्ण जलोदग्रैः कृष्णैर् उद्ग्रथितैर् घनैः
गोवर्धनो यथा रम्यो भाति गोवर्धनो गिरिः ॥

54.26

पतितेनाम्भसा ह्य् एते समन्तान् मदतर्पिताः
भ्राजन्ते कृष्णसारङ्गाः काननेषु मुदान्विताः ॥

54.27

एतान्य् अम्बुप्रहृष्टानि हरितानि मृदूनि च
तृणानि शतपत्राक्ष पत्रैर् गूहन्ति मेदिनीम् ॥

54.28

क्षरज्जलानां शैलानां वनानां च जलागमे
ससस्यानां च सीमानां न लक्ष्मीर् व्यतिरिच्यते ॥

54.29

शीघ्रवातसमुद्धूताः प्रोषितौत्सुक्यकारिणः
दामोदरोद्दामरवाः प्रागल्भ्यं यान्ति तोयदाः ॥

54.30

हरे हर्यश्वचापेन त्रिवर्णेन त्रिविक्रम
विबाणज्येन धनुषा तवेदं मध्यमं पदम् ॥

54.31

नभस्य च नभश् चक्षुर् न भात्य् एष नभश्चरः
मेघैः शीतातपकरो विरश्मिर् इव रश्मिमान् ॥

54.32

द्यावापृथिव्योः संसर्गः सततं विततैः कृतः
अव्यवच्छिन्नधारौघैः समुद्रौघनिभैर् घनैः ॥

54.33

नीपार्जुनकदम्बानां पृथिव्यां चाभिवृष्तयः
गन्धैः कोलाहला वान्ति वाता मदनदीपनाः ॥

54.34

संप्रवृत्तमहावर्षं लम्बमानमहाम्बुदम्
भात्य् अगाधम् अपर्यन्तं ससागरम् इवाम्बरम् ॥

54.35

धारानिर्मलनाराचं विद्युत् कवचनिर्मलम्
शक्रचापायुधधरं युद्धसज्जम् इवाम्बरम् ॥

54.36

शैलानां च वनानां च द्रुमाणां च वरानन
प्रतिच्छन्नानि भासन्ते शिखराणि घनैर् घनैः ॥

54.37

गजानीकैर् इवाकीर्णं सलिलोद्गारिभिर् घनैः
वर्णसारूप्यतां याति गगनं सागरस्य वै ॥

54.38

समुद्रोद्धूतजनिता लोलशाड्वलकम्पिनः
शीताह् सपृषतोद्गाराः कर्कशा वान्ति मारुताः ॥

54.39

निशासु सुप्तचन्द्रासु मुक्ततोयासु तोयदैः
मग्नसूर्यस्य नभसो नाभिभान्ति दिशो दश ॥

54.40

घर्मदोषपरित्यक्तं मेघतोयविभूषितम्
पश्य वृन्दावनं कृष्ण वनं चैत्ररथं यथा ॥

54.41

एवं प्रावृङ्गुनान् सर्वाञ् श्रीमान् कृष्णस्य पूर्वजः
कथयन्न् एव बलवान् व्रजम् एव जगाम ह ॥

54.42

तौ रामयन्ताव् अन्योन्यं कृष्णसंकर्षणाव् उभौ
तत्कालं ज्ञातिभिः सार्धं चेरतुस् तौ महद् वनम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc