हरिवंश · अध्याय 53
ईतिं वृकानां दृष्ट्वा तु वर्धमानां दुरासदाम्
सस्त्रीपुंसो ऽथ घोषो वै समस्तो ऽमन्त्रयत् तदा ॥
स्थानेनेह न नः कार्यं व्रजामो ऽन्यन् महद् वनम्
यन् निर्भयं सुखकरं सुखसंचारमारुतम् ।
यच् छिवं च सुखाढ्यं च गवां चैव सुखावहम् ॥
अद्यैव किं चिरेण स्म व्रजामः सह गोधनैः
यावद् वृकैर् वधं घोरं न नः सर्वो व्रजो व्रजेत् ॥
एषां धूम्रारुणाङ्गानां दंष्ट्रिणां मुखकर्षिणाम्
वृकाणां कृष्णवक्त्राणां बिभीमो निशि गर्जताम् ॥
मम पुत्रो मम भ्राता मम वत्सो ऽथ गौर् मम
वृकैर् व्यापादितेत्य् एवं क्रन्दन्ति स्म गृहे गृहे ॥
तासां रुदितशब्देन गवां हम्भारवेण च
व्रजस्योत्थापनं चक्रुर् घोषवृद्धाः समागताः ॥
तेषां मतम् अथाज्ञाय गन्तुं वृन्दावनं प्रति
व्रजस्य च निवेशाय गवां चैव सुखाय च ॥
वृन्दावननिवेशाय ज्ञात्वा तान् कृतनिश्चयान्
नन्दगोपो बृहद्वाक्यं बृहस्पतिर् इवाददे ॥
अद्यैव निश्चयप्राप्तिर् यदि गन्तव्यम् एव नः
शीघ्रम् आज्ञाप्यतां घोषः सज्जीभवत माचिरम् ॥
ततो ऽवघुष्यत तदा घोषे तत्प्राकृतैर् नरैः
शीघ्रम् गावः प्रकाल्यन्तां युज्यन्तां शकटानि च ॥
वत्सयूथानि काल्यन्तां भाण्द्.अं समधिरोपयताम्
वृन्दावनम् इतः स्थानान् निवेशाय च गम्यताम् ॥
तच् छ्रुत्वा नन्दगोपस्य वचनं साधु भाषितम्
तच् छ्रुत्वा वचनं तस्य नन्दगोपस्य भाषितम् ।
उदतिष्ठद् व्रजः सर्वः शीघ्रं गमनलालसः ॥
प्रयाह्य् उत्तिष्ठ गच्छामः किं शेषे याहि योजय
उत्तिष्ठति व्रजे तस्मिन् गोपकोलाहलो ह्य् अभूत् ॥
उत्तिष्ठमानः शुशुभे शकटीसंकटस् तु सः
व्याघ्रघोषमहाघोषो घोषः सागरघोषवान् ॥
गोपीनां गर्गरीभिश् च मूर्ध्नि चोत्तंसितैर् घटैः
निष्पपात व्रजात् पङ्क्तिस् तारापङ्क्तिर् इवाम्बरात् ॥
नीलपीतारुणैस् तासां वस्त्रैर् उद्ग्रथितोच्छ्रितैः
शक्रचापायते पङ्क्तिर् गोपीनां मार्गगामिनी ॥
दामनीदामभारैश् च केचित् कायावलम्बिभिः
गोपा मार्गगता भान्ति सावरोहा इव द्रुमाः ॥
स व्रजो व्रजता भाति शकटौघेन भास्वता
ओघैः पवनविक्षिप्तैर् निष्पतद्भिर् इवार्णवः ॥
क्षणेन तद्व्रजस्थानम् इरिणं समपद्यत
द्रव्यावयनिर्धूतं कीर्णं वायसमण्डलैः ॥
ततः क्रमेण घोषः स प्राप्तो वृन्दावनं वनम्
निवेशं विपुलं चक्रे निवेशाय गवां हितम् ॥
शकटावर्तपर्यन्तं चन्द्रार्धाकारसंस्थितम्
मध्ये योजनविस्तारं तावद् द्विगुणम् आयतम् ॥
कण्टकीभिः प्रवृद्धाभिस् तथा कण्टकितैर् द्रुमैः
निखातोच्छ्रितशाखाग्रैर् अभिगुप्तं समन्ततः ॥
मन्थैर् आरोप्यमानैश् च मन्थबन्धानुकर्षणैः
अद्भिः प्रक्षाल्यमानाभिर् गर्गरीभिस् ततस् ततः ॥
किलैर् आरोप्यमाणैश् च दामनीपाशपाशितैः
स्तम्भनीभिर् धृतैश् चापि शकटैः परिवर्तितैः ॥
नियोगपाशैर् आसक्तैर् गर्गरीस्तम्भमूर्धसु
छादनार्थं प्रकीर्णैश् च कटैस् तृणगृहैस् तथा ॥
शाखाविटङ्कैर् वृक्षाणां क्रियमाणैर् इतस् ततः
शोधमानैर् गवां स्थानैः स्थाप्यमानैर् उदूखलैः ॥
प्राङ्मुखैः सिच्यमानैश् च संदीप्यद्भिश् च पावकैः
सवत्सचर्मास्तरणैः पर्यङ्कैश् चावरोपितैः ॥
तोयम् उत्तारयन्तीभिः प्रोक्षन्तीभिश् च तद्वनम्
शाखाश् चाकर्षमाणाभिर् गोपीभिश् च समन्ततः ॥
युवभिः स्थविरैश् चैव गोपैर् व्यग्रकरैर् भृशम्
विशसद्भिः कुठारैश् च काष्ठान्य् अपि तरून् अपि ॥
तद् व्रजस्थानम् अधिकं चकाशे काननावृतम्
रम्यं वननिवेशं वै स्वभिवृष्ट्यामृतोपमम् ॥
तास् तु कामदुघा गावः सर्वकालतृणं वनम्
वृन्दावनम् अनुप्राप्ता नन्दनोपमकाननम् ॥
पूर्वम् एव तु कृष्णेन गवां सत्कारकारिणा
शिवेन मनसा दृष्टं तद्वनं वनचारिणा ॥
पश्चिमे तु ततः पक्षे घर्ममासि निरामये
वर्षतीवामृतं देवे तृणं तत्रव्यवर्धत ॥
न तत्र वत्साः सीदन्ति न गावो नेतरे जनाः
यत्र तिष्ठति लोकानां भवाय मधुसूदनः ॥
तास् तु गावः स घोषश् च स च संकर्षणो युवा
कृष्णेन विहितं वासं तम् अध्यासन्त निर्वृताः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0