हरिवंश · अध्याय 52
एवं तौ बाल्यम् उत्तीर्णौ कृष्णसंकर्षल्णावुभौ
तस्मिन्न् एव व्रजस्थाने सप्तवर्षौ बभूवतुः ॥
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ
बभूवतुर् वत्सपालौ काकपक्षधराव् उभौ ॥
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ
गोपवीथ्यां सुमधुरं गायन्तौ कामरूपिणौ ।
शुशुभाते वनगतौ त्रिशीर्षाव् इव पन्नगौ ॥
मयूराङ्गदबाहू तौ बल्लवापीडधारिणौ
वनमालाकृतोरस्कौ द्रुमपोताव् इवोद्गतौ ॥
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ
सशिक्यतुम्बकरकौ गोपवेणौप्रवादकौ ॥
क्वचिद् धसन्ताव् अन्योन्यं क्रीडमानौ क्वचित् क्वचित्
दध्योदनं प्रभुञ्जानौ क्वचित् कक्षविलम्बितम् ।
क्वचिच् च पानसंभ्रान्तौ क्वचित् पायसमोदितौ ।
क्वचिद् वृक्षेषु विश्रान्तौ स्थलीष्व् इव यथासुखम् ।
पर्णशय्यासु संसुप्तौ क्वचिन् निद्रान्तरैषिणौ ॥
एवं वत्सान् पालयन्तौ शोभयन्तौ महावनम्
एवं तु वत्सपालौ तौ शोभयाम् आसतुर् वनम् ।
चञ्चूर्यन्तौ रमन्तौ स्म किशोराव् इव चञ्चलौ ॥
अथ दामोदरः श्रीमान् संकर्षणम् उवाच ह
आर्य नास्मिन् वने शक्यं गोपालैः सह क्रीडितुम् ॥
अवगीतम् इदं सर्वम् आवाभ्यां भुक्तभोजनम्
प्रक्षीणतृणकाष्ठं च गोपैर् मथितपादपम् ॥
गहनानीह यान्य् आसन् काननानि वनानि च
तान्य् आकाशनिकाशानि दृश्यन्ते ऽद्य यथासुखम् ॥
गोवातेष्व् अपि ये वृक्षाः परिवृत्तार्गलेषु च
सर्वे गोष्ठाग्निषु गताः क्षयम् अक्षयवर्चसः ॥
संनिकृष्टानि यान्य् आसन् काष्ठानि च तृणानि च
तानि दूरावकृष्टानि मार्गितव्यानि भूमिषु ॥
अरण्यम् इदम् अल्पोदम् अल्पकक्षं निराश्रयम्
अन्वेषितव्यविश्रामं दारुणं विरलद्रुमम्
अकर्मण्येषु वृक्षेषु स्थितविप्रस्थितद्विजम् ॥
निरानन्दं निरास्वादं निष्प्रयोजनम् आरुतम्
निर्विहंगम् इदं शून्यं निर्व्यञ्जनम् इवाशनम् ॥
विक्रीयमाणैः कष्ठैश् च शाकैश् च वनसंभवैः
उत्सन्नसंचयतृणो घोषो ऽयं नगरायते ॥
शैलानां भूषणं घोषो घोषाणां भूषणं वनम्
वनानां भूषणं गावस् ताश् चास्माकं परा गतिः ।
तस्माद् अन्यद् वनं यामः प्रत्यग्रवयसेन्धनम् ॥
इच्छन्त्य् अनुपभुक्तानि भोक्तुं गावस् तृणानि च
तस्माद् वनं नवतृणं गच्छन्तु धनिनो व्रजाः ॥
न द्वारबन्धावरणा न गृहक्षेत्रिणस् तथा
प्रशस्ता वै व्रजा लोके यथा वै चक्रचारिणः ॥
शकृन्मूत्रेषु तेष्व् एव जातं क्षाररसायनम्
न तृणं भुञ्जते गावो नापि तत्पयसो हितम् ॥
स्थलीप्रायासु रम्यासु नवासु वनराजिषु
चरामः सहिता गोभिः क्षिप्रं संवाह्यतां व्रजः ॥
श्रूयते हि वनं रम्यं पर्याप्ततृणसंस्तरम्
नाम्ना वृन्दावनं नाम स्वादुवृक्षफलोदकम् ॥
अझिल्लिकण्टकवनं सर्वैर् वनगुणैर् युतम्
कदम्बपादपप्रायं यमुनातीरसंश्रितम् ॥
स्निग्धशीतानिलवनं सर्वर्तुनिलयं शुभम्
गोपीनां सुखसंचारं चारुचित्रवनान्तरम् ॥
तस्य गोवर्धनो नाम नातिदूरे गिरिर् महान्
भ्राजते दीर्घशिखरो नन्दनस्येव मन्दरः ॥
मध्ये चास्य महाशाखो न्यग्रोधो योजनोच्छ्रितः
भाण्डीरो नाम शुशुभे नीलमेघ इवाम्बरे ॥
मध्येन चास्य कालिन्दी सीमन्तमिव कुर्वती
प्रयाता नन्दनस्येव नलिनी सरितां वरा ॥
तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम्
कालिन्दीं च नदीं रम्यां द्रक्ष्यावश् चरतः सुखम् ॥
तत्रायं वसतां घोषस् त्यज्यतां निर्गुणं वनम्
संवाहयाम भद्रं ते किंचिद् उत्पाद्य कारणम् ॥
एवं कथयतस् तस्य वासुदेवस्य धीमतः
प्रादुर्बभूवुः शतशो रक्तमांसवसाशनाः ॥
घोराश् चिन्तयतस् तस्य स्वतनूरुहजास् तदा
विनिष्पेतुर् भयकराः सर्वतः शतशो वृकाः ॥
वृकान् निष्पतितान् दृष्ट्वा गोषु वत्सेष्व् अथो नृषु
गोपीषु च यथाकामं व्रजे त्रासो ऽभवन् महान् ॥
ते वृकाः पन्चबद्धाश् च दशबद्धास् तथापरे
त्रिंशद्विंशतिबद्धाश् च शतबद्धास् तथापरे ॥
निश्चेरुस् तस्य गात्राद् धि श्रीवत्सकृतलक्षणाः
कृष्णस्य कृष्णवदना गोपानां भयवर्धनाः ॥
भक्षयद्भिश् च तैर् वत्सांस् त्रासयद्भिश् च गोव्रजान्
निशि बालान् हरद्भिश् च वृकैर् उत्साद्यते व्रजः ॥
न वनं शक्यते गन्तुं न गाश् च परिरक्षितुम्
न वनात् किंचिद् आहर्तुं न च वा तरितुं नदीम् ॥
एवं वृकैर् उदीर्णैस् तु व्याघ्रतिल्यपराक्रमैः
व्रजो निष्पन्दचेष्टः स एकस्थानचरः कृतः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0