भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 51

51.1

काले गच्छति सौम्यौ तौ दारकौ कृतनामकौ
पञ्च संवत्सरान् प्राप्तौ शोभयानौ व्रजं मुहुः ।
कृष्णसंकर्षणौ चोभौ रिङ्गिनौ समपद्यताम् ॥

51.2

ताव् अन्योन्यगतौ बालौ बाल्याद् एवैकतां गतौ
एकमन्त्रधरौ कान्तौ बालचन्द्रार्कवर्चसौ ॥

51.3

एकनिर्माणनिर्युक्ताव् एकशय्यासनाशनौ
एकवेषधराव् एकं पुष्यमाणौ शिशुव्रतम् ॥

51.4

एककार्यान्तरगताव् एकदेहौ द्विधा कृतौ
एकचर्यौ महावीर्याव् एकस्य शिशुतां गतौ ॥

51.5

एकप्रमाणौ लोकानां देववृत्तान्तमानुषौ
कृत्स्नस्य जगतो गोपौ संवृत्तौ गोपदारकौ ॥

51.6

अन्योन्यव्यतिषक्ताभिः क्रीडाभिर् अभिशोभितौ
अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याव् इवाम्बरे ॥

51.7

विसर्पन्तौ तु सर्वत्र सर्पभोगभुजाव् उभौ
रेजतुः पांशुदिग्धाङ्गौ दृप्तौ कलभकाव् इव ॥

51.8

क्वचिद् भस्मप्रदिग्धाङ्गौ करीषप्रोक्षितौ क्वचित्
तौ तत्र परिधावेतां कुमाराव् इव पावकी ॥

51.9

क्वचिज् जानुभिर् उद्धृष्टैः सर्पमाणौ विरेजतुः
क्रीडन्तौ वत्सशालासु शकृद्दिग्धाङ्गमूर्धजौ ॥

51.10

शुशुभाते श्रिया जुष्टाव् आनन्दजननौ पितुः
जनं च विप्र कुर्वाणौ हसन्तौ च क्वचित् क्वचित् ॥

51.11

तौ बालकौ ललितकौ मूर्धजव्याकुलेक्षणौ
रेजतुश् चन्द्रवदनौ दारकौ सुकुमारकौ ॥

51.12

अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ
नाशक्नुवद् वारयितुम् नन्दगोपः सुदुर्मदौ ॥

51.13

ततो यशोदा संक्रुद्धा कृष्णं कमललोचनम्
उवाच शिशुरूपेण चरन्तं जगतः प्रभुम् ।
एहि वत्स पिब स्तन्यं दुर्वोढुं मम संप्रति ॥
एतावन्तम् इतः कालं क्वा गतो ऽसि गृहाद् बहिः ।
इत्य् आदाय करे पुत्रं गृहान् निर्वास्य सा रुषा ।
आनाय्य शकटीमूलं भर्त्सयन्ती पुनः पुनः ॥

51.14

दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धद् उदूखले
यदि शक्नोषि गच्छेति तम् उक्त्वा कर्म साकरोत्
व्यग्रायाम् तु यशोदायाम् निर्जगाम ततो ऽङ्गणात् ॥

51.15

शिशुलीलां ततः कुर्वन् कृष्णो विस्मापयन् व्रजम्
सो ऽङ्गणान् निःसृतः कृष्णः कर्षमाण उदूखलम् ॥

51.16

स यमाभ्याम् प्रवृद्धाभ्याम् अर्जुनाभ्यां चरन् वने
निश्चक्राम शिशुर् मध्यात् कर्षमाण उदूखलम् ॥

51.17

तत् तस्य कर्षतो बद्धम् तिर्यग् गतम् उदूखलम्
लग्नं ताभ्यां समूलाभ्याम् अर्जुनाभ्यां चकर्ष ह ॥

51.18

ताव् अर्जुनौ कृष्यमाणौ तेन बालेन रंहसा
समूलविटपौ भग्नौ स तु मध्ये जहास वै ॥

51.19

निदर्शनार्थं गोपानां दिव्यं स्वबलम् आस्थितः
तद् दाम तस्य बालस्य प्रभावाद् अभवद् दृढम् ॥

51.20

यमुनातीरमार्गस्था गोप्यस् तं ददृशुः शिशुम्
क्रन्दन्त्यो विस्मयन्त्यश् च यशोदानिकटं ययुः ॥

51.21

तास् तु संभ्रान्तवदना यशोदाम् ऊचुर् अङ्गनाः
एह्य् आगच्छ यशोदेति संभ्रमे किं विलम्बसे ॥

51.22

यौ ताव् अर्जुनवृक्षौ तु व्रजे सत्योपयाचितौ
ताव् एतौ तव पुत्रस्य पतिताव् उपरि द्रुमौ ।
पुत्रस्योपरि ताव् एतौ पतितौ ते महीरुहौ ॥

51.23

दृढेन दाम्ना तत्रैव बद्धो वत्स इवोदरे
जहास मध्ये वृक्षाभ्यां तव पुत्रः स बालकः ॥

51.24

उत्तिष्ठ गच्छ दुर्मेधे मूढे पण्डितमानिनि
पुत्रम् आनय जीवन्तुं मुक्तं मृत्युमुखाद् इव ॥

51.25

सा भीता सहसोत्थाय हाहाकारं प्रकुर्वती
तं देशम् अगमद् यत्र पतितौ तौ महाद्रुमौ ॥

51.26

ददर्श ताभ्यां सा मध्ये द्रुमाभ्याम् आत्मजं शिशुम्
दाम्ना निबद्धम् उदरे कर्षमाणम् उदूखलम् ॥

51.27

सगोपीगोपवृद्धश् च सयुवा च व्रजस् तदा
पर्यगच्छत् ततो द्रष्टुं गोपेषु महद् अद्भुतम् ॥

51.28

जजल्पुस् ते यथाकामं गोपा वनविचारिणः
जजल्पुर् जातसंभ्रान्ता सर्वे विस्मितचेतसः ।
केनेमौ पातितौ वृक्षौ घोषस्यैवाग्रपादपौ ॥

51.29

विना वातं विना वर्षं विद्युत्प्रपतनं विना
विना हस्तिकृतं दोषम् केनेमौ पातितौ द्रुमौ ॥

51.30

अहो बत न शोभेतां विमूलाव् अर्जुनाव् इमौ
इमौ निपतितौ भूमौ वितोयौ जलदाव् इव ॥

51.31

नन्दगोप प्रसन्नौ ते द्रुमाव् एवंगताव् अपि
यत्र ते दारको मुक्तो विमूलाभ्याम् अविक्षतः ॥

51.32

औत्पातिकम् इदं घोषे तृतीयं वर्तते त्व् इह
पूतनाया निपातश् च द्रुमयोः शकटस्य च ॥

51.33

अस्मिन् स्थाने निवेशो ऽयं घोषस्यास्य न विद्यते
उत्पाता ह्य् अत्र दृश्यन्ते कथयन्तो नशोभनम् ॥

51.34

नन्दगोपस् तु सहसा मुक्त्वा कृष्णम् उदूखलात्
निवेश्य चाङ्के सुचिरं मृतं पुनर् इवागतम् ॥

51.35

ततो यशोदां गर्हन् वै नन्दगोपो विवेश ह
स च गोपजनः सर्वो घोषम् एव जगाम ह ॥

51.36

स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात्
येन दाम्ना निबद्धो ऽसाव् उदरे सुदृढं व्रजे ।
घोषे दामोदर इति गोपीभिः परिगीयते ॥

51.37

एतद् आश्चर्यभूतं हि बालस्यासीद् विचेष्टितम्
कृष्णस्य भरतश्रेष्ठ घोषे निवसतस् तदा ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc