भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 50

50.1

तत्र तस्यासतः कालः सुमहान् अत्यवर्तत
गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वतः ॥

50.2

दारकौ कृतनामानौ ववृधाते सुखं च तौ
ज्येष्ठः संकर्षणो नाम यवीयान् कृष्ण एव तु ॥

50.3

मेघकृष्णस् तु कृष्णो ऽभूद् देहान्तरगतो हरिः
व्यवर्धत गवां मध्ये सागरस्य इवाम्बुदः ॥

50.4

शकटस्य त्व् अधः सुप्तं कदाचित् पुत्रगृद्धिनी
यशोदा तं समुत्सृज्य जगाम यमुनां नदीम् ॥

50.5

शिशुलीलां ततः कुर्वन् स्वहस्तचरणौ क्षिपन्
अङ्गुष्ठम् आस्ये निक्षिप्य पादाभ्यां परिचिक्षिपन् ।
हास्यं कुर्वञ् शिशुः कृष्णो नेत्राभ्यां परिविभ्रमन् ॥
करं करेण संपीड्य पादं पादेन पीडयन् ।
अनेकाभिः स लीलाभिर् लोकांस् तद्गतमानसान् ।
कल्मषं क्षालयन् विष्णुस् तद्गतासक्तचेतसाम् ।
रुरोद मधुरं कृष्णः पादाव् ऊर्ध्वं प्रसारयन् ॥

50.6

स तत्रैकेन पादेन शकटं पर्यवर्तयत्
अञ्जनेन परिक्षिप्तं मुखम् उन्नमयन् हरिः ।
न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च ॥

50.7

एतस्मिन्न् अन्तरे प्राप्ता यशोदा शीघ्रगामिनी
स्नाता प्रस्नवदिग्धाङ्गी बद्धवत्सेव सौरभी ॥

50.8

सा ददर्श विपर्यस्तं शकटं वायुना विना
हाहेति कृत्वा त्वरिता दारकं जगृहे तदा ॥

50.9

न सा बुबोध तत् तेन शकटं परिवर्तितम्
स्वस्ति मे दारकायेति प्रीत्या भीता च साभवत् ॥

50.10

किं नु वक्ष्यति ते पुत्र पिता परमकोपनः
त्वय्य् अधः शकटे सुप्ते शकटे च विलोडिते ॥

50.11

किं मे स्नानेन दुःस्नानं किं च मे गमने नदीम्
पर्यस्ते शकटे पुत्र या त्वा पश्याम्य् अपावृतम् ॥

50.12

एतस्मिन्न् अन्तरे गोभिर् आजगाम वनेचरः
काषाये वाससी बिभ्रन् नन्दगोपो व्रजान्तिकम् ॥

50.13

स ददर्श विपर्यस्तं भिन्नभाण्डघटीघटम्
अपास्तधूर्विभग्नाक्षं शकटं चक्रमालि वै ॥

50.14

भीतस् त्वरितम् आगम्य सहसा साश्रुलोचनः
अपि मे स्वस्ति पुत्रायेत्य् असकृद् वचनं वदन् ॥

50.15

पिबन्तं स्तनम् आलक्ष्य पुत्रं स्वस्थो ऽब्रवीत् पुनः
वृषयुद्धं विना केन पर्यस्तं शकटं मम ॥

50.16

प्रत्युवाच यशोदा तं भीता गद्गदभाषिणी
न विजानाम्य् अहं केन शकटं पातितं भुवि ॥

50.17

अहं गता नदीम् आर्य चैलप्रक्षालनार्थिनी
आगता च विपर्यस्तम् अपश्यं शकटं भुवि ॥

50.18

तयोः कथयतोर् एवम् अब्रुवंस् तत्र दारकाः
अनेन शिशुना यानम् एतत् पादेन पातितम्
अस्माभिः संपतद्भिस् तु दृष्टम् एतद् यदृच्छया ॥

50.19

आश्चर्यम् इति ते सर्वे विस्मयोत्फुल्ललोचनाः
स्वस्थाने शकटं चैव चक्रबन्धम् अकारयन् ॥

50.20

धात्री कंसस्य भोजस्य पूतनेति परिश्रुता
पूतना नाम शकुनी थोरा प्राणभयंकरी ।
आजगामार्धरात्रे वै पक्षौ क्रोधाद् विधुन्वती ।
तस्मै स्तनं दुर्जरवीर्यम् उल्बणं ।
घोराङ्कम् आदाय शिशोर् ददाव् अथ ।
गाढं कराभ्यां भगवान् प्रपीड्य ।
प्राणैः समं रोषसमन्वितो ऽपिबत् ॥
सा मुञ्च मुञ्च बालम् इति प्रभाषिणी ।
निष्पीड्यमानाखिलजीवमर्मणि ।
विवृत्य नेत्रे चरणौ भुजौ मुहुर् ।
विक्लिन्नगात्रा क्षिपती रुरोद ह ॥
तस्याः स्वनेनातिगभीररंहसा ।
साद्रिर् मही द्यौश् च चचाल सग्रहा ।
रसा दिशश् च प्रतिनेदिरे जनाः ।
पेतुः क्षितौ वज्रनिपातशङ्कया ॥
निशाचरीत्थं व्यथितस्तना व्यसुर् ।
विस्तार्य केशांश् चरणौ भुजाव् अपि ।
प्रसार्य गोष्ठे निजरूपम् आश्रिता ।
वज्राहतो वृत्र इवापतन् नृप ॥
पतमानो ऽपि तद्देहस् त्रिगव्यूत्यन्तरद्रुमान् ।
चूर्णयाम् आस राजेन्द्र महद् आसीत् तद् अद्भुतम् ॥
ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम् ।
गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ।
अन्धकूपगभीराक्षं पुलिनारोहभीषणम् ।
बद्धसेतुभुजोर्वङ्घ्रि शून्यतोयह्रदोदरम् ।
बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम् ।
गोप्यस् तूर्णं समभ्येत्य जगृहुर् जातसंभ्रमाः ॥
यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः ।
रक्षाम् विदधिरे सम्यग् गोपुच्छभ्रमणादिभिः ॥
गोमूत्रेण स्नापयित्वा पुनर् गोरजसार्भकम् ।
रक्षां चक्रुश् च शकृता द्वादशाङ्गेषु नामभिः ।
ततो ऽर्धरात्रसमये शकुनिः प्रत्यदृश्यत ॥

50.21

व्याघ्रगम्भीरनिर्घोषा व्याहरन्ती पुनः पुनः
निलिल्ये शकटाक्षे सा प्रस्नवोत्पीडवर्षिणी ॥

50.22

ददौ स्तनं च कृष्णाय तत्र सुप्तजने निशि
तस्याः स्तनं पपौ कृष्णः प्राणैः सह ननाद च ॥

50.23

तेन शब्देन वित्रस्तास् ततो बुबुधिरे जनाः
स नन्दगोपो गोपाश् च यशोदा च सुविक्लवा ॥

50.24

ते ताम् अपश्यन् पतितां विसंज्ञां विपयोधराम्
शकुनिं निहतां भूमौ वज्रेणेव विदारिताम् ॥

50.25

इदं किं न्व् इति संत्रस्ताः कस्येदं कर्म चेति च
नन्दगोपं पुरस्कृत्य गोपास् तं पर्यवारयन् ॥

50.26

गतेषु तेषु गोपेषु विस्मितेषु यथागृहम्
यशोदां नन्दगोपस् तु पप्रच्छागतसंभ्रमः ॥

50.27

को ऽयं विधिर् न जानामि विस्मयो मे महान् अयम्
पुत्रस्य मे भयं भीरु भीरुत्वं समुपागतम् ॥

50.28

यशोदा त्व् अब्रवीद् भीता नार्य जानामि किं न्व् इदम्
दारकेण सहानेन सुप्ता शब्देन बोधिता ॥

50.29

यशोदायाम् अजानन्त्यां नन्दगोपः सबान्धवः
कंसाद् भयं चकारोग्रं विस्मयं च जगाम ह ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc