भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 49

49.1

प्राग् एव वसुदेवस् तु व्रजे शुश्राव रोहिणीम्
प्रजातां पुत्रम् एवाग्रे चन्द्रात् कान्ततराननम् ॥

49.2

स नन्दगोपं त्वरितः प्रोवाच शुभया गिरा
गच्छानया सह त्वं तु व्रजम् एव यशोदया ॥

49.3

तत्रेमौ दारकौ गत्वा जातकर्मादिभिर् गुणैः
योजयित्वा व्रजे तात संवर्धय यथासुखम्
रौहिणेयं च मे पुत्रं परिरक्ष शिशुं व्रजे ॥

49.4

बाल्ये केलिकिलः सर्वो बाल्ये मूर्च्छन्त्य् अमानुषाः
बाल्ये चण्डतमः सर्वस् तत्र यत्नपरो भव ॥

49.5

अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम्
यो ऽहम् एकस्य पुत्रस्य न पश्यामि शिशोर् मुखम् ॥

49.6

ह्रियते हि बलात् प्रज्ञा प्राज्ञस्यापि सतो मम
अस्माद् धि मे भयं कंसान् निर्घृणाद् वै शिशोर् वधे ॥

49.7

तद् यथा रौहिणेयं त्वं नन्दगोप ममात्मजम्
गोपायसि यथा तात तत्त्वान्वेषी तथा कुरु
विघ्ना हि बहवो लोके बालान् उत्त्रासयन्ति हि ॥

49.8

स च पुत्रो मम ज्यायान् कनीयांस् तव चाप्य् अयम्
उभाव् अपि समं प्रेम्णा निरीक्षस्व यथासुखम् ॥

49.9

वर्धमानाव् उभाव् एतौ समानवयसौ यथा
शोभेतां गोव्रजे तस्मिन् नन्दगोप तथा कुरु ॥

49.10

न च वृन्दावने कार्यो गवां घोषः कदाचन
तत्रासौ वसति क्रूरो मांसभोजी दुरात्मवान् ।
तत्र वासे तु भेतव्यं केशिनः पापदर्शिनः ॥

49.11

सरीसृपेभ्यः कीटेभ्यः शकुनिभ्यस् तथैव च
गोष्ठेषु गोभ्यो वत्सेभ्यो रक्ष्यौ ते द्वाव् इमौ शिशू ॥

49.12

नन्दगोप गता रात्रिः शीघ्रयानो व्रजाशुगः
इमे त्वां त्वरयन्तीह पक्षिणः सव्यदक्षिणाः ॥

49.13

रहिते वसुदेवेन सो ऽनुज्ञातो महात्मना
यानं यशोदया सार्धम् आरुरोह मुदा युतः ॥

49.14

कुमारं स्कन्धवाह्यायां शिविकायां समाहितः
शयने तं शिशुं चैव संवेश्य मृदुसंस्तरे ।
संवेशयामास शिशुं शयनीये महामतिः ॥

49.15

स जगाम विविक्तेन शीतानिलविसर्पिणा
बहूदकेन मार्गेन यमुनातीरशोभिना ॥

49.16

स ददर्श शिवे देशे गोवर्धननगोपगे
यमुनातीरसंबद्धं शीतमारुतसेवितम् ॥

49.17

विरतश्वापदं रम्यं लतावल्लीमहाद्रुमम्
गोभिस् तृणनिमग्नाभिः स्यन्दन्तीभिर् अलंकृतम् ॥

49.18

समप्रचारं च गवां समतीर्थजलाशयम्
विषाणस्कन्धघातैश् च वृषाणां घृष्टपादपम् ॥

49.19

भासामिपादानुसृतं श्येनैश् चामिषगृद्धिभिः
सृगालमृगसिंहैश् च वसामेदोशिभिर् वृतम् ॥

49.20

शार्दूलशब्दाभिरुतं नानापक्षिसमाकुलम्
स्वादुपुष्पफलं रम्यं पर्याप्ततृणसंस्तरम् ॥

49.21

गोव्रजं गोरुतशिवं गोपनारीभिर् आवृतम्
हम्भारवैश् च वत्सानां सर्वतः कृतनिस्वनम् ॥

49.22

सकटावर्तविपुलं कण्टकीवाटसंकुलम्
पर्यन्तेश्व् आवृतं वन्यैर् बृहद्भिः पतितैर् द्रुमैः ॥

49.23

वत्सानां रोपितैः कीलैर् दामभिश् च विभूषितम्
करीषाकीर्णवसुधं कटच्छन्नकुटीमठम् ॥

49.24

क्षमप्रचारबहुलं हृष्टपुष्टजनायुतम्
दामनीप्रायबहुलं गर्गरोद्गारनिस्वनम् ॥

49.25

तक्रनिस्रावबहुलं दधिमण्डार्द्रमृत्तिकम्
नवनीतपरिक्षिप्तम् आज्यगन्धविभूषितम् ।
मन्थानवलयोद्गारैर् गोपीनां जनितस्वनम् ॥

49.26

काकपक्षधरैर् बालैर् गोपालैः क्रीडितालयम्
दारकैर् दारिकाभिश् च परस्परसमाकुलम् ।
सार्गलद्वारगोवाटं मध्ये गोस्थानसंकुलम्
सर्पिषा पच्यमानेन सुरभीकृतमारुतम् ॥

49.27

नीलपीताम्बराभिश् च तरुणीभिः समन्ततः
वन्यपुष्पावतंसाभिर् गोपकन्याभिर् आवृतम् ॥

49.28

शिरसा धृतकुम्भाभिर् बद्धैर् उद्ग्रथिताम्बरैः
यमुनातीरमार्गेण जलहारीभिर् आवृतम् ॥

49.29

स तत्र प्रविशन् हृष्टो गोव्रजं गोपनादितम्
प्रत्युद्गतो गोपवृद्धैः स्त्रीभिर् वृद्धाभिर् एव च
निवेशं रोचयामास परिवर्ते सुखाश्रये ॥

49.30

सा यत्र रोहिणी देवी वसुदेवसुखावहा
तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc