भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 4

4.1

अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः
ततः क्रमेण राज्यानि व्यादेष्टुम् उपचक्रमे ॥

4.2

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस् तथा
यज्ञानां तपसां चैव सोमं राज्ये ऽभ्यषेचयत् ॥

4.3

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम्
बृहस्पतिं तु विश्वेषां ददाव् आङ्गिरसं पतिम् ॥
भृगूणाम् अधिपं चैव काव्यं राज्ये ऽभिषेचयत् ।
आदित्यानां तथा विष्णुं वसूनाम् अथ पावकम् ॥

4.4

प्रजापतीनां दक्षं तु मरुताम् अथ वासवम्
दैत्यानां दानवानां च प्रह्लादम् अमितौजसम् ॥

4.5

वैवस्वतं पितॄणां च यमं राज्ये ऽभ्यषेचयत्
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ।
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥

4.6

सर्वभूतपिशाचानाम् गिरीशं शूलपाणिनम्
शैलानां हिमवन्तं च नदीनाम् अथ सागरम् ॥

4.7

गन्धर्वाणाम् अधिपतिं चक्रे चित्ररथं प्रभुः
नागानां वासुकिं चक्रे सर्पाणाम् अथ तक्षकम् ॥

4.8

वारणानां च राजानम् ऐरावतम् अथादिशत्
उच्चैःश्रवसम् अश्वानां गरुडं चैव पक्षिणाम् ॥

4.9

मृगाणाम् अथ शार्दूलं गोवृषं तु गवाम् अपि
वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत् ॥

4.10

एवं विभज्य राज्यानि क्रमेण स पितामहः
दिशां पालान् अथ ततः स्थापयामास भारत ॥

4.11

पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः
दिशापालं सुधन्वानं राजानं सो ऽभ्यषेचयत् ॥

4.12

दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः
पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत् ॥

4.13

पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम्
केतुमन्तं महात्मानं राजानं सो ऽभ्यषेचयत् ॥

4.14

तथा हिरण्यलोमानं पर्जन्यस्य प्रजापतेः
उदीच्यां दिशि दुर्धर्षं राजानं सो ऽभ्यषेचयत् ॥

4.15

तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना
सशैलवनकानना ।
ससागरा च ससरित् ।
यथाप्रदेशम् अद्यापि धर्मेण परिपाल्यते ॥

4.16

राजसूयाभिषिक्तश् च पृथुर् एभिर् नराधिपैः
वेददृष्टेन विधिना राजराज्येन राजभिः ॥

4.17

ततो मन्वन्तरे ऽतीते चाक्षुषे ऽमिततेजसि
वैवस्वताय मनवे पृथिवीराज्यम् आदिशत् ॥

4.18

तस्य विस्तरम् आख्यास्ये मनोर् वैवस्वतस्य ह
तवानुकूल्याद् राजेन्द्र यदि शुश्रूषसे ऽनघ
महद्द् ह्य् एतद् अधिष्ठानं पुराणे परिनिष्ठितम् ॥

4.19

विस्तरेण पृथोर् जन्म वैशम्पायन कीर्तय
यथा महात्मना तेन दुग्धा चेयं वसुंधरा ॥

4.20

यथा च पितृभिर् दुग्धा यथा देवैर् यथ र्षिभिः
यथा दैत्यैश् च नागैश् च यथा यक्षैर् यथा द्रुमैः ॥

4.21

तेषां पात्रविशेषांश् च वैशंपायन कीर्तय
वत्सान् क्षीरविशेषांश् च सर्वम् एवानुपूर्वशः ॥

4.22

यस्मिंश् च कारणे पाणिर् वेनस्य मथितः पुरा
क्रुद्धैर् महर्षिभिस् तात कारणं तच् च कीर्तय ॥

4.23

हन्त ते कथयिष्यामि पृथोर् वैन्यस्य संभवम्
एकाग्रः प्रयतश् चैव शुश्रूषुर् जनमेजय ॥

4.24

नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य वा
कीर्तयेयम् अहं राजन् कृतघ्नस्याहितस्य वा ॥

4.25

स्वर्ग्यं यशस्यम् आयुष्यं धन्यं वेदेन संमितम्
रहस्यम् ऋषिभिः प्रोक्तं शृणु राजन् यथातथम् ॥

4.26

यश् चैनं कीर्तयेन् नित्यं पृथोर् वैन्यस्य संभवम्
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc