हरिवंश · अध्याय 48
कृते गर्भविधाने तु देवकी देवतोपमा
जग्राह सप्त तान् गर्भान् यथावत् समुदाहृतान् ॥
षड्गर्भान् निःसृतान् कंसस् ताञ् जघान शिलातले
आपन्नं सप्तमं गर्भं सा निनायाथ रोहिणीम् ॥
सार्धरात्रे स्थितं गर्भं शातयन्ती रजस्वला
निद्रया सहसाविष्टा पपात धरणीतले ॥
सा स्वप्नम् इव तं दृष्ट्वा गर्भं निःसृतम् आत्मनः
अपश्यन्ती च तं गर्भं मुहूर्तं व्यथिताभवत् ॥
ताम् आह निद्रा संविग्नां नैशे तमसि रोहिणीम्
रोहिणीम् इव सोमस्य वसुदेवस्य रोहिणीम् ॥
कर्सणेनास्य गर्भस्य स्वगर्भे चाहितस्य वै
संकर्षणो नाम शुभे तव पुत्रो भविष्यति ॥
सा तं पुत्रम् अवाप्यैव हृष्टा किंचिद् अवाङ्मुखी
विवेश रोहिणी वेश्म सुप्रभा रोहिणी यथा ॥
तस्य गर्भस्य मार्गेण गर्भम् आधत्त देवकी
यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः ॥
तं तु गर्भं प्रयत्नेन ररक्षुर् तस्य रक्षिणः
जाग्रतः प्रयताः सर्वे मासान् संख्याय शस्त्रिणः ।
स तत्र गर्भवसतिं वसत्य् आत्मेच्छया हरिः ॥
यशोदापि समाधत्त गर्भं तदहर् एव तु
विष्णोः शरीरजां निद्रां विष्णोर् निर्देशकारिणीम् ॥
गर्भकाले त्व् असंपूर्णे अष्टमे मासि ते स्त्रियौ
देवकी च यशोदा च सुषुवाते समं तदा ॥
याम् एव रजनीं कृष्णो जज्ञे वृष्णिकुले प्रभुः
ताम् एव रजनीं कन्यां यशोदापि व्यजायत
नन्दगोपस्य भार्या वै कंसगोपस्य संमता ॥
तुल्यकालं हि गर्भिण्यौ यशोदा देवकी तथा
अष्टम्यां श्रावणे मासे कृष्णपक्षे महातिथौ ।
रोहिण्याम् अर्धरात्रे च सुधांशोर् उदये तथा ।
देवक्य् अजनयद् विष्णुं यशोदा तां तु कन्यकाम्
मुहूर्ते ऽभिजिते प्राप्ते सार्धरात्रे विभूषिते ॥
सागराः समकम्पन्त चेलुश् च धरणीधराः
जज्वलुश् चाग्नयः शान्ता जायमाने जनार्दने ॥
शिवाः संप्रववुर् वाताः प्रशान्तम् अभवद् रजः
ज्योतींसि च प्रकाशन्त जायमाने जनार्दने ॥
अनाहता दुंदुभयो देवानां प्राणदन् दिवि
आकाशात् पुष्पवर्षं च ववर्ष त्रिदिवेश्वरः ॥
गीर्भिर् मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम्
अर्थ्याभिर् गीर्भिर् एवं तं जायमानं जनार्दनम् ।
महर्षयः सगन्धर्वा उपतस्थुः सहाप्सराः ॥
वसुदेवस् तु संगृह्य दारकं क्षिप्रम् एव तु
शयानम् अङ्के देवक्या रात्राव् आदाय यादवः ।
यशोदाया गृहं भीतो विवेश सुतवत्सलः ॥
यशोदायास् त्व् अविज्ञातं तत्र निक्षिप्य दारकम्
गृह्य तां दारिकां चापि देवकीशयने ऽन्यसत् ॥
परिवर्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः
वसुदेवः कृतार्थो वै निर्जगाम निवेशनात् ॥
उग्रसेनसुतायाथ कंसायानकदुंदुभिः
निवेदयाम्_आस तदा कन्यां तां वरवर्णिनीम् ॥
तच् छ्रुत्वा त्वरितः कंसो रक्षिभिः सह वेगितः
आजगाम गृहद्वारं वसुदेवस्य वीर्यवान् ॥
स तत्र त्वरितो द्वारि किं जातम् इति चाब्रवीत्
दीयतां शीघ्रम् इत्य् एवं वाग्भिः समभितर्जयत् ॥
ततो हाहाकृताः सर्वा देवकीप्रमुखाः स्त्रियः
उवाच देवकी दीना बाष्पविक्लवया गिरा ।
दारिका पुत्र जातेति कंसं तूवाच देवकी ॥
श्रीमन्तो मे हताः सप्त पुत्रगर्भास् त्वया विभो
दारिकेयं हतैवैषा पश्यस्व यदि मन्यसे ॥
दृष्ट्वा कंसस् तु तां कन्याम् अहृष्यत मुदा युतः
हतैवैषा यदा कन्या जातेत्य् उक्त्वा वृथामतिः ॥
सा गर्भशयने क्लिष्टा गर्भाम्बुक्लिन्नमूर्धजा
कंसस्य पुरतो न्यस्ता पृथिव्यां पृथिवीसमा ॥
पादे तां गृह्य पुरुषः समाविध्यावधूय च
उद्यच्छन्न् एव सहसा शिलायां समपोथयत्
सावधूता शिलापृष्ठे ऽनिष्पिष्टा दिवम् उत्पतत् ॥
हित्वा गर्भतनुं चापि सहसा मुक्तमूर्धजा
जगामाकाशम् आविश्य दिव्यस्रगनुलेपना
हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषिता ।
कन्यैव चाभवन् नित्यं दिव्या देवैर् अभिष्टुता ॥
नीलपीताम्बरधरा गजकुम्भोपमस्तनी
रथविस्तीर्णजघना चन्द्रवक्त्रा चतुर्भुजा ॥
विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा
पयोधरस्वनवती संध्येव सपयोधरा ॥
सा वै निशि तमोग्रस्ते बभौ भूतगणाकुले
नृत्यती हसती चैव विपरीतेन भास्वती ॥
विहायसगता रौद्रा पपौ पानम् अनुत्तमम्
जहास च महाहासं कंसं च रुषिताब्रवीत् ॥
कंस कंस विनाशाय यद् अहं घातिता त्वया
सहसा च समुत्क्षिप्य शिलायां विनिपातिता ॥
तस्मात् तवान्तकाले ऽहं कृष्यमाणस्य शत्रुणा
पाटयित्वा करैर् देहम् उष्णं पास्यामि शोणितम् ॥
एवम् उक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना
खं सा देवालयं देवी सगणा विचचार ह ॥
तस्यां गतायां कंसस् तु तां मेने मृत्युम् आत्मनः
विविक्ते देवकीं चैव व्रीडितः प्रत्यभाषत ॥
पितृष्वसः कृतो यत्नस् तव गर्भा हता मया
अन्यथैवान्यतो देवि मम मृत्युः समुत्थितः ॥
नैराश्येन कृतो यत्नः स्वजने प्रहृतं मया
दैवं पुरुषकारेण न चातिक्रान्तवान् अहम् ॥
त्यज गर्भकृतां चिन्तां त्वम् इमां शोककारिकाम्
हेतुभूतस् त्व् अहं तेषां सति कालविपर्यये ॥
काल एव नृणां शत्रुः कालश् च परिणामकः
कालो नयति सर्वं वै हेतुभूतश् च मद्विधः ॥
मा कार्षीः पुत्रजां चिन्तां विलापं शोकजं त्यज
एवंप्राया नृणां योनिर् नास्ति कालस्य संस्थितिः ॥
पतामि पादयोर् मूर्ध्ना पुत्रवत् तव देवकि
मद्गतस् त्यज्यतां रोषो जानाम्य् अपकृतं स्वयम् ॥
साश्रुपूर्णमुखी दीना भर्तारम् अभिवीक्षती
उत्तिष्ठोत्तिष्ठ वत्सेति कंसं मातेव जल्पती ॥
ममाग्रतो हता गर्भा ये त्वया कालरूपिणा
कारणं त्वं न वै पुत्र कृतान्तो ह्य् अत्र कारणम् ॥
गर्भकृन्तनम् एतन् मे सहनीयं त्वया कृतम्
मूर्ध्ना पद्भ्यां निपतता स्वं च कर्म जुगुप्सता ॥
गर्भे ऽपि नियतो मृत्युर् बाल्ये ऽपि न निवर्तते
युवापि मृत्योर् वशगः स्थविरो मृत एव तु ॥
अजाते दर्शनं नास्ति यथा नास्ति तथैव सः
जातो ऽप्य् अजाततां याति विधात्रा यत्र नीयते ॥
तद् गच्छ पुत्र मा ते भून् मद्गतं मन्युकारणम्
मृत्युनापहृते पूर्वं शेषो हेतुः प्रवर्तते ॥
विधिना पूर्वदृष्टेन प्रजासर्गेण तत्त्वतः
मातापित्रोस् तु कार्येण जन्मतस् तूपपद्यते ॥
निशम्य देवकीवाक्यं स कंसः स्वम् निवेशनम्
प्रविवेश सुसंरब्धो दह्यमानेन चेतसा ।
कृत्ये प्रतिहते दीनो जगाम विमना भृशम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0