हरिवंश · अध्याय 47
सो आज्ञापयत संरब्धः सचिवान् आत्मनो हितान्
यत्ता भवत सर्वे वै देवक्या गरभकृन्तने ॥
प्रथमाद् एव हन्तव्या गर्भास् ते सर्व एव हि
मूलाद् एव हि हन्तव्यः सो ऽनर्थो यत्र संशयः ॥
देवकी च गृहे गुप्ता प्रच्छन्नैर् अभिरक्षिता
स्वैरं चरतु विस्रब्धा मद्बलैर् यत्नम् आस्थितैः ॥
मासान् वै पुष्पमासादीन् गणयन्तु मम स्त्रियः
परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम् ॥
वसुदेवश् च संरक्ष्यः स्त्रीसनाथास्तु भूमिषु
अप्रमत्तैर् मम हितै रात्राव् अहनि चैव ह
स्त्रीभिर् वर्षवरैश् चैव वक्तव्यं न च कारणम् ॥
एष मानुषको यत्नो मानुषैर् एव साध्यते
श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते ॥
मन्त्रग्रामैः सुविहितैर् औषधैश् च सुयोजितैः
यत्नेन चानुकूलेन दैवम् अप्य् अनुवर्तते ॥
एवं स यत्नवान् कंसो देवकीगर्भकृन्तने
भयेन मन्त्रयाम् आस श्रुतार्थो नारदात् स वै ॥
एवं श्रुत्वा प्रयत्नं वै कंसस्यारिष्टसंज्ञितम्
श्रुत्वैव कंसराजस्य चेष्टितं जगतीपतिः ।
अन्तर्धानं गतो विष्णुश् चिन्तयाम् आस वीर्यवान् ॥
सप्तेमान् देवकीगर्भान् भोजपुत्रो वधिष्यति
अष्टमे च मया गर्भे कार्यम् आधानम् आत्मनः ॥
तस्य चिन्तयतस् त्व् एवं पातालम् अगमन् मनः
यत्र ते गर्भशयनाः षद्गर्भा नाम दानवाः ॥
विक्रान्तवपुषो दीप्तास् ते ऽमृतप्राशनोपमाः
अमरप्रतिमा युद्धे पुत्रा वै कालनेमिनः ॥
उपासां चक्रिरे दैत्याः पुरा लोकपितामहम्
तप्यमानास् तपस् तीव्रं जटामण्डलधारिणः ॥
तेषां प्रीतो ऽभवद् ब्रह्मा षद्गर्भाणां वरं ददौ
भो भो दानवशार्दूलास् तपसाहं सुतोषितः ।
ब्रूत वो यस्य यः कामः को वरो वः प्रदीयतां ॥
ते तु सर्वे समानार्था दैत्या ब्रह्माणम् अब्रुवन्
यदि नो भगवान् प्रीतः श्रूयतां नो वरो वरः ॥
अवध्याः स्याम भगवन् दैवतैः समहौरगैः
शापप्रहरणैश् चापि नियतैः परमर्षिभिः ॥
यक्षगन्धर्वपतिभिः सिद्धचारणमानवैः
मा भूद् वधो नो भगवन् ददासि यदि नो वरम् ॥
तान् उवाच ततो ब्रह्मा सुप्रीतेनान्तरात्मना
भवद्भिर् यद् इदं प्रोक्तं सर्वम् एतद् भविष्यति ॥
षड्गर्भाणां वरं दस्त्त्वा स्वयंभूस् त्रिदिवं गतः
ततो हिरण्यकशिपुः सरोषो वाक्यम् अब्रवीत् ॥
माम् उत्सृज्य वरो यस्माद् वृतो वः पद्मसंभवात्
तस्माद् वस् त्याजितः स्नेहः शत्रुभूतांस् त्यजाम्य् अहम् ॥
षड्गर्भा इति यो यं वः शब्दः पित्राभिवर्धितः
स एव वो गर्भगतान् पिता सर्वान् वधिष्यति ॥
षड् एव देवकीगर्भाः षद्गर्भा वै महासुराः
भविष्यन्ति ततः कंसो गर्भस्थान् वो वधिष्यति ॥
जगामाथ ततो विष्णुः पातालं यत्र ते शुराः
षड्गर्भाः संयताः सन्ति जलगर्भगृहेशयाः ॥
स ददर्श जले सुप्तान् षड्गर्भान् गर्भसंस्थितान्
निद्रया कालरूपिण्या सर्वान् अन्तर्हितान् इव ॥
स्वप्नरूपेण तेषां वै विष्णुर् देहान् अथाविशत्
प्राणेश्वरांश् च निष्कृष्य निद्रायै प्रददौ तदा ॥
तां चोवाच तदा निद्रां विष्णुः सत्यपराक्रमः
गच्छ निद्रे मयोत्सृष्टा देवकीभवनान्तिकम् ॥
इमान् प्राणेश्वरान् गृह्य षड्गर्भान् नाम देहिनः
षड्गर्भान् दानवोत्तमान् ।
सर्वप्राणेश्वरी चैव ।
षट्सु गर्भेषु देवक्या योजयस्व यथाक्रमम् ॥
जातेष्व् एतेषु गर्भेषु नीतेषु च यमक्षयम्
कंसस्य विफले यत्ने देवक्याः सफले श्रमे ॥
प्रसादं ते करिष्यामि मत्प्रसादसमं भुवि
येन सर्वस्य लोकस्य देवि देवी भवीष्यसि ॥
सप्तमो देवकीगर्भो यो ऽंशः सौम्यो ममाग्रजः
स संक्रामयितव्यस् ते सप्तमे मासि रोहिणीम् ॥
संकर्षणात् तु गर्भस्य स तु संकर्षणो युवा
भविष्यत्य् अग्रजो भ्राता मम शीतांशुदर्शनः ॥
पतितो देवकीगर्भः सप्तमो ऽयं भयाद् इति
अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति ॥
या तु सा नन्दगोपस्य दयिता कंसगोपतेः
यशोदा नाम भद्रं ते भार्या गोपकुलोद्वहा ॥
तस्यास् त्वं नवमो ऽस्माकं कुले गर्भो भविष्यसि
नवम्याम् एव संजातो कृष्णपक्षस्य वै तिथौ ॥
अहं त्व् अभिजितो योगे निशाया यौवने गते
अर्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम् ॥
अष्टमस्य तु मासस्य जाताव् आवां ततः समम्
प्राप्स्यावो गरभव्यत्यासं प्राप्ते कंसस्य शसने ॥
अहं यशोदां यास्यामि त्वं देवि भज देवकीम्
आवयोर् गर्भव्यत्यासे कंसो गच्छतु मूढताम् ॥
ततस् त्वां गृह्य चरणे शिलायां निरसिष्यति
ततस् तद्धस्तविभ्रष्टा मद्योगाद् भविता शुभा ।
निरस्यमाना गगने स्थानं प्राप्स्यसि शाश्वतम् ॥
मच्छवीसदृशी कृष्णा संकर्षणसमानना
बिभ्रती विपुलान् बाहून् मम बाहूपमान् भुवि ॥
त्रिशिखं शूलम् उद्यम्य खड्गं च कनकत्सरुम्
पात्रीं च पूर्णां मधुनः पङ्कजं च सुनिर्मलम् ॥
वसाना मेचकं क्षौमं पीतेनोत्तरवाससा
शशिरश्मिप्रकाशेन हारेणोरसि राजता ॥
दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता
चन्द्रसापत्न्यभूतेन त्वं मुखेन विराजिता ॥
मुकुटेन त्रिचक्रेण केशबन्धेन शोभिता
भुजगाभोगनिर्घोषैर् बाहुभिः परिघोपमैः ॥
ध्वजेन शिखिबर्हाणाम् उच्छ्रितेन समीपतः
अङ्गजेन मयूराणाम् अङ्गदेन च भास्वता ॥
कीर्णा भूतगणैर् घोरैर् मन्निदेशानुवर्तिनी
कौमारं व्रतम् आस्थाय अत्रिदिवं त्वं गमिष्यसि ॥
तत्र त्वां शतदृक् शक्रो मत्प्रदिष्टेन कर्मणा
अभिषेकेण दिव्येन दैवतैः सह योक्ष्यते ॥
तत्रैव त्वां भगिन्यर्थे ग्रहिष्यति स वासवः
कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि ॥
स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम्
ततः स्थानसहस्रेऐस् त्वं पृथिवीं शोभयिष्यसि ॥
ततः सुम्भनिसुम्भौ अ दानवौ नगचार्तिणौ
तौ च कृत्वा मनसि मां सानुगौ नाशयिष्यसि ॥
त्रैलोक्यचारिणी सा त्वं भुवि सत्योपयाचिता
भविष्यसि महाभागे वरदा कामरूपिणी ॥
कृतानुयात्रा भूतैस् त्वं नित्यं मांसबलिप्रिया
तिथौ नवम्यां पूजां च प्राप्स्यसे सपशुक्रियाम् ॥
ये च त्वां मत्प्रभावज्ञाः प्रणमिष्यन्ति मानवाः
न तेषां दुर्लभं किंचित् पुत्रतो धनतो ऽपि वा ॥
कान्तारेष्व् अवसन्नानां म्गनानां च महार्णवे
दस्युभिर् वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥
त्वं सिद्धिः श्रीर् धृतिः कीर्तिर् ह्रीर् विद्या संनतिर् मतिः
संध्या लक्ष्मीर् वपुर् मेधा कान्तिः श्रद्धा क्रिया गतिः ।
संध्या रात्रिः प्रभा निद्रा कालरात्रिस् तथैव च ॥
नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम्
व्याधिमृत्युभयं चैव पूजिता शमयिष्यसि ॥
मोहयित्वा च तं कंसम् एका त्वं भोक्ष्यसे जगत्
अहम् अप्य् आत्मनो वृत्तिं विधास्ये गोषु गोपवत् ।
स्ववृद्ध्यर्थम् अहं चैव करिष्ये कंसघातनम् ॥
एवं तु तां समादिश्य गतो ऽन्तर्धानम् ईश्वरः
सा चापि तं नमस्कृत्य तथास्त्व् इति विनिर्गता ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0