हरिवंश · अध्याय 45
नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः
प्रत्युवाच शुभं वाक्यं वरेण्यः प्रभुर् ईश्वरः ॥
त्रैलोक्यस्य हितार्थाय यन् मा वदसि नारद
तस्य सम्यक्प्रवृत्तस्य श्रूयताम् उत्तरं वचः ॥
विदिता देहिनो जाता मयैते भुवि दानवाः
यां यां तनुं समास्थाय दैत्यः पुष्यति विग्रहम् ॥
जानामि कंसं संभूतम् उग्रसेनसुतं भुवि
केशिनं चापि जानामि दैत्यं तुरगविग्रहम् ॥
हस्तिनं चोत्पलापीडं मल्लौ चाणूरमुष्टिकौ
अरिष्टं चैव जानामि दैत्यं वृषभरूपिणम् ॥
विदितो मे खरश् चैव प्रलम्बश् च महासुरः
सा च मे विदिता विप्र पूतना दुहिता बलेः ॥
कालियं चापि जानामि यमुनाह्रदगोचरम्
वैनतेयभयाद् विप्र सर्पम् अज्ञातरूपिणम् ॥
विदितो मे जरासंधः स्थितो मूर्ध्नि महीक्षिताम्
प्राग्ज्योतिषपुरे चापि नरकं साधु तर्कये ॥
मय्य् आसक्तां च जानामि भारतीं महतीं धुरम्
तच् च सर्वं विजानामि यथा स्थास्यन्ति ते नृपाः ॥
क्षयो भुवि मया दृष्टः शक्रलोके च सत्क्रिया
तेषां पुरुषदेहानाम् अपरावृत्तिवर्तिनाम् ॥
संप्रवेक्ष्याम्य् अहं योगम् आत्मनश् च परस्य च
संप्राप्य पार्थिवं लोकं मानुषत्वम् उपागतः ॥
कंसादींश् चापि तान् सर्वान् वधिष्यामि महासुरान्
तेन तेन विधानेन येन यः शान्तिम् एष्यति ॥
अनुप्रविश्य योगेन तास् ता हि गतयो मम
अमीषाम् अमरेन्द्राणां हन्तव्या रिपवो युधि ॥
जगत्यर्थे कृतो यो ऽयम् अंशोत्सर्गो महात्मभिः
सुरदेवर्षिगन्धर्वैर् एतच् चानुमतं मम ॥
विनिश्चयो हि प्राग् एव नारदायं कृतो मया
निवासं तु न मे ब्रह्मा विदधाति पितामहः ॥
यत्र देशे यथा जातो येन वेषेण वा वसन्
तान् अहं समरे हन्यां तन् मे ब्रूहि पितामह ॥
नारायणेमं सिद्धार्थम् उपायं शृणु मे विभो
भुवि यस् ते जनयिता जननी च भविष्यति ॥
यत्र वै त्वं महाबाहो जातः कुलकरो भुवि
यादवानां महद्वंशम् अखिलं धारयिष्यसि ॥
तांश् चासुरान् समुत्साद्य वंशं कृत्वात्मनो महत्
स्थापयिष्यसि मर्यादां नृणां तन् मे निशामय ॥
पुरा हि कश्यपो विष्णो वरुणस्य महात्मनः
जहार यज्ञिया गावः पयोदाश् च महामखे ॥
अदितिः सुरभिश् चोभे द्वे भार्ये कश्यपस्य तु
प्रदीयमाना गास् तास् तु नैच्छतां वरुणस्य वै ॥
ततो मां वरुणो ऽभ्येत्य प्रणम्य शिरसानतः
उवाच भगवन् गावो गुरुणा मे हृता इति ॥
कृतकार्यो हि गास् तास् तु नानुजानाति मे गुरुः
अन्ववर्तत भार्ये द्वे अदितिं सुरभिं तथा ॥
मम ता ह्य् अक्षया गावो दिव्याः कामदुघा विभो
चरन्ति सगारान् सर्वान् रक्षिताः स्वेन तेजसा ॥
कस् ता धर्षयितुं शक्तो मम गाः कश्यपाद् ऋते
अक्षयं याः क्षरन्त्य् अग्रं पयो देवामृतोपमम् ॥
प्रभुर् वा व्युत्थितो ब्रह्मन् गुरुर् वा यदि वेतरः
त्वया नियम्याः सर्वे वै त्वं हि नः परमा गतिः ॥
यदि प्रभवतां दण्डो लोके कार्यम् अजानताम्
न विद्यते लोकगुरो न स्युर् वै लोकसेतवः ॥
यथा वास्तु तथा वास्तु कर्तव्ये भगवान् प्रभुः
मम गावः प्रतीयन्तां ततो गन्तास्मि सागरम् ॥
यस् ते ऽत्मा देवता गावो या गावः स त्वम् अव्ययम्
लोकानां त्वत्प्रवृत्तानाम् एकं गोब्राह्मणं स्मृतम् ॥
त्रातव्याः प्रथमं गावस् त्रातास् त्रायन्ति ता द्विजान्
गोब्राह्मणपरित्राणात् परित्रातं जगद् भवेत् ॥
इत्य् अम्बुपतिना प्रोक्तो वरुणेनाहम् अच्युत
गवां कारणतत्त्वज्ञः कश्यपे शापम् उत्सृजम् ॥
येनांशेन हृता गावः कश्यपेन महात्मना
स तेनांशेन जगतीं गत्वा गोपत्वम् एष्यति ॥
या च सा सुरभिर् नाम यादितिश् च सुरारणिः
ते ऽप्य् उभे तस्य वै भार्ये सह तेनैव यास्यतः ॥
तद् अस्य कश्यपस्यांशस् तेजसा कश्यपोपमः
वसुदेव इति ख्यातो गोषु तिष्ठति भूतले ॥
गिरिर् गोवर्धनो नाम मथुरायास् त्व् अदूरतः
तत्रासौ गोषु निरतः कंसस्य करदायकः ॥
तस्य भार्याद्वयं चैव अदितिः सुरभिस् तथा
देवकी रोहिणी चैव वसुदेवस्य धीमतः ॥
तत्रावतर लोकानां भवाय मधुसूदन
जयाशीर्वचनैस् त्व् एते वर्धयन्ति दिवौकसः ॥
आत्मानम् आत्मना हि त्वम् अवतार्य महीतलम्
देवकीं रोहिणीं चैव गर्भाभ्यां परितोषय ॥
तत्र त्वं शिशुर् एवादौ गोपालकृतलक्षणः
वर्धयस्व महाबाहो पुरा त्रैविक्रमे यथा ॥
छादयित्वात्मनात्मानं मायया योगरूपया
गोपकन्यासहस्राणि रमयंश् चर मेदिनीम् ॥
गाश् च ते रक्षतो विष्णो वनानि परिधावतः
वनमालापरिक्षिप्तं धन्या द्रक्ष्यन्ति ते वपुः ॥
विष्णो पद्मपलाशाक्ष गोपालवसतिं गते
बाले त्वयि महाबाहो लोको बालत्वम् एष्यति ॥
त्वद्भक्ताः पुण्डरीकाक्ष तव चित्तवशानुगाः
गोषु गोपा भविष्यन्ति सहायाः सततं तव ।
वने चारयतो गास् तु गोष्ठांश् च परिधावतः
मज्जतो यमुनायां च रतिम् आप्स्यन्ति ते त्वयि ॥
जीवितं वसुदेवस्य भविष्यति सुजीवितम्
यस् त्वया तात इत्य् उक्तः पुत्र इत्य् एव वक्ष्यति ॥
अथ वा कस्य पुत्रत्वं गच्छेरन् यत्र कश्यपात्
का च धारयितुं शक्ता विष्णो त्वाम् अदितिं विना ॥
योगेनात्मसमुत्थेन त्वं गच्छ विजयाय वै
वयम् अप्य् आलयं स्वं गच्छामो मधुसूदन ॥
स देवान् अभ्यनुज्ञाय विविक्ते त्रिदिवालये
जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम् ॥
तत्रैव पार्वती नाम गुहा मेरोः सुदुर्गमा
त्रिभिस् तस्यैव विक्रान्तैर् नित्यं पर्वसु पूजिता ॥
पुराणं तत्र विन्यस्य देहं हरिर् उदारधीः
आत्मानं योजयाम् आस वसुदेवगृहे प्रभुः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0