हरिवंश · अध्याय 46
ज्ञात्वा विष्णुं क्षितिगतं भागांश् च त्रिदिवौकसाम्
विनाशशंसी कंसस्य नारदो मथुरां ययौ ॥
त्रिविष्टपाद् आपतितो मथुरोपवने स्थितः
प्रेषयाम् आस कंसस्य उग्रसेनसुतस्य वै ॥
स नारदस्यागमनं श्रुत्वा त्वरितविक्रमः
निर्गजामासुरः कंसः स्वपुर्याः पद्मलोचनः ॥
स ददर्शातिथिं श्लाघ्यं देवर्षिं वीतकल्मषम्
तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम् ॥
सो ऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि
आसनं चाग्निवर्णाभं विसृज्योपजहार वै ॥
निषसादासने तस्मिन् स वै शक्रसखो मुनिः
उवाच चोग्रसेनस्य सुतं परमकोपनम् ॥
पूजितो ऽहं त्वया वीर विधिदृष्टेन कर्मणा
गते त्व् एवं मम वचः श्रूयतां गृह्यतां च वै ॥
अनुसृत्य दिवो लोकान् अहं ब्रह्मपुरोगमान्
गतः सूर्यसखं तात विपुलं मेरुपर्वतम् ॥
सनन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम्
आप्लुतं मे सुतीर्थासु सरित्सु सह दैवतैः ॥
दिव्या त्रिधारा दृष्टा मे पुण्या त्रिपथगा नदी
दिव्यां त्रिपथगां दृष्ट्वा पुण्यां भागिरथीं नदीम् ।
दिव्या त्रिपथगा दृष्टा पुण्या भागीरथी नदी ।
स्मरणाद् एव सर्वेषाम् अंहसां या विभेदिनी ।
उपस्पृष्टं च तीर्थेषु दिव्येषु च यथाक्रमम् ॥
दृष्टं मे ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्
देवगन्धर्वनिर्घोषैर् अप्सरोभिश् च नादितम् ॥
सो ऽहं कदाचिद् देवानां समाजं मेरुमूर्धनि
संगृह्य वीणां संसक्ताम् अगच्छं ब्रह्मणः सभाम् ॥
सो ऽहं तत्र सितोष्णीषान् नानारत्नविभूषितान्
दिव्यासनगतान् देवान् अपश्यं सपितामहान् ॥
तत्र मनत्रयताम् एवं देवतानां मया श्रुतः
भवतः सानुगस्येह वधोपायः सुदारुणः ॥
तत्रैषा देवकी या ते मथुरायां पितृष्वसा
अस्या गर्भो ऽष्टमः कंस स ते मृत्युर् भविष्यति ॥
देवानां स तु सर्वस्वं त्रिदिवस्य गतिश् च सः
परं रहस्यं देवानां स ते मृत्युर् भविष्यति ॥
परतो ऽपि परस् त्व् एषां स्वयंभूश् च सवयंभुवाम्
ततस् ते तन् महद् भूतं दिव्यं न कथयाम्य् अहम् ॥
श्लाघ्यश् च स हि ते मृत्युर् भूतपूर्वश् च तं स्मर
यत्नश् च क्रियतां कंस गर्भस्थे यदि शक्यते ॥
एषा मे त्वद्गता प्रीतिर् इत्यर्थं चाहम् आगतः
भुज्यन्तां सर्वकामार्थाः स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ॥
इत्य् उक्त्वा नारदे याते तस्य वाक्यं विचिन्तयन्
जहासोच्चैस् ततः कंसः पकाशदशनश् चिरम् ॥
सस्मितं चेव प्रोवाच भृत्यानाम् अग्रतः स्थितः
हास्यः खलु स सत्त्वेषु नारदो न विशारदः ॥
नाहं भीषयितुं शक्यो देवैर् अपि सवासवैः
आहवस्थः शयानो वा प्रमतो मत्त एव वा ॥
यो ऽहं दोर्भ्याम् उदाराभ्यां क्षोभये ऽहं धराम् इमाम्
को ऽस्ति यो मानुषे लोके मां क्षोभयितुम् उत्सहेत् ॥
अद्यप्रभृति भूतानाम् एष देवानुवर्तिनाम्
नृपक्षिपशुसंघानां करोमि कदनं महत् ॥
आज्ञाप्यतां हयः केशी प्रलम्बो धेनुकस् तथा
अरिष्टो वृषभश् चैव पूतना कालियस् तथा ॥
अटध्वं प्ठिवीं कृत्स्नां यथेष्टं कामरूपिणः
प्रहरध्वं च सर्वेषु ये ऽस्माकं पक्षदूषकाः ॥
गर्भस्थानाम् अपि गतिर् विज्ञेया भुवि देहिनाम्
नारदेन हि गर्भेभ्यो भयं नः समुदाहृतम् ॥
भवन्तो हि यथाकामं मोदन्तां विगतज्वराः
मां च वो नाथम् आश्रित्य नास्ति देवकृतं भयम् ॥
स तु केलिकिलो विप्रो भेदशीलश् च नारदः
सुश्लिष्टान् अपि लोकेषु भेदयंल् लभते रतिम् ॥
कण्डूयमानः सततं लोकान् अटति चञ्चलः
घटयानो नरेन्द्राणां तन्त्रीवैराणि चैव ह ॥
एवं स विलपन्न् एव वाङ्मात्रेण तु केवलम्
विवेश कंसो भवनं दह्यमानेन चेतसा ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0