भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 44

44.1

कृतकार्ये गते काले जगत्यां च यथानयम्
अंशावतरणे वृत्ते सुराणां भारते कुले ॥

44.2

भागे ऽवतीर्णे धर्मस्य शक्रस्य पवनस्य च
अश्विनोर् देवभिषजोर् भागे वै भास्करस्य च ॥

44.3

पूर्वम् एवावनिगते भागे देवपुरोधसः
वसूनाम् अष्टमे भागे प्राग् एव धरणीं गते ॥

44.4

मृत्योर् भागे क्षितिगते कलेर् भागे तथैव च
भागे सोमस्य वह्नेश् च वरुणस्य च गां गते ॥

44.5

शंकरस्य गते भागे विश्वेषां च दिवौकसाम्
गन्धर्वोरगयक्षाणां भागांशेषु गतेष्व् अथ ॥

44.6

भागेष्व् एतेषु गगनाद् अवतीर्णेषु मेदिनीम्
तिष्ठन् नारायणस्यांशे नारदः प्रत्यदृष्यत ॥

44.7

ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः
सव्यापवृत्तं विपुलं जटामण्डलम् उद्वहन् ॥

44.8

चन्द्रांशुशुक्ले वसने वसानो रुक्मभूषणः
वीणां गृहीत्वा महतीं कक्षासक्तां सखीम् इव ॥

44.9

कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान्
दण्डी कमण्डलुधरः साक्षाच् छक्र इवापरः ॥

44.10

भेत्ता जगति गुह्यानां विग्रहाणां ग्रहोपमः
महर्षिर् विग्रहरुचिर् विद्वान् गान्धर्ववेदवित् ॥

44.11

वैरिकेलिकिलो विप्रो ब्राह्मः कलिर् इवापरः
गाता चतुर्णां वेदानाम् उद्गाता प्रथमर्त्विजाम् ॥

44.12

स नारदो ऽथ ब्रह्मर्षिर् ब्रह्मलोकचरो ऽव्ययः
स्थितो देवसभामध्ये संरब्धो विष्णुम् अब्रवीत् ॥

44.13

अंशावतरणं विष्णो यद् इदं त्रिदशैः कृतम्
क्षयाय पृथिवीन्द्राणां सर्वम् एतद् अकारणम् ॥

44.14

यद् एतत् पार्थिवं क्षत्रं स्थितं त्वयि विधीश्वर
नृनारायणयुक्तो ऽयं कार्यार्थः प्रतिभाति मे ॥

44.15

न युक्तं जानता देव त्वया तत्त्वार्थदर्शिना
देवदेव पृथिव्यर्थे प्रयोक्तुं कार्यम् ईदृशम् ॥

44.16

त्वं हि चक्षुष्मतां चक्षुः श्लाघ्यः प्रभवतां प्रभुः
श्रेष्ठो योगवतां योगी गतिर् गतिमताम् अपि ॥

44.17

देवभागान् गतान् दृष्ट्वा किं त्वं सर्वाग्रगो विभुः
वसुंधरायाः साह्यार्थम् अंशं स्वं नानुयुञ्जसे ॥

44.18

त्वया सनाथा देवांशास् त्वन्मयास् त्वत्प्रचोदिताः
जगत्यां संतरिष्यन्ति कार्यात् कार्यान्तरं गताः ॥

44.19

तद् अहं त्वरया विष्णो प्राप्तः सुरसभाम् इमाम्
तव संचोदनार्थं वै शृणु चाप्य् अत्र कारणम् ॥

44.20

ये त्वया निहता दैत्याः संग्रामे तारकामये
तेषां शृणु गतिं विष्णो ये गताः पृथिवीतलम् ॥

44.21

पूः पृथिव्यां समुदिता मथुरा नाम नामतः
निविष्टा यमुनातीरे स्फीता जनपदायुता ॥

44.22

मधुर् नाम महान् आसीद् दानवो युधि दुर्जयः
तस्य स्म सुमहर्द्ध्यासीन् महापादपसंततम्
घोरं मधुवनं नाम यत्रासौ न्यवसत् तदा ॥

44.23

तस्य पुत्रो महान् आसील् लवणो नाम दानवः
लवणस् तस्य पुत्रो ऽभून् महाबलपराक्रमः ।
त्रासनः सर्वभूतानां बले महति तस्थिवान् ॥

44.24

स तत्र दानवः क्रीडन् वर्षपूगान् अनेकशः
सदैवतगणांल् लोकान् उद्वासयति दर्पितः ॥

44.25

अयोध्यायाम् अयोध्यायां रामे दाशरथौ स्थिते
राज्यं शासति धर्मज्ञे राक्षसानां भयावहे ॥

44.26

स दानवो बलश्लाघी घोरं वनम् उपाश्रितः
प्रेषयाम् आस रामाय दूतं परुषवादिनम् ॥

44.27

विषयासन्नभूतो ऽस्मि तव राम रिपुश् च सः
न च सामन्तम् इच्छन्ति राजानो बलदर्पितम् ॥

44.28

राज्ञा राजव्रतस्थेन प्रजानां शुभम् इच्छता
जेतव्या रिपवः सर्वे स्फीतं विषयम् इच्छता ॥

44.29

अभिषेकार्द्रकेशेन राज्ञा रञ्जनकाम्यया
जेतव्यानीन्द्रियाण्य् आदौ तज् जये हि ध्रुवो जयः ॥

44.30

सम्यग्वर्तितुकामस्य विशेषेण महीपतेः
नयानाम् उपदेशेन नास्ति लोकसमो गुरुः ॥

44.31

व्यसनेषु जघन्यस्य धर्ममध्यस्य धीमतः
बलज्येष्ठस्य नृपतेर् नास्ति सामन्तजं भयम् ॥

44.32

सहजैर् बध्यते सर्वः प्रवृद्धैर् इन्द्रियारिभिः
अमित्राणां प्रियकरैर् मोहैर् अधृतिर् ईश्वरः ॥

44.33

यत् त्वया स्त्रीकृते मोहात् सबलो रावणो हतः
नैतद् औपयिकं मन्ये महत् ते कर्म कुत्सितम् ॥

44.34

वनवासप्रवृत्तेन यत् त्वया व्रतशालिना
प्रहृतं राक्षसे नीचे नैष दृष्टः सतां विधिः ॥

44.35

सताम् अक्रोधजो धर्मः शुभां नयति सद्गतिम्
यत् त्वया निहतो मोहाद् दूषिताश् च वनौकसः ॥

44.36

स एव रावणो धन्यो यस् त्वया व्रतचारिणा
स्त्रीनिमित्तं हतो युद्धे ग्राम्यान् धर्मान् अवेक्षता ॥

44.37

यदि ते स हतः संख्ये दुर्बुद्धिर् अजितेन्द्रियः
युध्यस्वाद्य मया सार्धं मृधे यद्य् असि वीर्यवान् ॥

44.38

तस्य दूतस्य तच् छ्रुत्वा भाषितं तत्त्ववादिनः
धैर्याद् असंभ्रान्तवपुः सस्मितं राघवो ऽब्रवीत् ॥

44.39

असद् एतत् त्वया दूत कथितं तस्य गौरवात्
यन् मां क्षिपसि दोषेण वेदात्मानं च सुस्थिरम् ॥

44.40

यद्य् अहं सत्पथे मूढो यदि वा रावणो हतः
यदि वा मे हृता भार्या तस्य का परिदेवना ॥

44.41

न वाङ्मात्रेण दुष्यन्ति साधवः सत्पथे स्थिताः
जागर्ति च यथा दैवं सदा सत्स्व् इतरेषु च ॥

44.42

कृतं दूतेन यत् कार्यं गच्छ त्वं दूत माचिरम्
नात्मश्लाघिषु नीचेषु प्रहरन्तीह मद्विधाः ॥

44.43

अयं ममानुजो भ्राता शत्रुघ्नः शत्रुतापनः
तस्य दैत्यस्य दुर्बुद्धे मृधे प्रतिकरिष्यति ॥

44.44

एवम् उक्तः स दूतस् तु ययौ सौमित्रिणा सह
अनुज्ञातो नरेन्द्रेण राघवेण महात्मना ॥

44.45

स शीघ्रयानः संप्राप्तस् तद् दानववनं महत्
चक्रे निवेशं सौमित्रिर् वनान्ते युद्धलालसः ॥

44.46

ततो दूतस्य वचनात् स दैत्यः क्रोधमूर्च्छितः
जघने तद् वनं कृत्वा युद्धायाभिमुखः स्थितः ॥

44.47

तद् युद्धम् अभवद् घोरं सौमित्रेर् दानवस्य च
उभयोर् एव धृतयोः शूरयो रणमूर्धनि ॥

44.48

तौ शरैः साधुनिशितैर् अन्योन्यम् अभिजघ्नतुः
न च तौ युद्धवैमुख्यं श्रमं वाप्य् उपजग्मतुः ॥

44.49

अथ सौमित्रिणा बाणैः पीडितो दानवो युधि
ततः स शूलरहितः पर्यहीयत दानवः ॥

44.50

स रुक्मत्सरुम् उद्यम्य शत्रुघ्नः शत्रुतापनः
शिरश् चिच्छेद खड्गेन लवणस्य महामृधे ॥

44.51

स हत्वा दानवं संख्ये सौमित्रिर् मित्रनन्दनः
तद् वनं तस्य दैत्यस्य चिच्छेदास्त्रेण बुद्धिमान् ॥

44.52

छित्त्वा वनं स सौमित्रिर् निवेशम् अभिरोचयत्
भवाय तस्य देशस्य पुरीं परमधर्मवित् ॥

44.53

तस्मिन् मधुवनस्थाने मथुरा नाम सा पुरी
शत्रुघ्नेन पुरा सृष्टा हत्वा तं दानवं रणे ॥

44.54

सा पुरी परमोदारा साट्टप्राकारतोरणा
स्फीता राष्ट्रसमाकीर्णा समृद्धभवनाकुला ॥

44.55

उद्यानवनसंपन्ना सुसीमा सुप्रतिष्ठिता
प्रांशुप्राकारसंपन्ना परिखार्गलमेखला ॥

44.56

चयाट्टालककेयूरा प्रासादवरकुण्डला
सुसंवृतद्वारमुखी चत्वरोद्गारहासिनी ॥

44.57

अरोगवीरपुरुषा हस्त्यश्वरथसंकुला
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ॥

44.58

पुण्यापणवती दुर्गा रत्नसंचयगर्विता
क्षेत्राणि रसवन्त्य् अस्याः काले देवश् च वर्षति ॥

44.59

नरनारीसमुदिता सा पुरी स्म प्रकाशते
निविष्टो विषयश् चैव शूरसेनस् ततो ऽभवत् ॥

44.60

तस्यां पुर्यां महावीर्यो राजा भोजकुलोद्वहः
उग्रसेन इति ख्यातो महासेनपराक्रमः ॥

44.61

तस्य पुत्रत्वम् आपन्नो यो ऽसौविष्णो त्वया हतः
कालनेमिर् महादैत्यः संग्रामे तारकामये ॥

44.62

कंसो नाम विशालाक्षो भोजवंशविवर्धनः
राजा पृथिव्यां विख्यातः सिंहविस्पष्टविक्रमः ॥

44.63

राज्ञां भयंकरो घोरः शङ्कनीयो महीक्षिताम्
भयदः सर्वभूतानां सत्पथाद् बाह्यतां गतः ॥

44.64

दारुणाभिनिवेशेन दारुणेनान्तरात्मना
युक्तस् तेनैव दर्पेण प्रजानां लोमहर्षणः ॥

44.65

न राजधर्माभिरतो नात्मपक्षसुखावहः
नात्मराज्यप्रियकरश् चण्डः कररुचिः सदा ॥

44.66

स कंसस् तत्र संभूतस् त्वया युद्धे पराजितः
स बध्वा पितरं राजा मथुराम् अभ्यरक्षत ।
क्रव्यादो बाधते लोकान् आसुरेणान्तरात्मना ॥

44.67

यो ऽप्य् असौ हयविक्रान्तो हयग्रीव इति स्मृतः
केशी नाम हयो जातः स तस्यैव जघन्यजः ॥

44.68

स दुष्टो हेषितपटुः केसरी निरवग्रहः
वृन्दावने वसत्य् एको नृणां मांसानि भक्षयन् ॥

44.69

अरिष्टो बलिपुत्रस् तु ककुद्मी वृषरूपधृक्
गवाम् अरित्वम् आपन्नः कामरूपी महासुरः ॥

44.70

रिष्टो नाम दितेः पुत्रो वरिष्ठो दानवेषु यः
स कुञ्जरत्वम् आपन्नो दैत्यः कंसस्य वाहनः ॥

44.71

लम्बो नामेति विख्यातो यो ऽसौदैत्येषु दर्पितः
प्रलम्बो नाम भूत्वासौ वटं भाण्डीरम् आश्रितः ॥

44.72

खर इत्य् उच्यते दैत्यो धेनुकः सो ऽसुरोत्तमः
घोरं तालवनं दैत्यश् चरत्य् उत्सारयन् प्रजाः ॥

44.73

वराहश् च किशोरश् च ताव् उभौ दानवोत्तमौ
मल्लौ रङ्गगतौ तौ तु जातौ चाणूरमुष्टिकौ ॥

44.74

यौ तौ मयश् च तारश् च दानवौ दानवान्तक
प्राग्ज्योतिषे तौ भौमस्य नरकस्य पुरे रतौ ॥

44.75

एते दैत्या विनिहतास् त्वया विष्णो निराकृताः
मानुषं वपुर् आस्थाय बाधन्ते भुवि मानवान् ॥

44.76

त्वत्कथाद्वेषिणः सर्वे त्वन्मयान् घ्नन्ति मानवान्
तव प्रसादात् तेषां वै दानवानां क्षयो भवेत् ॥

44.77

तव ते दिवि बिभ्यन्ति त्वत्तो बिभ्यन्ति सागरे
पृथिव्यां बिभ्यति त्वत्तो नान्यस्य तु कथंचन ॥

44.78

दुर्वृत्तस्य हतस्यापि त्वया नान्येन श्रीधर
दिवश् च्युतस्य दैत्यस्य गतिर् भवति मेदिनी ॥

44.79

व्युत्थितस्य तु मेदिन्यां हतस्य नृशरीरिणः
दुर्लभं स्वर्गगमनं त्वयि जाग्रति केशव ॥

44.80

तद् आगच्छ स्वयं विष्णो गच्छाव पृथिवीतलम्
दानवानां विनाशाय विसृजात्मानम् आत्मना ॥

44.81

मूर्तयो हि तवाव्यक्ता दृश्यादृश्याः सुरोत्तमैः
तासु सृष्टास् त्वया देवाः संभविष्यन्ति भूतले ॥

44.82

तवावतरणे विष्णो कंसः स विनशिष्यति
सेत्स्यते च स कार्यार्थो यस्यार्थे भूमिर् आगता ॥

44.83

त्वं भारते कार्यगुरुस् त्वं चक्षुस् त्वं परायणः
तद् आगच्छ हृषीकेश क्षितौ ताञ् जहि दानवान् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc