भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 43

43.1

ते श्रुत्वा पृथिवीवाक्यं सर्व एव दिवौकसः
तदर्थकृत्यं संचिन्त्य पितामहम् अथाब्रुवन् ॥

43.2

भगवन् क्रियताम् अस्या धरण्या भारसंनतिः
शरीरकर्ता लोकानां त्वं हि लोकस्य चेश्वरः ॥

43.3

यत् कर्तव्यं महेन्द्रेण यमेन वरुणेन च
यद् वा कार्यं धनेशेन स्वयं नारायणेन वा ॥

43.4

यद् वा चन्द्रमसा कार्यं भास्करेणानिलेन वा
आदित्यैर् वसुभिर् वापि रुद्रैर् वा लोकभावनैः ॥

43.5

अश्विभ्यां वा सुराग्र्याभ्यां साध्यैर् वा त्रिदिवालयैः
मरुद्भिर् वा सुरश्रेष्ठैः पावकेनापि च प्रभो ।
बृहस्पत्युशनोभ्यां वा कालेन कलिनापि वा ॥

43.6

महेश्वरेण वा ब्रह्मन् विशाखेन गुहेन वा
यक्षराक्षसगन्धर्वैश् चारणैर् वा महोरगैः ॥

43.7

पर्वतैः शैलमुख्यैर् वा सागरैर् वा महोर्मिभिः
गङ्गामुखाभिर् दिव्याभिः सरिद्भिर् वा सुरेश्वर ॥

43.8

क्षिप्रम् आज्ञापय विभो कथम् अंशः प्रयुज्यताम्
यदि ते पार्थिवं कार्यं कार्यं पार्थिवविग्रहे ॥

43.9

कथम् अंशावतरणं कुर्मः सर्वे पितामह
अन्तरिक्षगता ये च पृथिव्यां ये च पार्थिवाः ॥

43.10

सदस्यानां च विप्राणां पार्थिवानां कुलेषु च
अयोनिजाश् चापि तनूः सृजाम जगतीतले ॥

43.11

सुराणाम् एककार्याणां श्रुत्वैतन् निश्चितं महत्
देवैः परिवृतः प्राह वाक्यं लोकपितामहः ॥

43.12

रोचते मे सुरश्रेष्ठा युष्माकम् अपि निश्चयः
सृजध्वं स्वशरीरांशांस् तेजसात्मसमान् भुवि ॥

43.13

सर्व एव सुरश्रेष्ठास् तेजोभिर् अवरोहत
भावयन्तो भुवं देवीं लब्ध्वा त्रिभुवनश्रियम् ॥

43.14

पार्थिवे भारते वंशे पूर्वम् एव विजानता
पृथिव्यां संभवम् इमं श्रूयतां यन् मया कृतम् ॥

43.15

समुद्रे ऽहं सुराः पूर्वे वेलाम् आसाद्य पश्चिमाम्
आसे सार्धं तनूजेन कश्यपेन महात्मना ॥

43.16

कथाभिः पूर्ववृत्ताभिर् लोकवेदानुगामिभिः
इतिवृत्तैश् च बहुभिः पुराणप्रभवैर् गुणैः ॥

43.17

कुर्वतस् तु कथास् तास् ताः समुद्रः सह गङ्गया
समीपम् आजगामाशु युक्तस् तोयदमारुतैः ॥

43.18

स वीचिविषमां कुर्वन् गतिं वेगतरङ्गिणीम्
यादोगणविचित्रेण संछन्नस् तोयवाससा ॥

43.19

शङ्खमुक्तामलतनुः प्रवालमणिभूषणः
युक्तश् चन्द्रमसा पूर्णः साभ्रगम्भीरनिस्वनः ॥

43.20

स मां परिभवन्न् एव स्वां वेलां समतिक्रमन्
क्लेदयाम् आस चपलैर् लावणैर् अम्बुविस्रवैः ॥

43.21

तं च देशं व्यवसितः समुद्रो ऽद्भिर् विमर्दितुम्
उक्तः संरब्धया वाचा शान्तो ऽसीति ततो मया ॥

43.22

शान्तो ऽसीत्य् उक्तमात्रस् तु तनुत्वं सागरो गतः
संहतोर्मितरङ्गौघः स्थितो राजश्रिया ज्वलन् ॥

43.23

भूयश् चैव मया शप्तः समुद्रः सह गङ्गया
सकारणां मतिं कृत्वा युष्माकं हितकाम्यया ॥

43.24

यस्मात् त्वं राजतुल्येन वपुषा समुपस्थितः
गच्छार्णव महीपालो राजैव त्वं भविष्यसि ॥

43.25

तत्रापि सहजां लीलां धारयन् स्वेन तेजसा
भविष्यसि नृणां भर्ता भारतानां कुलोद्वहः ॥

43.26

शान्तो ऽसीति मयोक्तस् त्वं यच् चासि तनुतां गतः
सुतनुर् यशसा लोके शंतनुस् त्वं भविष्यसि ॥

43.27

इयम् अप्य् आयतापाङ्गी गङ्गा सर्वाङ्गशोभना
इयम् अप्य् आगता गङ्गा तवार्थे वरवर्णिनी ।
रूपिणी वै सरिच् छ्रेष्ठा तत्र त्वाम् उपयास्यति ॥

43.28

एवम् उक्तस् तु मां क्रुद्धः सो ऽभिगम्याऋणवो ऽब्रवीत्
मां प्रभो देवदेवेश किमर्थं शप्तवान् असि ॥

43.29

अहं तव विधेयात्मा त्वत्कृतस् त्वत्परायणः
अशपो ऽसदृशैर् वाक्यैर् आत्मजं मां किम् आत्मना ॥

43.30

भगवंस् त्वत्प्रसादेन वेगात् पर्वणि वर्धितः
यद्य् अहं चलितो ब्रह्मन् को ऽत्र दोषो ममात्मनः ॥

43.31

क्षिप्ताभिः पवनेनाद्भिः स्पृष्टो यद्य् असि पर्वणि
अत्र मे भगवन् किं नु विद्यते शापकारणम् ॥

43.32

उद्धूतैश् च महावातैः प्रवृद्धैश् च बलाहकैः
पर्वणा चेन्दुयुक्तेन त्रिभिः क्षुब्धो ऽस्मि कारणैः ॥

43.33

एवं यद्य् अपराद्धो ऽहं कारणैस् त्वत्प्रवर्तितैः
क्षन्तुम् अर्हसि मे ब्रह्मञ् शापो ऽयं विनिवर्त्यताम् ॥

43.34

एवं मयि निरालम्बे शापाच् छिथिलतां गते
कारुण्यं कुरु देवेश प्रमाणं यद्य् अवेक्षसे ॥

43.35

अस्याश् च देव गङ्गाया गां गतायास् तवाज्ञया
मद्दोषात् समदोषायाः प्रसादं कर्तुम् अर्हसि ॥

43.36

तम् अहं श्लक्ष्णया वाचा महार्णवम् अथाब्रुवम्
अकारणज्ञं देवानां त्रस्तं शापानिलेरितम् ॥

43.37

शान्तिं व्रज न भेतव्यं प्रसन्नो ऽस्मि महामते
शापे ऽस्मिन् सरितां नाथ भविष्यं शृणु कारणम् ॥

43.38

त्वं गच्छ भारते वंशे स्वदेहं स्वेन तेजसा
आधत्स्व सरितां नाथ त्यक्त्वेमां सागरीं तनुम् ॥

43.39

महोदधे महीपालस् तत्र राजश्रिया वृतः
पालयंश् चतुरो वर्णान् रंस्यसे सलिलेश्वर ॥

43.40

इयं च त्वां सरिच् छ्रेष्ठा बिभ्रती मानुषीं तनुम्
तत् कालरमणीयाङ्गी गङ्गा परिचरिष्यति ॥

43.41

अनया सह जाह्नव्या मोदमानो ममाज्ञया
इमं सलिलसंक्लेदं विस्मरिष्यसि सागर ॥

43.42

त्वरता चैव कर्तव्यं त्वयेदं देवशासनम्
प्राजापत्येन विधिना गङ्गया सह सागर ॥

43.43

वसवः प्रच्युताः स्वर्गात् प्रविष्टाश् च रसातलम्
तेषाम् उत्पादनार्थाय त्वं मया विनियोजितः ॥

43.44

अष्टौ ताञ् जाह्नवीगर्भान् अपत्यार्थं ददाम्य् अहम्
विभावसोस् तुल्यगुणान् सुराणां प्रीतिवर्धनान् ॥

43.45

उत्पाद्य त्वं वसूञ् शीघ्रं कृत्वा कुरुकुलं महत्
प्रवेष्टासि तनुं त्यक्त्वा पुनः सागर सागरीम् ॥

43.46

एवम् एतन् मया पूर्वं हितार्थं वः सुरोत्तमाः
भविष्यं पश्यता भारं पृथिव्याः पार्थिवात्मकम् ॥

43.47

तद् एष शंतनोर् वंशः पृथिव्यां रोपितो मया
वसवो यत्र गङ्गायां उत्पन्नास् त्रिदिवौकसः ॥

43.48

अद्यापि भुवि गाङ्गेयस् तत्रैव वसुर् अष्टमः
सप्तेमे वसवः प्राप्ताः स एकः परिलम्बते ॥

43.49

द्वितीयायां स्त्रियां सृष्टा द्वितीया शंतनोस् तनुः
विचित्रवीर्यो द्युतिमान् आसीद् राजा प्रतापवान् ॥

43.50

वैचित्रवीर्यौ द्वाव् एव पार्थिवौ भुवि सांप्रतम्
पाण्डुश् च धृतराष्ट्रश् च विख्यातौ पुरुषर्षभौ ॥

43.51

तत्र पाण्डोः श्रिया जुष्टे द्वे भार्ये यौवनस्थिते
शुभे कुन्ती च माद्री च देवयोषोपमे भुवि ॥

43.52

धृतराष्ट्रस्य राज्ञस् तु भार्यैका तुल्यचारिणी
गान्धारी भुवि विख्याता भर्तुर् नित्यं व्रते स्थिता ॥

43.53

अत्र वो ऽंशा विभज्यन्तां विपक्षः पक्ष एव च
पुत्राणां हि तयो राज्ञोर् भविता विग्रहो महान् ॥

43.54

तेषां विमर्दे दायाद्ये नृपाणां भविता क्षयः
युगान्तप्रतिमं चैव भविष्यति महद् भयम् ॥

43.55

सबलेषु नरेन्द्रेषु शातयत्स्व् इतरेतरम्
विविक्तपुरराष्ट्रौघा क्षितिः शैथिल्यम् एष्यति ॥

43.56

द्वापरस्य युगस्यान्ते मया दृष्टं पुरातने
क्षयं यास्यन्ति शस्त्रेण पार्थिवाः सह वाहनैः ॥

43.57

तत्रावशिष्टान् मनुजान् सुप्तान् निशि विचेतसः
धक्ष्यते शंकरस्यांशः पावकेनास्त्रतेजसा ॥

43.58

अन्तकप्रतिमे तस्मिन् निवृत्ते क्रूरकर्मणि
समाप्तम् इदम् आख्यास्ये तृतीयं द्वापरं युगम् ॥

43.59

महेश्वरांशे ऽपसृते ततो माहेश्वरं युगम्
तिष्यं प्रपत्स्यते पश्चाद् युगं दारुणमानुषम् ॥

43.60

अधर्मप्रायपुरुषं स्वल्पधर्मपरिग्रहम्
उत्सन्नसत्यसंयोगं वर्धितानृतसंचयम् ॥

43.61

महेश्वरं कुमारं च द्वौ च देवौ समाश्रिताः
भविष्यन्ति नराः सर्वे लोके नस्थविरायुषः ॥

43.62

तद् एष निर्णयः श्रेष्ठः पृथिव्यां पार्थिवान्तकः
अंशावतरणं सर्वे सुराः कुरुत माचिरम् ॥

43.63

धर्मस्यांशो ऽथ कुन्त्यां वै माद्र्यां च विनियुज्यताम्
विग्रहस्य कलिर् मूलं गान्धार्यां विनियुज्यताम् ॥

43.64

एतौ पक्षौ भविष्यन्ति राजानः कालचोदिताः
जातरागाः पृथिव्यर्थे सर्वे संग्रामलालसाः ॥

43.65

गच्छत्व् इयं वसुमती स्वां योनिं लोकधारिणी
सृष्टो ऽयं नैष्ठिको राज्ञाम् उपायो लोकविश्रुतः ॥

43.66

श्रुत्वा पितामहवचः सा जगाम यथागतम्
पृथिवी सह कालेन वधाय पृथिवीक्षिताम् ॥

43.67

देवान् अचोदयद् ब्रह्मा निग्रहार्थं सुरद्विषाम्
नरं चैव पुराणर्षिं शेषं च धरणीधरम् ॥

43.68

सनत्कुमारं साध्यांश् च देवांश् चाग्निपुरोगमान्
वरुणं च यमं चैव सूर्याचन्द्रमसौ तथा
गन्धर्वाप्सरसश् चैव रुद्रादित्यांस् तथाश्विनौ ॥

43.69

ततो ऽंशान् अवनिं देवाः सर्व एवावतारयन्
यथा ते कथितं पूर्वम् अंशावतरणं मया ॥

43.70

अयोनिजा योनिजाश् च ते देवाः पृथिवीतले
दैत्यदानवहन्तारः संभूताः पुरुषेश्वराः
क्षीरिकावृक्षसंघाता वज्रसंहननास् तथा ॥

43.71

नागायुतबलाः केचित् केचिद् ओघबलान्विताः
गदापरिघशक्तीनां सहाः परिघबाहवः
गिरिशृङ्गप्रहर्तारः सर्वे परिघयोधिनः ॥

43.72

वृष्णिवंशे समुत्पन्नाः शतशो ऽथ सहस्रशः
कुरुवंशे च देवास् ते पाञ्चालेषु च पार्थिवाः ॥

43.73

याज्ञिकानां समृद्धानां ब्राह्मणानां च योनिषु
सर्वास्त्रज्ञा महेष्वासा वेदव्रतपरायणाः ॥

43.74

आचालयेयुः शैलांस् ते क्रुद्धा भिन्द्युर् महीतलम्
उत्पतेयुर् अथाकाशं क्षोभयेयुर् महोदधिम् ॥

43.75

एवम् आदिश्य तान् ब्रह्मा भूतभव्यभवत्प्रभुः
नारायणे समावेश्य लोकाञ् शान्तिम् उपागमत् ॥

43.76

भूयः शृणु यथा विष्णुर् अवतीर्णो महीतलम्
प्रजानां वै हितार्थाय प्रभुः प्राणधनेश्वरः ॥

43.77

ययातिवंशजस्याथ वसुदेवस्य धीमतः
कुले पूज्ये यशस्कामो जज्ञे नारायणः प्रभुः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc