हरिवंश · अध्याय 42
बाढम् इत्य् एव सह तैर् दुर्दिनाम्भोदनिस्वनः
प्रतस्थे दुर्दिनाकारः सदुर्दिन इवाचलः ॥
समुक्तामणिविद्योतं सचन्द्राम्भोदवर्चसम्
स जतामण्डलं कृष्णं बिभ्रत् कृष्णवपुर् हरिः ॥
स चास्योरसि विस्तीर्णे रोमाञ्चोद्गतराजिमान्
श्रीवत्सो राजते श्रीमान् स्तनद्वयमुखाञ्चितः ॥
पीते वसानो वसने लोकानां गुरुर् अव्ययः
हरिः सो ऽभवद् आलक्ष्यः ससंध्याभ्र इवाचलः ॥
तं व्रजन्तं सुपर्णेन पद्मयोनिगतानुगम्
अनुजग्मुः सुराः सर्वे तद्गतासक्तचक्षुषः ॥
नातिदीर्घेण कालेन ते गता रत्नपर्वतम्
ददृशुर् देवतास् तत्र स्वां सभां कामरूपिणीम् ॥
मेरोः शिखरविन्यस्तां संसक्तां सूर्यवर्चसा
काञ्चनस्तम्भचरणां वज्रसंघाततोरणाम् ॥
मनोनिर्माणचित्राढ्यां विमानाकुलमालिनीम्
रत्नजालान्तरवतीं कामगां रत्नभूषिताम् ॥
कॢप्तरत्नसमाकीर्णां सर्वर्तुकुसुमोत्कटाम्
मणिप्रवालसोपानां वैदूर्यमणिशोभिताम् ।
मुक्ताजालसमाकीर्णां किंकिणीशतशोभिताम् ।
देवमायाधरां दिव्यां निर्मितां विश्वकर्मणा ॥
तां हृष्टमनसः सर्वे यथास्थानं यथावयः
यथानिदेशं त्रिदशा विविशुस् ते सभां शुभाम् ॥
ते निषेदुर् यथोक्तेषु विमानेष्व् आसनेषु च
भद्रासनेषु पीठेषु कुथास्व् आस्तरणेषु च ॥
ततः प्रभञ्जनो वायुर् ब्रह्मणा साधु चोदितः
मा शब्द इति सर्वत्र प्रचक्राम सभां शुभाम् ॥
निःशब्दे स्तिमिते तस्मिन् समाजे त्रिदिवौकसाम्
बभाषे धरणी वाक्यं स्वेदात् करुणभाषिणी ॥
अहम् आदौ पुरानेन संक्षिप्ता पद्मयोनिना
मां च बध्वा कृतौ पूर्वं मृङ्मयौ द्वौ महासुरौ ॥
कर्णस्रोतोद्भवौ तौ हि विष्णोर् अस्य महात्मनः
महार्णवे प्रस्वपतः काष्ठकुड्यसमौ स्थितौ ॥
तौ विवेश स्वयं वायुर् ब्रह्मणा साधु चोदितः
तौ दिवं छादयन्तौ तु ववृधाते महासुरौ ॥
वायुप्राणौ तु तौ गृह्य ब्रह्मा परिमृश्यञ् शनैः
एकं मृदुतरं मेने कठिनं वेद चापरम् ॥
नामनी तु तयोश् चक्रे स विभुः सलिलोद्भवः
मृदुस् त्व् अयं मधुर् नाम कठिनः कैटभो ऽभवत् ॥
तौ दैत्यौ कृतनामानौ चेरतुर् बलदर्पितौ
सर्वम् एकार्णवं लोकं योद्धुकामौ सुनिर्भयौ ॥
ताव् आगतौ समालोक्य ब्रह्मा लोकपितामहः
एकार्णवाम्बुनिचये तत्रैवानतरधीयत ॥
स पद्मे पद्मनाभस्य नाभिमध्याद् समुत्थिते
रोचयाम् आस वसतिं गुह्यां ब्रह्मा चतुर्मुखः ॥
ताव् उभौ जलगर्भस्थौ नारायणपितामहौ
बहून् वर्षगणान् अप्सु शयानौ न चकम्पतुः ॥
अथ दीर्घस्य कालस्य ताव् उभौ मधुकैटभौ
आजग्मतुस् तम् उद्देशं यत्र ब्रह्मा व्यवस्थितः ॥
दृष्ट्वा ताव् असुरौ घोरौ महान्तौ युद्धदुर्मदौ
ब्रह्मणा ताडितो विष्णुः पद्मनालेन वै पुरा ।
उत्पपाताशु शयनात् पद्मनाभो महाद्युतिः ॥
तद् युद्धम् अभवद् घोरं तयोस् तस्य च वै तदा
एकार्णवे तदा लोके त्रैलोक्ये जलतां गते ॥
तद् अभूत् तुमुलं युद्धं वर्षसंख्याः सहस्रशः
न च ताव् असुरौ युद्धे तदा श्रमम् अवापतुः ॥
अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ
ऊचतुः प्रीतमनसौ देवं नारायणं हरिं ॥
प्रीतौ स्वस् तव युद्धेन श्लाघ्यस् त्वं मृत्युर् आहवे
आवां जहि न यत्रोर्वी जलेन समभिप्लुता ॥
हतौ च तव पुत्रत्वं प्राप्नुयावः सुरोत्तम
सो ह्य् आवां युधि निर्जेता तस्यावां विहितौ सुतौ ॥
स हि गृह्य मृधे दैत्यौ दोर्भ्यां तौ समपीडयत्
जन्मतुर् निधनं चापि ताव् उभौ मधुकैटभौ ॥
ताव् उभाव् आप्लुतौ तोये वपुर्भ्याम् एकतां गतौ
मेदो मुमुचतुर् दैत्यौ मथ्यमानौ जलोर्मिभिः ॥
मेदसा तज्जलं व्याप्तं ताभ्यां अन्तर्दधे तदा
नारायणश् च भगवान् असृजत् स पुनः प्रजाः ॥
दैत्ययोर् मेदसा छन्ना मेदिनीति ततः स्मृता
प्रभावात् पद्मनाभस्य शाश्वती च नृणां कृता ॥
वराहेण पुनर् भूत्वा मार्कण्डेयस्य पश्यतः
विषाणेनाहम् एकेन तोयमध्यात् समुद्धृता ॥
हृताहं क्रमता भूयस् तदा युष्माकम् अग्रतः
बलेः सकाशाद् दैत्यस्य विष्णुना प्रभविष्णुना ॥
सांप्रतं खिद्यमानाहम् एनम् एव गदाधरम्
अनाथा जगतो नाथं शरण्यं शरणं गता ॥
अग्निः सुवर्णस्य गुरुर् गवां सूर्यो गुरुः स्मृतः
अक्षत्राणां गुरुः सोमो मम नारायणो गुरुः ॥
यद् अहं धारयाम्य् एका जगत्स्थावरजंगमम्
मया धृतं धारयते सर्वम् एतद् गदाधरः ॥
जामदग्न्येन रामेण भारावतरणेप्सया
रोषात् त्रिःसप्तकृत्वो ऽहं क्षत्रियैर् विप्रयोजिता ॥
सास्मि वेद्याम् समारोप्य तर्पिता नृपशोणितैः
भार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता ॥
मांसमेदोस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः
रजस्वलेव युवतिः कश्यपं समुपस्थिता ॥
स मां ब्रह्मर्षिर् अप्य् आह किम् उर्वि त्वम् अवाङ्मुखी
वीरपत्नीव्रतम् इदं वीरपत्नि निषेवसे ॥
साहं विज्ञापितवती कश्यपं लोकभावनम्
पतयो मे हता ब्रह्मन् भार्गवेण महात्मना ॥
साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः
विधवा शून्यनगरा न धारयितुम् उत्सहे ॥
तन् मह्यं दीयतां भर्ता भगवंस् त्वत्समो नृपः
रक्षेत् सग्रामनगरां यो मां सागरमालिनीम् ॥
स श्रुत्वा भगवान् वाक्यं बाढम् इत्य् अब्रवीत् प्रभुः
ततो मां मानवेन्द्राय मनवे संप्रयच्छत ॥
सा मनुप्रभवं पुण्यं प्राप्येक्ष्वाकुकुलं महत्
विपुलेनास्मि कालेन पार्थिवात् पार्थिवं गता ॥
एवं दत्तास्मि मनवे मानवेन्द्राय धीमते
भुक्ता राजकुलैश् चापि महर्षिकुलसंमितैः ॥
बहवः क्षत्रियाः शूरा मां जित्वा दिवम् आश्रिताः
ते स्म कालवशं प्राप्य मय्य् एव प्रलयं गताः ॥
मत्कृते विग्रहा लोके वृत्ते वर्तन्त एव च
क्षत्रियाणां बलवतां संग्रामेष्व् अनिवर्तिनाम् ॥
एतद् युष्मत्प्रवृत्तेन दैवेन परिणामिता
जगद्धितार्थं कुरुत राज्ञां हेतुं रणक्षये ॥
यद्य् अस्ति मयि कारुण्यं भारशैथिल्यकारणात्
एकश् चक्रधरः श्रीमान् अभयं मे प्रयच्छतु ॥
यम् अहं भारसंतप्ता संप्राप्ता शरणैषिणी
भारो यद्य् अवरोप्तव्यो विष्णुर् एष ब्रवीतु माम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0