भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 41

41.1

तच् छ्रुत्वा विष्णुगदितं ब्रह्मा लोकपितामहः
उवाच परमं वाक्यं हितं सर्वदिवौकसाम् ॥

41.2

नास्ति किंचिद् भयं विष्णो सुराणाम् असुरान्तक
येषां भवान् अभयदः कर्णधारो रणे रणे ॥

41.3

शक्रे जयति देवेशे त्वयि चासुरसूदने
धर्मे प्रयतमानानां मानवानां कुतो भयम् ॥

41.4

सत्ये धर्मे च निरता मानवा विगतज्वराः
नाकालधर्मणा मृत्युः शक्नोति प्रसमीक्षितुम् ॥

41.5

मानवानां च पतयः पार्थिवाश् च परस्परम्
षड्भागम् उपयुञ्जाना न भेदं कुर्वते मिथः ॥

41.6

ते प्रजानां शुभकराः करदैर् अविगर्हिताः
अकरैर् विप्रयुक्तार्थाः कोशम् आपूरयन् सदा ॥

41.7

स्फीताञ्जनपदान् स्वान् स्वान् पालयन्तः क्षमापराः
अतीक्ष्णद् अण्डाश् चतुरो वर्णाञ् जुगुपुर् अञ्जसा ॥

41.8

नोद्वेजनीया भूतानां सचिवैः साधु पूजिताः
चतुरङ्गबलैर् युक्ताः षड्गुणान् उपयुञ्जते ॥

41.9

धनुर्वेदपराः सर्वे सर्वे वेदेषु निष्ठिताः
यजन्ति च यथाकालं यज्ञैर् विपुलदक्षिणैः ॥

41.10

वेदान् अधीत्य दीक्षाभिर् महर्षीन् ब्रह्मचर्यया
श्राद्धैश् च मेध्यैः शतशस् तर्पयन्ति पितामहान् ॥

41.11

नैषाम् अविदितं किंचित् त्रिविधं भुवि विद्यते
वैदिकं लौकिकं चैव धर्मशास्त्रोक्तम् एव च ॥

41.12

ते परावरदृष्टार्था महर्षिसमतेजसः
भूयः कृतयुगं कर्तुम् उत्सहन्ते नराधिपाः ॥

41.13

तेषाम् एव प्रभावेन शिवं वर्षति वासवः
यथार्थं च ववुर् वाता विरजस्का दिशो दश ॥

41.14

निरुत्पाता च वसुधा सुप्रचाराश् च वै ग्रहाः
चन्द्रमाश् च सनक्षत्रः सौम्यं चरति योगतः ॥

41.15

अनुलोमकरः सूर्यो अयने द्वे चचार ह
हव्यैश् च विविधैस् तृप्तः शुभगन्धो हुताशनः ॥

41.16

एवं सम्यक्प्रवृत्तेषु निवृत्तेष्व् अपराधतः
तर्पयत्सु महीं कृत्स्नां नृणां कालभयं कुतः ॥

41.17

तेषां ज्वलितकीर्तीनाम् अन्योन्यम् अनुवर्तिनाम्
राज्ञां बलैर् बलवतां पीड्यते वसुधातलम् ॥

41.18

सेयं भारपरिश्रान्ता पीड्यमाना नराधिपैः
पृथिवी समनुप्राप्ता नौर् इवासन्न् अविप्लवा ॥

41.19

युगान्तसदृशं रूपं शैलोच्चलितबन्धनम्
जलोत्पीडाकुला स्वेदं दर्शयन्ती मुहुर् मुहुः ॥

41.20

क्षत्रियाणां वपुर्भिश् च तेजसा च बलेन च
नृणां च राष्ट्रैर् विस्तीर्णैः श्राम्यतीव वसुंधरा ॥

41.21

पुरे पुरे नरपतिः कोटिसंख्यैर् बलैर् वृतः
राष्ट्रे राष्ट्रे च बहवो ग्रामाः शतसहस्रशः ॥

41.22

भूमिपानां सहस्रैश् च तेषां च बलिनां बलैः
ग्रामायुताढ्यै राष्ट्रैश् च भूमिर् निर्विवरीकृता ॥

41.23

सेयं निरामिषं कृत्वा निश्चेष्टं कालम् अग्रतः
प्राप्ता ममालयं विष्णो भवांश् चास्याः परा गतिः ॥

41.24

कर्मभूमिर् इहस्थानां भूमिर् एषा व्यथां गता
यथा न सीदेत् तत्कार्यं जगत्य् एषा हि शाश्वती ॥

41.25

अस्या हि पीडने दोषो महान् स्यान् मधुसूदन
क्रियालोपश् च लोकानां दूषितं च जगद् भवेत् ॥

41.26

श्राम्यते व्यक्तम् एवेयं पार्थिवौघप्रपीडिता
सहजां या क्षमां त्यक्त्वा चलत्वम् अचला गता ॥

41.27

तद् अस्याः श्रुतवन्तः स्म तच् चापि भवता श्रुतम्
भारावतरणार्थं हि मन्त्रयामस् त्वया सह ॥

41.28

सत्पथे हि स्थिताः सर्वे राजानो राष्ट्रवर्धनाः
नराणां च त्रयो वर्णा ब्राह्मणान् अनुयायिनः ॥

41.29

सर्वं सत्यमयं वाक्यं वर्णा धर्मपरास् तथा
सर्वे वेदपरा विप्राः सर्वे विप्रपरा नराः ॥

41.30

एवं जगति वर्तन्ते मनुष्या धर्मकारणात्
यथा धर्मवधो न स्यात् तथा मन्त्रः प्रवर्तताम् ॥

41.31

सतां गतिर् इयं नान्या धर्मश् चास्याः सुसाधनम्
राज्ञां चैव वधः कार्यो धरण्या भारनिर्णये ॥

41.32

तदागच्छ महाभाग सह वै मन्त्रकारणात्
व्रजाम मेरुशिखरं पुरस्कृत्य वसुंधराम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc