हरिवंश · अध्याय 40
ऋषिभिः पूजितस् तैस् तु विवेश हरिर् ईश्वरः
पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रमम् ॥
स तत्र विविशे हृष्टस् तान् आमन्त्र्य सदोगतान्
प्रणम्य चादिदेवाय ब्रह्मणे पद्मयोनये ॥
स्वेन नाम्ना परिज्ञातं स तं नारायणाश्रमम्
प्रविशन्न् एव भगवान् आयुधानि व्यसर्जयत् ॥
स तत्राम्बुपतिप्रख्यं ददर्शालयम् आत्मनः
स्वधिष्ठितं भूतगणैः शाश्वतैश् च महर्षिभिः ॥
संवर्तकाम्बुदोपेतं नक्षत्रस्थानसंकुलम्
तिमिरौघपरिक्षिप्तम् अप्रधृष्यं सुरासुरैः ॥
न तत्र विषयो वायोर् नेन्दोर् नापि विवस्वतः
वपुषा पद्मनाभस्य स देशस् तेजसा वृतः ॥
स तत्र प्रविशन्न् एव जटाभारं समुद्वहन्
स सहस्रशिरा भूत्वा शयनायोपचक्रमे ॥
लोकानाम् अन्तकालज्ञा काली नयनशालिनी
उपतस्थे महात्मानं निद्रा तं कालरूपिणी ॥
स शिश्ये शयने दिव्ये समुद्राम्भोदशीतले
हरिर् एकार्णवोक्तेन व्रतेन व्रतिनां वरः ॥
तं शयानं महात्मानं भवाय जगतः प्रभुम्
उपासां चक्रिरे विष्णुं देवाः सर्षिगणास् तदा ॥
तस्य सुप्तस्य शुशुभे नाभिमध्यात् समुत्थितम्
आद्यस्य सदनं पद्मं ब्रह्मणः सूर्यसंनिभम् ॥
ब्रह्मसूत्रोद्यतकरः स्वपन्न् एव महामुनिः
आवर्तयति लोकानां सर्वेषां कालपर्ययम् ॥
विवृतात् तस्य वदनान् निःश्वासपवनेरिताः
प्रजानां पङ्क्तयो ह्य् ओघैर् निष्पतन्ति विशन्ति च ॥
ते सृष्टाः प्राणिनाम् ओघा विभक्ता ब्रह्मणा स्वयम्
चतुर्धा स्वां गतिं जग्मुः कृतान्तोक्तेन कर्मणा ॥
न तं वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयो ऽव्ययाः
विष्णुं निद्रामयं योगं प्रविष्टं तमसावृतम् ॥
ते तु ब्रह्मर्षयः सर्वे पितामहपुरोगमाः
न विदुस् तं क्वचित् सुप्तं क्वचिद् आसीनम् आसने ॥
जागर्ति को ऽत्र कः शेते कः श्वसन् कश् च नेङ्गते
को भोगवान् को द्युतिमान् कृष्णात् कृष्णतरश् च कः ॥
विमृशन्ति स्म तं देवं दिव्याभिर् उपपत्तिभिः
वाक्यैर् ब्रह्मपदैश् चापि प्रमाणैः सर्वलक्षणैः ।
न चैनं शेकुर् अन्वेष्टुं कर्मतो जन्मतो ऽपि वा ॥
कथाभिस् तत्प्रदिष्टाभिर् ये तस्य चरितं विदुः
पुराणं तं पुराणेषु ऋषयः संप्रचक्षते ॥
श्रूयते चास्य चरितं देवेष्व् अपि पुरातनम्
महापुराणात् प्रभृति परं तस्य न विद्यते ॥
यच् चास्य वेद वेदो ऽपि चरितं स्वप्रभावजम्
तेनेमाः श्रुतयो व्याप्ता वैदिका लौकिकाश् च याः ॥
भवकाले भवत्य् एष लोकानां भूतभावनः
दानवानाम् अभावाय जागर्ति मधुसूदनः ॥
यदैनं वीक्षितुं देवा न शेकुः सुप्तम् अच्युतम्
ततः स्वपिति घर्मान्ते जागर्ति जलदक्षये ॥
तस्मिन् सुप्ते न वर्तन्ते मन्त्रपूताः क्रतुक्रियाः
शरत्प्रवृत्तयज्ञो हि जागर्ति मधुसूदनः ॥
तद् इदं वार्षिकं चक्रं कारयत्य् अम्बुदेश्वरः
वैष्णवं कर्म कुर्वाणः सुप्ते विष्णौ पुरंदरः ॥
या ह्य् एषा गह्वरी माया निद्रेति जगति स्थिता
अकस्माद् द्वेषिणी घोरा कालरात्रिर् महीक्षिताम् ॥
अस्यास् तनुस् तमोद्वारा निशादिवसनाशिनी
जीवितार्धहरी घोरा सर्वप्राणभृतां भुवि ॥
नैतया कश्चिद् आविष्टो जृम्भमाणो मुहुर् मुहुः
शक्तः प्रसहितुं वेगं मज्जन्न् इव महार्णवे ॥
अन्नजा भुवि मर्त्यानां श्रमजा वा कथंचन
नैशा भवति लोकस्य निद्रा सर्वस्य लौकिकी ॥
स्वप्नान्ते क्षीयते ह्य् एषा प्रायशो भुवि देहिनाम्
मृत्युकाले च भूतानां प्राणान् नाशयते भृशम् ॥
देवेष्व् अपि दधारैनां नान्यो नारायणाद् ऋते
सखी सर्वहरस्यैषा माया विष्णुशरीरजा ॥
सैषा नारायणमुखे दृष्टा कमललोचना
लोकान् अल्पेन कालेन भजते भूतमोहिनी ॥
एवम् एषा हितार्थाय लोकानां कृष्णवर्त्मना
ध्रियते सेवनीयेन पतिनेव पतिव्रता ॥
स तया निद्रया छन्नस् तस्मिन् नारायणाश्रमे
शेते स्म हि तदा विष्णुर् मोहयञ् जगद् अव्ययः ॥
तस्य वर्षसहस्राणि शयानस्य महात्मनः
जग्मुः कृतयुगं चैव त्रेता चैव युगोत्तमम् ॥
स तु द्वापरपर्यन्ते दृष्ट्वा लोकान् सुदुःखितान्
प्राबुध्यत महातेजाः स्तूयमानो महर्षिभिः ॥
जहीहि निद्रां सहजां भुक्तपूर्वाम् इव स्रजम्
इमे ते ब्रह्मणा सार्धं देवा दर्शनकाङ्क्षिणः ॥
इमे त्वां ब्रह्मविदुषो ब्रह्मसंस्तववादिनः
वर्धयन्ति हृषीकेश ऋषयः संशितव्रताः ॥
एतेषाम् आत्मभूतानां भूतानां भूतभावन
शृणु विष्णो शुभां वाचं भूव्योमाग्न्यनिलाम्भसाम् ॥
इमे त्वा सप्त मुनयः सहिता मुनिमण्डलैः
स्तुवन्ति देव दिव्याभिर् गेयाभिर् गीर्भिर् अञ्जसा ॥
उत्तिष्ठ शतपत्राक्ष पद्मनाभ महाद्युते
कारणं किंचिद् उत्पन्नं देवानां कार्यगौरवात् ॥
स संक्षिप्य जगत् सर्वं तिमिरौघं विदारयन्
उदतिष्ठद् धृषीकेशः श्रिया परमया ज्वलन् ॥
स ददर्श सुरान् सर्वान् समेतान् सपितामहान्
विवक्षतः प्रक्षुभिताञ् जगदर्थे समागतान् ॥
तान् उवाच हरिर् देवान् निद्राविश्रान्तलोचनः
तत्त्वदृष्टार्थया वाचा धर्महेत्वर्थयुक्तया ॥
कुतो वो विग्रहो देवाः कुतो वो भयम् आगतम्
कस्य वा केन वा कार्यं किं वा मयि न वर्तते ॥
न खल्व् अकुशलं लोके वर्तते दानवोत्थितम्
नृणाम् आयासजननं शीघ्रम् इच्छामि वेदितुम् ॥
एष ब्रह्मविदां मध्ये विहाय शयनोत्तमम्
शिवाय भवताम् अर्थे स्थितः किं करवाणि वः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0