हरिवंश · अध्याय 39
ब्रह्मणा देवदेवेन सार्धं सलिलयोनिना
ब्रह्मलोकं गतो ब्रह्मन् वैकुण्ठः किं चकार ह ॥
किमर्थं चादिदेवेन नीतः सलिलयोनिना
विष्णुर् दैत्यवधे वृत्ते देवैर् अकृतसत्क्रियः ॥
ब्रह्मलोके च किं स्थानं कं वा योगम् उपास्त सः
कं वा दधार नियमं स विभुर् भूतभावनः ॥
कथं तत्रासतस् तस्य विश्वं जगद् इदं महत्
श्रियम् आप्नोति विपुलां सुरासुरनरार्चिताम् ॥
कथं स्वपिति घर्मान्ते बुध्यते चाम्बुदक्षये
कथं च ब्रह्मलोकस्थो धुरं वहति लौकिकीम् ॥
चरितं तस्य विप्रेन्द्र दिव्यं भगवतो दिवि
विस्तरेण यथातत्त्वं सर्वम् इच्छामि वेदितुम् ॥
शृणु नारायणस्यादौ विस्तरेण प्रवृत्तयः
ब्रह्मलोकं यथारूढो ब्रह्मणा सह मोदते ॥
कामं तस्य गतिः सूक्ष्मा देवैर् अपि दुरानुगा
यत् तु शक्ष्याम्य् अहं वक्तुं तन् मे निगदतः शृणु ॥
एष लोकमयो देवो लोकाश् चैतन् मयास्त्रयः
एष देवमयश् चैव देवाश् चैतन् मया दिवि ॥
देवेन वर्धते यद् धि सर्वं तद् धि जनार्दनात्
यत् प्रवृत्तं च देवेभ्यस् तद् विद्धि मधुसूदनात् ॥
अग्नीषोममयं लोकं यं विदुर् विदुषो जनाः
तं सोमम् अग्निं लोकं च वेद विष्णुं पितामहः ॥
क्षीराद् यथा दधि भवेद् दध्नः सर्पिर् यथा भवेत्
मथ्यमानेषु भूतेषु तथा लोको जनार्दनात् ॥
यथेन्द्रियैश् च भूतैश् च परमात्मा विधीयते
तथा वेदैश् च देवैश् च लोकैश् च विदितो हरिः ॥
यथा भूतेन्द्रियावाप्तिर् विहिता भुवि देहिनाम्
तथा प्राणेश्वरावाप्तिर् देवानां दिवि वैष्णवी ॥
सत्रिणां सत्रफलदः पवित्रं परमात्मवान्
लोकतन्त्रधरो ह्य् एव मन्त्रैर् मन्त्र इवार्च्यते ॥
अस्य पारं न पश्यन्ति बहवः पारतन्त्रिणः
एष पारं परं चैव लोकानां वेद माधवः ॥
अस्य देवान् धकारस्य मार्गितव्यस्य दैवतैः
शृणु वै यत् तदा वृत्तं ब्रह्मलोके पुरातनम् ॥
स गत्वा ब्रह्मणो लोकं दृष्ट्वा पैतामहं पदम्
ववन्दे तान् ऋषीन् सर्वान् विष्णुर् आर्षेण कर्मणा ॥
सो ऽग्निं प्राक् सवने दृष्ट्वा हूयमानं महर्षिभिः
अवन्दत महातेजाः कृत्वा पौर्वाह्णिकं विधिम् ॥
स ददर्श मखेष्व् आज्यैर् इज्यमानं महर्षिभिः
भागं यज्ञियम् अश्नानं स्वदेहम् अपरं स्थितम् ॥
अभिवाद्याभिवाद्यानाम् ऋषीणां ब्रह्मवर्चसाम्
परिचक्राम सो ऽचिन्त्यो ब्रह्मलोकं सनातनम् ॥
स ददर्शोच्छ्रितान् यूपांश् चषालाग्रविभूषितान्
मखेषु च ब्रह्मर्षिभिः शतशः कृतलक्षणान् ॥
आज्यधूमं समाघ्राय शृण्वन् वेदान् द्विजेरितान्
यज्ञैर् इज्यन्तम् आत्मानम् पश्यंस् तत्र चचार ह ॥
तम् ऊचुर् ऋषयो देवाः सदस्याः सदसि स्थिताः
अर्घ्योद्यतभुजाः सर्वे पवित्रान् तरिताननाः ॥
स्वागतं ते सुरश्रेष्ठ पद्मनाभ महाद्युते
नमो ऽस्तु ते हृषीकेश मधुकैटभसूदन ।
दामोदर नमस् ते ऽस्तु पद्मपत्रायतेक्षण ॥
प्रभुस् त्वं सर्वदेवानां लोकानां प्रभुर् अव्ययः ।
त्वं यज्ञस् त्वं वषट्कारस् त्वयि सर्वं प्रतिष्ठितम् ।
इदं यज्ञियम् आतिथ्यं मन्त्रतः प्रतिगृह्यताम् ॥
त्वम् अस्य यज्ञपूतस्य पात्रं पाद्यस्य पावनः
अतिथिस् त्वं हि मन्त्रोक्तः स दृष्टः सततं मतः ॥
त्वयि योद्धु गते विष्णो न प्रावर्तन्त नः क्रियाः
अवैष्णवस्य यज्ञस्य न हि कर्म विधीयते ॥
सदक्षिणस्य यज्ञस्य त्वत्प्रसूतं फलं भवेत्
सदक्षिणमहायज्ञास् त्वत्प्रसूतिर् जनार्दन ।
यद्य् आत्मानम् इहास्माभिर् इज्यमानं निरीक्षसे ॥
एवम् अस्त्व् इति तान् विप्रान् भगवान् प्रत्यपूजयत्
मुमुदे ब्रह्मलोकस्थो ब्रह्मैव हि पितामहः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0