हरिवंश · अध्याय 3
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणैव वैशंपायन कीर्तय ॥
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा
यथा ससर्ज भूतानि तथा शृणु महीपते ॥
मनसा त्व् एव भूतानि पूर्वम् एवासृजत् प्रभुः
ऋषीन् देवान् सगन्धर्वान् असुरान् अथ राक्षसान् ॥
यदास्य यतमानस्य न व्यवर्धन्त वै प्रजाः
अपध्याता भगवता महादेवेन धीमता ।
ततः संचिन्त्य तु पुनः प्रजाहेतोः प्रजापतिः ॥
स मैथुनेन धर्मेण सिसृक्षुर् विविधा प्रजाः
असिक्नीम् आवहत् पत्नीं वीरणस्य प्रजापतेः
सुतां सुतपसा युक्तां महतीं लोकधारणीम् ॥
अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान्
असिक्न्यां जनयाम् आस दक्ष एव प्रजापतिः ॥
तांस् तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः
देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम्
नाशाय वचनं तेषां शापायैवात्मनस् तथा ॥
यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत्
दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः ॥
पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः
असिक्न्याम् अथ वैरण्यां भूयो देवर्षिसत्तमः
तं भूयो जनयाम् आस पितेव मुनिपुंगवम् ॥
तेन दक्षय पुत्रा वै हर्यश्वा इति विश्रुताः
निर्मथ्य नाशिताः सर्वे विधिना च न संशयः ॥
तस्योद्यतस् तदा दक्षो नाशायामितविक्रमः
ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना ॥
ततो ऽभ्निसंधिं चक्रे वै दक्षस् तु परमेष्ठिना
कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति ॥
ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने
स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः ॥
कथं प्रणाशिताः पुत्रा नारदेन महर्षिना
प्रजापतेर् द्विजश्रेष्ठ श्रोतुम् इच्छामि तत्त्वतः ॥
दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः
समागता महावीर्या नारदस् तान् उवाच ह ॥
बालिशा बत यूयं ये नास्या जानीत वै भुवः
प्रमाणं स्रष्टुकामा वै प्रजा प्राचेतसात्मजाः ।
अन्तर् ऊर्ध्वम् अधश् चैव कथं स्रक्ष्यथ वै प्रजाः ॥
ते तु तद्वचनं श्रुत्वा प्रयाता सर्वतोदिशम्
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥
हर्यश्वेष्व् अथ नष्टेषु दक्षः प्राचेतसः पुनः
वैरण्याम् एव पुत्राणां सहस्रम् असृजत् प्रभुः ॥
विवर्धयिषवस् ते तु शबलाश्वाः प्रजास् तदा
पूर्वोक्तं वचनं तात नारदेनैव चोदिताः ॥
अन्योन्यम् ऊचुस् ते सर्वे सम्यग् आह महान् ऋषिः
भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः
ज्ञात्वा प्रमाणं पृथ्व्याश् च सुखं स्रक्ष्यामहे प्रजाः ॥
ते ऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम्
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥
तदाप्रभृति वै भ्राता भ्रातुर् अन्वेषणे नृप
प्रयातो नश्यति विभो तन् न कार्यं विपश्यता ॥
तांश् चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः
तद्भीत्या नारदं शप्त्वा कन्या एवासृजत् प्रभुः ।
षष्टिं दक्षो ऽसृजत् कन्या वैरण्याम् इति न श्रुतम् ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश
सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमये ॥
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा
द्वे भृशाश्वाय विदुषे तासां नामानि मे शृणु ॥
अरुन्धती वसुर् जामी लम्बा भानुर् मरुत्वती
संकल्पा च मुहूर्ता च साध्या विश्वा च भारत
धर्मपत्न्यो दश त्व् एतास् तास्व् अपत्यानि मे शृणु ॥
विश्वेदेवास् तु विश्वायाः साध्या साध्यान् व्यजायत
मरुत्वत्यां मरुत्वन्तो वसोस् तु वसवः स्मृताः ॥
भानोस् तु भानवस् तात मुहूर्तास् तु मूहूर्तजाः
लम्बायाश् चैव घोषो ऽथ नागवीथी च जामिजा ॥
पृथिवीविषयं सर्वम् अरुन्धत्यां व्यजायत
संकल्पायास् तु सर्वात्मा जज्ञे संकल्प एव च ॥
या राजन् सोमपत्न्यस् तु दक्षः प्राचेतसो ददौ
सर्वा नक्षत्रनाम्न्यस् तु ज्योतिषे परिकीर्तिताः ॥
ये त्व् अनेके सुरगणा देवा ज्योतिःपुरोगमाः
वसवो ऽष्टौ समाख्यातास् तेषां वक्ष्यामि विस्तरम् ॥
आपो ध्रुवश् च सोमश् च धरश् चैवानिलो ऽनलः
प्रत्यूषश् च प्रभसश् च वसवो नामभिः श्रुताः ॥
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस् तथा
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥
सोमस्य भगवान् वर्चा वर्चस्वी येन जायते
धरस्य पुत्रो द्रविणो हुतहव्यवहस् तथा
मनोहरायाः शिशिरः प्राणो ऽथ रमणस् तथा ॥
अनिलस्य शिवा भार्या यस्याः पुत्रः पुरोजवः
अविज्ञातगतिश् चैव द्वौ पुत्राव् अनिलस्य तु ॥
अग्निपुत्रः कुमारस् तु शरस्तम्बे श्रिया वृतः
तस्य शाखो विशाखश् च नैगमेषश् च पृष्ठजः
अपत्यं कृत्तिकानां स कार्त्तिकेय इति स्मृतः ॥
प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम्
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥
बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मचारिणी
योगसिद्धा जगत् कृत्स्नम् असक्ता विचचार ह ॥
प्रभासस्य तु भार्या सा वसूनाम् अष्टमस्य तु
विस्वकर्मा महाभागस् तस्यां जज्ञे प्रजापतिः ॥
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥
यः सर्वेषां विमानानी दैवतानां चकार ह
मानुषाश् चोपजीवन्ति यस्य शिल्पं महात्मनः ॥
अजैकपाद् अहिर्बुध्न्यस् त्वष्टा रुद्रश् च वीर्यवान्
त्वष्टुश् चैवात्मजः श्रीमान् विश्वरूपो महायशाः ॥
हरश् च बहुरूपश् च त्र्यम्बकश् चापराजितः
वृषाकपिश् च शंभुश् च कपर्दी रैवतस् तथा ॥
एकादशैते कथिता रुद्रास् त्रिभुवनेश्वराः
शतं चैवं समाख्यातं रुद्राणाम् अमितौजसाम् ॥
अदितिर् दितिर् दनुश् चैव अरिष्टा सुरसा तथा
सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा
कद्रूर् मुनिश् च लोकेश तास्व् अपत्यानि मे शृणु ॥
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः
तुषिता नाम ते ऽन्योन्यम् ऊचुर् वैवस्वते ऽन्तरे ॥
उपस्थिते ऽतियशस्यश् चाक्षुषस्यान्त्रे मनोः
हितार्थं सर्वलोकानां समागम्य परस्परम् ॥
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै
मन्वन्तरे प्रसूयामस् तन् नः श्रेयो भविष्यति ॥
एवम् उक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः
मारीचात् कश्यपाज् जातास् ते ऽदित्या दक्षकन्यया ॥
तत्र विष्णुश् च शक्रश् च जज्ञाते पुनर् एव हि
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥
विवस्वान् सविता चैव मित्रो वरुण एव च
अंशो भगश् चातितेजा आदित्या द्वादश स्मृताः ॥
चाक्षुषस्यान्तरे पूर्वम् आसन् ये तुषिताः सुराः
वैवस्वते ऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥
सप्तविंशत् तु याः प्रोक्ताः सोमपत्न्यो ऽथ सुव्रताः
तासाम् अपत्यान्य् अभवन् दीप्तान्य् अमिततेजसाम् ॥
अरिष्टनेमेः पत्नीनाम् अपत्यानीह षोडश
बहुपुत्रस्य विदुषश् चतस्रो विद्युतः स्मृताः
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥
भृशाश्वस्य तु देवर्षेर् देवप्रहरणाः सुताः
एते युगसहस्रान्ते जायन्ते पुनर् एव ह ॥
सर्वे देवगणास् तात त्रयस् त्रिंशत् तु कामजाः
तेषाम् अपि च राजेन्द्र निरोधोत्पत्तिर् उच्यते ॥
यथा सूर्यस्य कौरव्य उदयास्तमयाव् इह
तथा युगानि राजेन्द्र प्रळया मनवस् तथा ।
एवं देवनिकायास् ते संभवन्ति युगे युगे ॥
दित्याः पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम्
कश्यपस्यात्मजाव् एतौ सर्वेभ्यः पूर्वजौ मतौ ।
हिरण्यकशिपुश् चैव हिरण्याक्षश् च भारत
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ॥
हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः
अनुह्रादश् च ह्रादश् च प्रह्रादश् चैव वीर्यवान् ॥
संह्रादस् च चतुर्थो ऽभूद् ध्रादपुत्रो ह्रदस् तथा
संह्रादपुत्रौ सुन्दश् च निसुन्दस् ताव् उभौ स्मृतौ ।
ह्रदस्य पुत्रो ऽप्य् आयुर् वै शिवः कालस् तथैव च
संह्रादपुत्र आयुष्माञ् शिबिर् बाष्कल एव च ।
तेषां मध्ये महाभाग सर्वत्र समदृग् वशी ।
प्रह्रादः परमां भक्तिं य उवाच जनार्दने ।
विरोचनश् च प्राह्रादिर् बलिर् जज्ञे विरोचनात् ॥
बलेः पुत्रशतं त्व् आसीद् बाणज्येष्ठं नराधिप
धृतराष्ट्रश् च सूर्यश् च चन्द्रमाश् चेन्द्रतापनः ॥
कुम्भनाभो गर्दभाक्षः कुक्षिर् इत्य् एद्वमादयः
बाणस् तेषाम् अतिबलो ज्येष्ठः पशुपतेः प्रियः ॥
पुराकल्पे हि बाणेन प्रसाद्योमापतिं प्रभुम्
पार्श्वतो मे विहारः स्याद् इत्य् एवं याचितो वरः ॥
हिरणाक्ससुताः पञ्च विद्वांसः सुमहाबलाः
झर्झरः शकुनिश् चैव भूतसंतापनस् तथा
महानाभश् च विक्रान्तः कालनाभस् तथैव च ॥
अभवन् दनुपुत्रास् तु शतं तीव्रपराक्रमाः
तपस्विनो महावीर्याः प्राधान्येन निबोध तान् ॥
द्विमूर्धा शकुनिश् चैव तथा शङ्कुशिरा विभुः
शङ्कुकर्णो विवादश् च गवेष्ठी दुंदुभिस् तथा ।
अयोमुखः शम्बरश् च कपिलो वामनस् तथा ॥
मरीचिर् मघवांश् चैव इडा गर्गशिरास् तथा
विक्षोभणश् च केतुश् च केतुवीर्यशतह्रदौ ॥
इन्द्रजित् सस्र्वजिच् चैव वज्रनाभस् तथैव च
महानाभश् च विक्रान्तः कालनाभस् तथैव च ।
एकचक्रो महाबाहुस् तारकश् च महाबलः ॥
वैश्वानरः पुलोमा च विद्रावणमहाशिरौ
स्वर्भानुर् वृषपर्वा च विप्रचित्तिश् च वीर्यवान् ॥
सर्व एते दनोः पुत्राः कश्यपाद् अभिजज्ञिरे
विप्रचित्तिप्रधानास् ते दानवाः सुमहाबलाः ॥
स्वर्भानोस् तु प्रभा कन्या पुलोम्नस् तु शची सुता
उपदानवी हयशिराः शर्मिष्ठा वार्षपर्वणी ॥
पुलोमा कालका चैव वैश्वानरसुते उभे
बह्वपत्ये महासत्त्वे मारीचेस् तु परिग्रहः ॥
तयोः पुत्रसहस्राणि षष्टिं दानवसत्तमान्
चतुर्दशशतान् अन्यान् हिरण्यपुरवासिनः ।
मारीचिर् जनयाम् आस महता तपसान्वितः ॥
पौलोमाः कालकेयाश् च दानवास् ते महाबलाः
अवध्या देवतानां हि हिरण्यपुरवासिनः
पितामहप्रसादेन ये हताः सव्यसाचिना ॥
ततो ऽपरे महावीर्या दानवा अतिदारुणाः
सिंहिकायाम् अथोत्पन्ना विप्रचित्तेः सुतास् तथा ॥
दैत्यदानवसंयोगाज् जातास् तीव्रपराक्रमाः
सिंहिकेया इति ख्यातास् त्रयोदश महाबलाः ॥
व्यङ्गः शल्यश् च बलिनौ बलश् चैव महाबलः
वातापिर् नमुचिश् चैव इल्वलः खसृमस् तथा ॥
आज्जिको नरकश् चैव कालनाभस् तथैव च
राहुर् ज्येष्ठस् तु तेषां वै चन्द्रसूर्यप्रमर्दनः ।
शरः पोतरणश् चैव वज्रनाभश् च वीर्यवान् ॥
मूकश् चैव तुहुण्डश् च ह्रदपुत्रौ बभूवतुः ।
मारीचः सुन्दपुत्रश् च ताडकायां व्यजायत ।
स्वर्भानुश् च महावीर्यो वक्त्रयोधी महासुरः ।
सरमाणस् तथा चैव शरकल्पश् च वीर्यवान् ॥
एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ॥
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले
समुत्पन्नाः सुमहता तपसा भावितात्मनः ॥
षट् सुताः सुमहासत्त्वास् ताम्रायाः परिकीर्तिताः
काकी श्येनी च भासी च सुग्रीवी शुचिगृध्रिके ॥
काकी तु जनयाम् आस उलूकी प्रत्युलूककान्
श्येनी श्येनांस् तथा भासी भासान् गृध्रांश् च गृध्रिका ॥
शुचिर् औदकान् पक्षिगणान् सुग्रीवी तु परंतप
अश्वान् उष्ट्रान् गर्दभांश् च ताम्रावंशः प्रकीर्तितः ॥
विनतायास् तु पुत्रौ द्वाव् अरुणो गरुडस् तथा
सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ॥
सुरसायाः सहस्रं तु सर्पाणाम् अमितौजसाम्
अनेकशिरसां तात खेचराणां महात्मनाम् ॥
काद्रवेयास् तु बलिल्नः सहस्रम् अमितौजसः
सुपर्णवशगा नागा जज्ञिरे ऽनेकमस्तकाः ॥
तेषां प्रधानाः सततं शेषवासुकितक्षकाः
ऐरावतो महापद्मः कम्बलाश्वतराव् उभौ ॥
ऐलापत्रश् च शङ्खश् च कर्कोटकधनंजयौ
महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ ॥
कुहरः पुष्पदंष्ट्रश् च दुर्मुखः सुमुखस् तथा
शङ्खश् च शङ्खपालश् च कपिलो वामनस् तथा ॥
नहुषः शङ्खरोमा च मणिर् इत्य् एवमादयः
एते चान्ये च बहवो दंदशूका विषोल्बणाः ।
तेषां पुत्राश् च पौत्राश् च गरुडेन निपातिताः ।
चतुर्दशसहस्राणि क्रूराणाम् उरगाशिना ।
गणं क्रोधवशं विद्धि तत्र सर्वे च दंष्ट्रिणः ॥
स्थलजाः पक्षिणो ऽब्जास् च धरायाः प्रसवः स्मृतः
अनायुषायाः पुत्रास् तु पञ्चाशत् सुमहाबलाः ।
सुरतो गुणवृत्तश् च विक्षरो ऽथ नृपस् तथा ।
गास् तु वै जनयाम् आस सुरभी महिषी तथा ॥
इरा वृक्षलतावल्लीस् तृणजातीश् च सर्वशः
खसा तु यक्षरक्सांसि मुनिर् अप्सरसस् तथा ॥
अरिष्टा तु महासत्त्वान् गन्धर्वान् अमितौजसः
एते कश्यपदायादाः कीर्तिताः स्थाणुजंगमाः ॥
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः
एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः ॥
वैवस्वते तु महति वारुणे वितते क्रतौ
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥
पूर्वं यत्र तु ब्रह्मर्षीन् उत्पन्नान् सप्त मानसान्
पुत्रत्वे कल्पयाम् आस स्वयम् एव पितामहः ॥
ततो विरोधे देवानां दानवानां च भारत
दितिर् विनष्टपुत्रा वै तोषयाम् आस कश्यपम् ॥
तां कश्यपः प्रसन्नात्मा सम्यगाराधितस् तया
वरेण च्छन्दयाम् आस सा च वव्रे वरं तदा ॥
पुत्रम् इन्द्रवधार्थाय समर्थम् अमितौजसम्
स च तस्यै वरं प्रादात् प्रार्थितं सुमहातपाः ॥
दत्त्वा च वरम् अव्यग्रो मारीचस् ताम् अभाषत
इन्द्रं पुत्रो निहन्ता ते गर्भे चेच् छरदां शतम् ॥
यदि धारयसे शौचं तत्परा व्रतम् आस्थिता
भविष्यति सुतस् ते ऽयं यद्य् एनं धारयिष्यसि ॥
तथेत्य् अभिहितो भर्ता तया देव्या महातपाः
धारयाम् आस गर्भं तु शुचिः सा वसुधाधिप ॥
ततो ऽभ्युपगमाद् दित्यां गर्भम् आधाय कश्यपः
रोचयन् वै गणश्रेष्ठं देवानाम् अमितौजसाम् ॥
तेजः संभृत्य दुर्धर्षम् अवध्यम् अमरैः सदा
जगाम पर्तवायैव तपसे संशितव्रतः ॥
तस्याश् चैवान्तरप्रेप्सुर् अभवत् पाकशासनः
ऊने वर्षशते चास्या ददर्शान्तरम् अच्युतः ॥
अकृत्वा पादयोः शौचं दितिः शयनम् आविशत्
निद्राम् आहारयाम् आस तस्याः कुक्षिं प्रविश्य ह
वज्रपाणिस् ततो गर्भं सप्तधा तं न्यकृन्तत ॥
स पाट्यमानो गर्भो ऽथ वज्रेण प्ररुरोद ह
मा रोदीर् इति तं शक्रः पुनः पुनर् अभाब्रवीत् ॥
सो ऽभवत् सप्तधा गर्भस् तम् इन्द्रो रुषितः पुनः
एकैकं सप्तधा चक्रे वज्रेणैवारिकर्शनः
तेन रोदनशब्देन दितिः सा प्रत्यबुध्यत ।
उवाच शक्रम् आर्ता सा किं त्व् एतत् कृपणं कृतम् ॥
स भीतो निश्चरत् तस्माद् योनिद्वारात् पुरंदरः ।
ततः पार्श्वगतो देव्याः पादयोर् निपपात ह ॥
अशुचिर् देवि सुप्तासि पादयोः कृतमूर्धजा ।
मयात्मवधभीतेन कृतं तत् क्षन्तुम् अर्हसि ॥
एवमुक्ता तु सा देवी आह शक्रम् इदं वचः ।
सुकृतं साधु ते पुत्र न ते भवति दुष्कृतम् ॥
किं तु वक्ष्याम्य् अहं किंचित् तत् कुरुष्वारिमर्दन ।
ममैव पुत्रस् त्वं देव रक्ष चैतान् यदीच्छसि ।
बाढम् इत्य् अब्रवीद् इन्द्र एवम् एतन् न संशयः ।
मरुतो नाम देवास् ते बभूवुर् भरतर्षभ ॥
यथोक्तं वै मघवता तथैव मरुतो ऽभवन्
मा रोदीर् इति यच् छब्दस् त्वयोक्तः पाकशासन ।
मरुतो नाम तेनेमे भवन्तु यदि मन्यसे ।
देवासुरेषु युद्धेषु भृत्यास् तव कृते विभो ।
पृष्ठतो ऽनुगमिष्यन्ति वशगास् ते पुरंदर ॥
एवं ब्रुवाणां तां देवीं प्राह शक्रस् त्व् इदं वचः ।
देवा एकोनपञ्चाशत् सहाया वज्रपाणिनः ॥
तेषाम् एवं प्रवृद्धानां भूतानां जनमेजय
निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन्
क्रमशस् तानि राज्यानि पृथोः पूर्वं तु भारत ॥
स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः
पर्जन्यस् तपनो व्यक्तस् तस्य सर्वम् इदं जगत् ॥
प्रयतो भव राजेन्द्र शृणुष्वैकमनास् ततः ।
नाशुद्धे नाशुचौ वापि नाशिष्याय कथंचन ॥
वर्णयेयम् अहं राजन् कृतज्ञाय हिताय च ।
स्वर्ग्यं यशस्यम् आयुष्यं पुण्यं वेदेन संमितम् ।
भूतसर्गम् इमं सम्यग् जानतो भरतर्षभ
मरुतां च शुभं जन्म शृण्वतः पठतो ऽपि वा ।
नावृत्तिभयम् अस्तीह परलोकभयं कुतः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0