हरिवंश · अध्याय 38
पञ्च तं नाभ्यवर्तन्त विपरीतेन कर्मणा
वेदो धर्मः क्षमा सत्यं श्रीश् च नारायणाश्रया ॥
स तेषाम् अनुपस्थानात् सक्रोधो दानवेश्वरः
वैष्णवं पदम् अन्विच्छन् ययौ नारायणान्तिकम् ॥
स ददर्श सुपर्णस्थं शङ्खचक्रगदाधरम्
दानवानां विनाशाय भ्रामयन्तं गदां शुभाम् ॥
सजलाम्भोदसदृशं विद्युत्सदृशवाससम्
स्वारूढं स्वर्णपत्राढ्यं शिखिनं काश्यपं खगम् ॥
दृष्ट्वा दैत्यविनाशाय रणे स्वस्थम् अवस्थितम्
दानवो विष्णुम् अक्षोभ्यं बभाषे क्षुब्धमानसः ॥
अयं स रिपुर् अस्माकं पूर्वेषां दानवर्षिणाम्
अर्णवावासिनश् चैव मधोर् वै कैटभस्य च ॥
अयं स विग्रहो ऽस्माकम् अशाम्यः किल कथ्यते
येन नः संयुगेष्व् अद्य बहवो दानवा हताः ॥
अयं स निर्घृणो युद्धे स्त्रीबालनिरपत्रपः
येन दानवनारीणां सीमन्तोद्धरणं कृतम् ॥
अयं स विष्णुर् देवानां वैकुण्ठश् च दिवौकसाम्
अनन्तो भोगिनाम् अप्सु स्वयंभूश् च स्वयंभुवः ॥
अयं स नाथो देवानाम् अस्माभिर् विप्रकृष्यताम्
अस्य क्रोधं समासाद्य हिरण्यकशिपुर् हतः ॥
अस्य च्छायां समाश्रित्य देवा मखमुखे स्थिताः
आज्यं महर्षिभिर् दत्तम् अश्नुवन्ति त्रिधा हुतम् ॥
अयं स निधने हेतुः सर्वेषां दैतवद्विषाम्
अस्य चक्रं प्रविष्टानि कुलान्य् अस्माकम् आहवे ॥
अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः
सवितुस् तेजसा तुल्यं चक्रं क्षिपति शत्रुषु ॥
अयं स कालो दैत्यानां कालभूते मयि स्थिते
अतिक्रान्तस्य कालस्य फलं प्राप्स्यति दुर्मतिः ॥
दिष्ट्येदानीं समक्षं मे विष्णुर् एष समागतः
अद्य मद्बाणनिष्पिष्टो मय्य् एव प्रणमिष्यति ॥
यास्याम्य् अपचितिं दिष्ट्या पूर्वेषाम् अद्य संयुगे
इमं नारायणं हत्वा दानवानां भयावहम् ॥
क्षिप्रम् एव वधिष्यामि रणे नारायणं शैरैः
जात्यन्तरगतो ह्य् एष मृधे बाधति दानवान् ॥
एषो ऽन्तकः पुरा भूत्वा पद्मनाभ इति स्मृतः
जघानैकार्णवे घोरे ताव् उभौ मधुकैटभौ ॥
द्विधाभूतं वपुः कृत्वा सिंहार्धं नरसंस्थितम्
पितरं मे जघानैको हिरण्यकशिपुं पुरा ॥
शुभं गर्भम् अधत्तैनम् अदितिर् देवतारणिः
यज्ञकाले बलेर् यो वै कृत्वा वामनरूपताम् ।
त्रींल् लोकांश् च जहारैष क्रममाणस् त्रिभिः क्रमैः ॥
भूयस् त्व् इदानीं समरे संप्राप्ते तारकामये
मया सह समागम्य सदेवो विनशिष्यति ॥
स एवम् उक्त्वा बहुधा क्षिपन् नारायणं रणे
वाग्भिर् अप्रतिरूपाभिर् युद्धम् एवाभ्यरोचयत् ॥
क्षिप्यमाणो ऽसुरेन्द्रेण य चुकोप गदाधरः
क्षमाबलेन मनसा सस्मितं वाक्यम् अब्रवीत् ॥
अलं दर्पबलं दैत्य स्थिरं मत्क्रोधजं बलम्
हतस् त्वं दर्पजैर् दोषैः क्षमां यो ऽतीत्य भाषसे ॥
अधमस् त्वं मम मतो धिग् एतत् तव वाग्बलम्
न तत्र पुरुषाः सन्ति यत्र गर्जन्ति योषितः ॥
अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम्
प्रजापतिकृतं सेतुं को भित्त्वा स्वस्तिमान् व्रजेत् ॥
अद्य त्वां नाशयिष्यामि देवव्याघातकारिणम्
स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः ॥
एवं ब्रुवति वाक्यं तु मृधे श्रीवत्सधारिणि
जहास दानवः क्रोधाद् धस्तांश् चक्रे च सायुधान् ॥
स बाहुशतम् उद्यम्य सर्वास्त्रग्रहणं रणे
क्रोधाद् रुधिररक्ताक्षो विष्णोर् वक्षस्य् अताडयत् ॥
दानवाश् चापि समरे मयतारपुरोगमाः
उद्यतायुधनिस्त्रिंशाः सर्वे विष्णुम् अभिद्रवन् ॥
स ताड्यमानो ऽतिबलैर् दैत्यैः सर्वायुधोद्यतैः
न चचाल हरिर् युद्धे ऽकम्प्यमान इवाचलः ॥
संसक्तश् च सुपर्णेन कालनेमिर् महासुरः
सर्वप्राणेन महतीं गदाम् उद्यम्य बाहुभिः
मुमोच ज्वलितां घोरां संरब्धो गरुडोपरि ॥
कर्मणा तेन दैत्यस्य विष्णुर् विस्मयम् आगमत्
स तेन ताडितः पक्षी चचाल च पुनः पुनः ।
हरिणा वर्धितबलो न मोहम् उपगच्छति ।
येन तस्य सुपर्णस्य पतिता मूर्ध्नि सा गदा ॥
सुपर्णं व्यथितं दृष्ट्वा क्षतं च वपुर् आत्मनः
क्रोधात् संरक्तनयनो वैकुण्ठश् चक्रमाददे ॥
व्यवर्धत च वेगेन सुपर्णेन समं विभुः
भुजाश् चास्य व्यवर्धन्त व्याप्नुवन्तो दिशो दश ॥
स दिशः प्रदिशश् चैव खं च गां चैव पूरयन्
ववृधे स पुनर् लोकान् क्रान्तुकाम इवौजसा ॥
तं जयाय सुरेन्द्राणां वर्धमानं नभस्तले
ऋषयः सह गन्धर्वैस् तुष्टुवुर् मधुसूदनम् ॥
स द्यां किरीटेन लिखन् साभ्रम् अम्बरम् अम्बरैः
पद्भ्याम् आक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः ॥
स सूर्यकरतुल्याभं सहस्रारम् अरिक्षयम्
दीप्ताग्निसदृशं घोरं दर्शनीयं सुदर्शनम् ॥
सुवर्णरेणुपर्यन्तं वज्रनाभं भयावहम्
मेदोस्थिमज्जारुधिरैः सिक्तं दानवसंभवैः ॥
अद्वितीयं प्रहारेषु क्षुरपर्यन्तमण्डलम्
स्रग्दाममालाविततं कामगं कामरूपिणम् ॥
स्वयं स्वयंभुवा सृष्टं भयदं सर्वविद्विषाम्
महर्षिरोषैर् आविष्टं नित्यम् आहवदर्पितम् ॥
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजंगमाः
क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे ॥
तम् अप्रतिमकर्माणं समानं सूर्यवर्चसा
चक्रम् उद्यस्य समरे क्रोधदीप्तो गदाधरः ॥
संमुष्णन् दानवं तेजः समरे स्वेन तेजसा
चिच्छेद बाहूंश् चक्रेण श्रीधरः कालनेमिनः ॥
तच् च वक्त्रशतं घोरं साग्निचूर्णाट्टहासि यत्
तस्य दैत्यस्य चक्रेण प्रममाथ बलाद् धरिः ॥
स च्छिन्नबाहुर् विशिरा न प्राकम्पत दानवः
कबन्धावस्थितः संख्ये विशाख इव पादपः ॥
तं वितत्य महापक्षौ वायोः कृत्वा समं जवम्
उरसा पातयाम् आस गरुडः कालनेमिनम् ॥
स तस्य देहो विमुखो विशाखः खात् परिभ्रमन्
निपपात दिवं त्यक्त्वा क्षोभयन् धरणीतलम् ॥
तस्मिन् निपतिते दैत्ये देवाः सर्षिगणास् तदा
साधु साध्व् इति वैकुण्ठं समेताः प्रत्यपूजयन् ॥
अपरे ये तु दैत्या वै युद्धे दृष्टपराक्रमाः
ते सर्वे बाहुभिर् व्याप्ता न शेकुश् चलितुं रणे ॥
कांश्चित् केशेषु जग्राह कांश्चित् कण्ठे न्यपीडयत्
पाटयन् कस्यचिद् वक्त्रं मध्ये कांश्चिद् अगृह्यत ॥
ते गदाचक्रनिर्दग्धा गतसत्त्वा गतासवः
गगनाद् भ्रष्टसर्वाङ्गा निपेतुर् धरणीतले ॥
तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः
तस्थौ शक्रप्रियं कृत्वा कृतकर्मा गदाधरः ॥
तस्मिन् विमर्दे निर्वृत्ते संग्रामे तारकामये
तं देशम् आजगामाशु ब्रह्मा लोकपितामहः ॥
सर्वैर् ब्रह्मर्षिभिः सार्धं गन्धर्वैः साप्सरोगणैः
देवदेवो हरिं देवं पूजयन् वाक्यम् अब्रवीत् ॥
कृतं देव महत्कर्म सुराणां शल्यम् उद्धृतम्
वधेनानेन दैत्यानां वयं च परितोषिताः ॥
यो ऽयं त्वया हतो विष्णो कालनेमिर् महासुरः
त्वम् एको ऽस्य मृधे हन्ता नान्यः कश्चन विद्यते ॥
एष देवान् परिभवंल् लोकांश् च सचराचरान्
ऋषीणां कदनं कृत्वा माम् अपि प्रतिगर्जति ॥
तद् अनेन तवोग्रेण परितुष्टो ऽस्मि कर्मणा
यद् अयं कालतुल्याभः कालनेमिर् निपातितः ॥
तदागच्छस्व भद्रं ते गच्छाम दिवम् उत्तमम्
ब्रह्मर्षयस् त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः ॥
किं चाहं तव दास्यामि वरं वरभृतां वर
सुरेष्व् अपि सदैत्येषु वराणां वरदो भवान् ॥
निर्यातयैतत् त्रैलोक्यं स्फीतं निहतकण्टकम्
अस्मिन्न् एव मृधे विष्णो शक्राय सुमहात्मने ॥
एवम् उक्तो भगवता ब्रह्मणा हरिर् ईश्वरः
देवाञ् शक्रमुखान् सर्वान् उवाच शुभया गिरा ॥
श्रूयतां त्रिदशाः सर्वे यावन्तः स्थ समागताः
श्रवणावहितैर् देवैः पुरस्कृत्य पुरंदरम् ॥
अस्मिन् नः समरे सर्वे कालनेमिमुखा हताः
दानवा विक्रमोपेताः शक्राद् अपि महत्तराः ॥
अस्मिन् महति संक्रन्दे द्वाव् एव तु विनिःसृतौ
वैरोचनिश् च दैत्येन्द्रः स्वर्भानुश् च महाग्रहः ॥
तद् इष्टां भजतां शक्रो दिशं वरुण एव च
याम्यां यमः पालयताम् उत्तरां च धनाधिपः ॥
ऋक्षैः सह यथायोगं कालं चरतु चन्द्रमाः
अब्दं ह्य् ऋतुमुखं सूर्यो भजताम् अयनैः सह ॥
आज्यभागाः प्रवर्तन्तां सदस्यैर् अभिपूजिताः
हूयन्ताम् अग्नयो विप्रैर् वेददृष्टेन कर्मणा ॥
देवाश् च बलिहोमेन स्वाध्यायेन महर्षयः
श्राद्धेन पितरश् चैव तृप्तिं यान्तु यथासुखम् ॥
वायुश् चरतु मार्गस्थस् त्रिधा दीप्यतु पावकः
त्रयो वर्णाश् च लोकांस् त्रींस् तर्पयन्त्व् आत्मजैर् गुणैः ॥
क्रतवः संप्रवर्तन्तां दीक्षणीयैर् द्विजातिभिः
दक्षिणाश् चापि वर्तन्तां यथोक्तं सर्वसत्रिणाम् ॥
गाश् च सूर्यो रसान् सोमो वायुः प्राणांश् च प्राणिषु
तर्पयन्तः प्रवर्तन्तां शिवैः सौम्यैश् च कर्मभिः ॥
यथावद् अनुपूर्वेण महेन्द्र सलिलोद्वहाः
त्रैलोक्यमातरः सर्वाः सागरं यान्तु निम्नगाः ॥
दैत्येभ्यस् त्यज्यतां भीतिः शान्तिं व्रजत देवताः
स्वस्ति वो ऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम् ॥
स्वगृहे स्वर्गलोके वा संग्रामे वा विशेषतः
विस्रम्भो वो न गन्तव्यो नित्यं क्षुद्रा हि दानवाः ॥
छिद्रेषु प्रहरन्त्य् एते न चैषां संस्थितिर् ध्रुवा
सौम्यानाम् ऋजुभावानां भवतां चार्जवा मतिः ॥
एवम् उक्त्वा सुरगणान् विष्णुः सत्यपराक्रमः
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं महायशाः ॥
एतद् आश्चर्यम् अभवत् संग्रामे तारकामये
दानवानां च विष्णोश् च यन् मां त्वं परिपृच्छसि ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0