हरिवंश · अध्याय 37
दानवानां तु पिप्रीषुः कालनेमिः स दानवः
व्यवर्धत महातेजास् तपान्ते जलदो यथा ॥
तं त्रैलोयान्तरगतं दृष्ट्वा ते दानवेश्वराः
उत्तस्थुर् अपरिश्रान्ताः प्राप्येवामृतम् उत्तमम् ॥
ते वीतभयसंत्रासा मयतारपुरोगमाः
तारकामयसंग्रामे सततं जितकाशिनः ।
रेजुर् आयोधनगता दानवा युद्धकङ्क्षिणः ॥
मन्त्रम् अभ्यस्यतं तेषां व्यूहं च परिधावताम्
प्रेक्षतां चाभवत् प्रीतिर् दानवं कालनेमिनम् ॥
ये तु तत्र मयस्यासन् मुख्या युद्धपुरःसराः
तेऽपि सर्वे भयं त्यक्त्वा हृष्टा योद्धुम् उपस्थिताः ॥
मयस् तारो वराहश् च हयग्रीवश् च वीर्यवान्
विप्रचित्तिसुतः श्वेतः खरलम्बाव् उभाव् अपि ॥
अरिष्टो बलिपुत्रश् च किशोराष्ट्रौ तथैव च
स्वर्भानुश् चामरप्रख्यो वक्त्रयोधी महासुरः ॥
एते ऽस्त्रविदुषः सर्वे सर्वे तपसि संस्थिताः
दानवाः कृतिनो जग्मुः कालनेमिनम् उत्तमम् ॥
ते गदाभिश् च गुर्वीभिश् चक्रैश् च सपरश्वघैः
कालकल्पैश् च मुसलैः क्षेपणीयैश् च मुद्गरैः ॥
अश्मभिश् चाट्टसदृशैर् गण्डशैलैश् च दंशितैः
पट्टिसैर् भिण्डिपालैश् च परिघैश् चोत्तमायसैः ॥
घातनीभिश् च गुर्वीभिः शतघ्नीभिस् तथैव च
युगैर् यन्त्रैश् च निर्मुक्तैर् अर्गलैश् चाग्रताडितैः ॥
दोर्भिश् चायतपीनाभिः प्रासैः पाशैश् च मुद्गरैः
सर्पैर् लेलिह्यमानैश् च विसर्पद्भिश् च सायकैः ॥
वज्रैः प्रहरणीयैश् च दीप्यद्भिश् चापि तोमरैः
विकोशैश् चासिभिस् तीक्ष्णैः शूलैश् च शितनिर्मलैः ॥
ते वै संदीप्तमनसः प्रगृहीतोत्तमायुधाः
कालनेमिं पुरस्कृत्य तस्थुः संग्राममूर्धनि ॥
सा दीप्तशस्त्रप्रवरा दैत्यानां शुशुभे चमूः
द्यौर् निमीलितनक्षत्रा घननीलाम्बुदागमे ॥
देवतानाम् अपि चमूर् मुमुदे शक्रपालिता
दीप्ता शीतोष्णतेजोभ्यां चन्द्रभास्करतेजसा ॥
वायुवेगवती सौम्या तारागणपताकिनी
तोयदाविद्धवसना ग्रहनक्षत्रहासिनी ॥
यमेन्द्रवरुणैर् गुप्ता धनदेन च धीमता
संप्रदीप्ताग्निपवना नारायणपरायणा ॥
सा समुद्रौघसदृशी दिव्या देवमहाचमूः
रराजास्त्रवती भीमा यक्षगन्धर्वशालिनी ॥
तयोश् चम्वोस् तदानीं तु बभूव स समागमः
द्वावापृथिव्योः संयोगो यथा स्याद् युगपर्यये ॥
तद्युद्धम् अभवद् घोरं देवदानवसंकुलम्
क्षमापराक्रममयं दर्पस्य विनयस्य च ॥
निश्चक्रमुर् बलाभ्यां तु ताभ्यां भीमाः सुरासुराः
पूर्वापराभ्यां संरब्धाः सागराभ्याम् इवाम्बुदाः ॥
ताभ्यां बलाभ्यां संहृष्टाश् चेरुस् ते देवदानवाः
वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा गजाः ॥
समाजघ्नुस् ततो भेरीः शङ्खान् दध्मुश् च नैकशः
स द्यां दिवं भुवं चैव दिशश् च समपूरयत् ॥
ज्याघाततलनिर्घोषो धनुषां कूजितानि च
दुंदुभीनां च निनदा दैत्यम् अन्तर्दधुः स्वनम् ॥
ते ऽन्योन्यम् अभिसंपेतुः पातयन्तः परस्परम्
बभञ्जुर् बाहुभिर् बाहून् द्वंद्वम् अन्ये युयुत्सवः ॥
देवतास् त्व् अशनीर् घोराः परिघांश् चोत्तमायसान्
ससर्जुर् आजौ निस्त्रिंशान् गदा गुर्वीश् च दानवाः ॥
गदानिपातैर् भग्नाङ्गा बाणैश् च शकलीकृताः
परिपेतुर् भृशं केचिन् न्युब्जाः केचिच् च जज्ञिरे ॥
ततो रथैः सतुरगैर् विमानैश् चाशुगामिभिः
समीयुस् ते सुसंरब्धा रोषाद् अन्योन्यम् आहवे ॥
संवर्तमानाः समरे विवर्तन्तस् तथापरे
रथा रथैर् निरुध्यन्ते पदाताश् च पदातिभिः ॥
तेषां रथानां तुमुलः स शब्दः शब्दवाहिनाम्
नभः स्वस्वान हि यथा नभस्ये जलदस्वनैः ॥
बभञ्जिरे रथान् केचित् केचित् संमृदिता रथैः
संबाधम् एके संप्राप्य न शेकुश् चलितुं रथाः ॥
अन्योन्यम् अन्ये समरे दोर्भ्याम् उत्क्षिप्य दर्पिताः
संह्रादमानाभरणा जघ्नुस् तत्रासिचर्मिणः ॥
अस्त्रैर् अन्ये विनिर्भिन्ना रक्तं वेमुर् हता युधि
क्षरज्जलानां सदृशा जलदानां समागमे ॥
तदस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम्
देवदानवसंक्षुब्धं संकुलं युद्धम् आबभौ ॥
तद्दानवमहामेघं देवायुधविराजितम्
अन्योन्यबाणवर्षं तद् युद्धदुर्दिनम् आबभौ ॥
एतस्मिन्न् अन्तरे क्रुद्धः कालनेमिः स दानवः
व्यवर्धत समुद्रौघैः पूर्यमाण इवाम्बुदः ॥
तस्य विद्युच्चलापीडाः प्रदीप्ताशनिवर्षिणः
गात्रान् नागशिरःप्रख्या विनिष्पेतुर् बलाहकाः ॥
क्रोधान् निःश्वसतस् तस्य भ्रूभेदस्वेदवर्षिणः
साग्निनिष्पेषपवना मुखान् निश्चेरुर् अर्चिषः ॥
तिर्यग् ऊर्ध्वं च गगने ववृधुस् तस्य बाहवः
पञ्चास्याः कृष्णवपुषो लेलिहन्त इवोरगाः ॥
सो ऽस्त्रजालैर् बहुविधैर् धनुर्भिः परिघैर् अपि
दिव्यम् आकाशम् आवव्रे पर्वतैर् उच्छ्रितैर् इव ॥
सो ऽनिलोद्धूतवसनस् तस्थौ संग्राममूर्धनि
संध्यातपग्रस्तशिखः साक्षान् मेरुर् इवाचलः ॥
ऊरुवेगप्रतिक्षिप्तैः शैलशृङ्गाग्रपादपैः
अपातयद् देवगणान् वज्रेणेव महागिरीन् ॥
बहुभिः शस्त्रनिस्त्रिंशैश् च्छिन्नभिन्नशिरोरसः
न शेकुश् चलितुं देवाः कालनेमिहता युधि ॥
मुष्टिभिर् निहताः केचित् केचिद् धि विदलीकृताः
यक्षगन्धर्वपतगाः पेतुः सह महोरगैः ॥
तेन वित्रासिता देवाः समरे कालनेमिना
न शेकुर् यत्नवन्तो ऽपि यत्नं कर्तुं विचेतसः ॥
तेन शक्रः सहस्राक्षः संदितः शरबन्धनैः
ऐरावतगतः संख्ये चलितुं न शशाक ह ॥
निर्जलाम्भोदसदृशो निर्जलार्णवसप्रभः
निर्व्यापारः कृतस् तेन विपाशो वरुणो मृधे ॥
रणे वैश्रवणस् तेन परिघैः कामरूपिभिः
विलपंल् लोकपालेशस् त्याजितो धनदक्रियाम् ॥
यमः सर्वहरस् तेन मृत्युप्रहरणो रणे
याम्याम् अवस्थाम् अमरो नीतः स्वां दिशम् आविशत् ॥
स लोकपालान् उत्साद्य हृत्वा तेषां च कर्म तत्
दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा ॥
स नक्षत्रपथं गत्वा दिव्यं स्वर्भानुदर्शितम्
जहार लक्ष्मीं सोमस्य तं चास्य विषयं महत् ॥
चालयामास दीप्तांशुं स्वर्गद्वारात् स भास्करम्
सायनं चास्य विषयं जहार दिनकर्म च ॥
सो ऽग्निं देवमुखे दृष्ट्वा चकारात्ममुखेशयम्
वायुं च तरसा जित्वा चकारात्मवशानुगम् ॥
स समुद्रान् समानीय सर्वाश् च सरितो बलात्
चकारात्मवशे वीर्याद् देहभूताश् च सिन्धवः ॥
आपः स वशगाः कृत्वा दिविजाताश् च भूमिजाः
स्थापयाम् आस जगतीं सुगुप्तां धरणीधरैः ॥
स स्वयंभूर् इवाभाति महाभूतपतिर् महान्
सर्वलोकमयो दैत्यः सर्वलोकभयावहः ॥
स लोकपालैकवपुश् चन्द्रसूर्यग्रहात्मवान्
पावकानिलसंघातो रराज युधि दानवः ॥
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवाप्यये
तं तुष्टुवुर् दैत्यगणा देवा इव पितामहम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0