भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 36

36.1

एवम् अस्त्व् इति संहृष्टः शक्रस् त्रिदशवर्धनः
संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ॥

36.2

गच्छ सोम सहायत्वं कुरु पाशधरस्य वै
असुराणां विनाशाय जयार्थं च दिवौकसाम् ॥

36.3

त्वम् अप्रतिमवीर्यश् च ज्योतिषां चेश्वरेश्वरः
त्वन्मयं सर्वलोकानां रसं रसविदो विदुः ॥

36.4

क्षयवृद्धिस् तव व्यक्ता सागरे खे च मण्डले
परिवर्तस्य् अहोरात्रं कालं जगति योजयन् ॥

36.5

लोकच्छायामयं लक्ष्म तवाङ्के शशसंस्थितम्
न विदुः सोम देवाश् च ये च नक्षत्रयोगिनः ॥

36.6

त्वम् आदित्यपथाद् ऊर्ध्वं ज्योतिषां चोपरि स्थितः
तमः प्रोत्सार्य वपुषा भासयस्य् अखिलं जगत् ॥

36.7

श्वेतभानुर् हिमतनुर् ज्योतिषाम् अधिपः शशी
अब्दकृत् कालयोगात्मा ईज्यो यज्ञरसो ऽव्ययः ॥

36.8

ओषधीशः क्रियायोनिर् अब्जयोनिर् अनुष्णभाक्
शीतांशुर् अमृताधारश् चपलः श्वेतवाहनः ॥

36.9

त्वं कान्तिः कान्तवपुषां त्वं सोमः सोमवृत्तिनाम्
सौम्यस् त्वं सर्वभूतानां तिमिरघ्नस् त्वम् ऋक्षराट् ॥

36.10

तद् गच्छ त्वं सहानेन वरुणेन वरूथिना
शमयस्वासुरीं मायां यया दह्याम संयुगे ॥

36.11

यन् मा वदसि युद्धार्थे देवराज वरप्रद
एष वर्षामि शिशिरं दैत्यमायापकर्षणम् ॥

36.12

एतान् मच्छीतनिर्दग्धान् पश्यस्व हिमवेष्टितान्
विमायान् विमदांश् चैव दैत्यसंघान् महाहवे ॥

36.13

ततो हिमकरोत्सृष्टाः सबाष्पा हिमवृष्टयः
वेष्टयन्ति स्म तान् घोरान् दैत्यान् मेघगणा इव ॥

36.14

तौ पाशशुक्लांशुधरौ वरुणेन्दू महारणे
जघ्नतुर् हिमपातैश् च पाशपातैश् च दानवान् ॥

36.15

द्वाव् अम्बुनाथौ समरे तौ पाशहिमयोधिनौ
मृधे चेरतुर् अम्भोभिः क्षुब्धाव् इव महार्णवौ ॥

36.16

ताभ्याम् आप्लावितं सैन्यं तद् दानवम् अदृश्यत
जगत्संवर्तकाम्भोदैः प्रवृत्तैर् इव संवृतम् ॥

36.17

ताव् उद्यतांशुपाशौ तु शशाङ्कवरुणाव् उभौ
तां मायां शमयाम् आस्तां देवौ दैतेयनिर्मिताम् ॥

36.18

शीतांशुजलनिर्दग्धाः पाशैश् च प्रसिता मृधे
न शेकुश् चलितुं दैत्या विशिरस्का इवाद्रयः ॥

36.19

शीतांशुनिहतास् ते तु पेतुर् दैत्या हिमार्दिताः
हिमप्लावितसर्वाङ्गा निरुष्माण इवाग्रयः ॥

36.20

तेषां तु दिवि दैत्यानां विपरीतप्रभाणि ह
विमानानि विचित्राणि प्रपतन्त्य् उत्पतन्ति च ॥

36.21

तान् पाशहस्तग्रथितांश् छादिताञ् शीतरश्मिभिः
मयो ददर्श मायावी दानवान् दिवि दानवः ॥

36.22

स शिलाजालविततां गण्डशैलाट्टहासिनीम्
पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम् ॥

36.23

सिंहव्याघ्रगजाकीर्णां नदन्तीं द्विपयूथपैः
ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम् ॥

36.24

निर्मितां स्वेन पुत्रेण क्रौञ्चेन दिवि कामगाम्
प्रथितां पार्वतीं मायां ससृजे स समन्ततः ॥

36.25

साश्मशब्दैः शिलावर्षैः प्रपतद्भिश् च पादपैः
निजघ्ने देवसंघांस् तान् दानवांश् चाप्य् अजीवयत् ॥

36.26

नैशाकरी वारुणी च माये ऽन्तर्दधतुस् ततः
अश्मभिश् चायसघनैः किरद्देवगणान् रणे ॥

36.27

साश्मसंघातविषमा द्रुमपर्वतसंकटा
अभवद् द्यौर् असंहार्या पृथिवी पर्वतैर् इव ॥

36.28

नानाहतो ऽश्मभिः कश्चिच् छिलाभिश् चाप्य् अताडितः
नानिरुद्धो द्रुमगणैर् देवो ऽदृश्यत संयुगे ॥

36.29

तद् असंस्रस्तधनुषं भग्नप्रहरणाविलम्
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरम् ॥

36.30

स हि युद्धगतः श्रीमान् ईशो न स्म व्यकम्पत
सहिष्णुत्वाज् जगत्स्वामी न चुक्रोध गदाधरः ॥

36.31

कालज्ञः कालमेघाभः समीक्षन् कालम् आहवे
देवासुरविमर्दं स द्रष्टुकामो जनार्दनः ॥

36.32

ततो भगवतादिष्टौ रणे पावकमारुतौ
मायाया मयसृष्टायाः प्रवृद्धायाः शमाय वै ।
ततः प्रवृद्धाव् अन्योन्यं प्रवृद्धज्वालवेगिनौ ।
चोदितौ विष्णुवाक्येन तौ मायाम् अपकर्षताम् ॥

36.33

ताभ्याम् उद्भ्रान्तमेघाभ्यां प्रवृद्धाभ्यां महामृधे
दग्धा सा पार्वती माया भस्मभूता ननाश ह ॥

36.34

सो ऽनलो ऽनिलसंयुक्तः सो ऽनिलश् चानलाकुलः
दैत्यसेनां ददहतुर् युगान्तेष्व् इव मूर्च्छितौ ॥

36.35

वायुः प्रधावितस् तत्र पश्चाद् अग्निश् च मारुतात्
चेरतुर् दानवानीके क्रीडन्ताव् अनिलानलौ ॥

36.36

भस्मावयवभूतेषु प्रपतत्सूत्पतत्सु च
दानवानां विमानेषु विमानेषु समन्ततः ॥

36.37

वातस्कन्धापविद्धेषु कृतकर्मणि पावके
मायावधे विनिर्वृत्ते स्तूयमाने गदाधरे ॥

36.38

निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबन्धने
संप्रहृष्टेषु देवेषु साधु साध्व् इति सर्वशः ॥

36.39

जये दशशताक्षस्य मयस्य च पराजये
दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मसंस्तरे ॥

36.40

अपावृते चन्द्रपथे स्वयनस्थे दिवाकरे
प्रकृतिस्थेषु लोकेषु नृषु चारित्रबन्धुषु ॥

36.41

अभिन्नबन्धने मृत्यौ हूयमाने हुताशने
यज्ञशोभिषु देवेषु स्वर्गार्थं दर्शयत्सु च ॥

36.42

लोकपालेषु सर्वेषु दिक्षु संयानवर्तिषु
भावे तपसि शुद्धानाम् अभावे पापकर्मणाम् ॥

36.43

देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति
त्रिपादविग्रहे धर्मे अधर्मे पादविग्रहे ॥

36.44

अपावृते महाद्वारे वर्तमाने च सत्पथे
स्वधर्मस्थेषु वर्णेषु लोके ऽस्मिन्न् आश्रमेषु च ॥

36.45

प्रजारक्षणयुक्तेषु भ्राजमानेषु राजसु
गीयमानासु गाथासु देवसंस्तवनादिषु ।
प्रशान्तकल्मषे लोके शान्ते तमसि दारुणे ॥

36.46

अग्निमारुतयोस् तस्मिन् वृत्ते संग्रामकर्मणि
तन्मया विमला लोकास् ताभ्यां जयकृतक्रियाः ॥

36.47

पूर्वदेवभयं श्रुत्वा मारुताग्निभयं महत्
कालनेमिर् इति ख्यातो दानवः प्रत्यदृश्यत ॥

36.48

भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः
मन्दरोत्कीर्णसंकाशो महारजतसंवृतः ॥

36.49

शतप्रहरणोदग्रः शतबाहुः शताननः
शतशीर्षः स्थितः श्रीमाञ् शतशृङ्ग इवाचलः
कक्षे महति संवृद्धो निदाघ इव पावकः ॥

36.50

धूम्रकेशो हरिश्मश्रुर् दंष्ट्रालौष्ठपुटाननः
त्रैलोक्यान्तरविस्तारि धारयन् विपुलं वपुः ॥

36.51

बाहुभिस् तुलयन् व्योम क्षिपन् पद्भ्यां महीधरान्
ईरयन् मुखनिःश्वासैर् वृष्टिमन्तो बलाहकान् ॥

36.52

तिर्यगायतरक्ताक्षं मन्दरोदग्रवक्षसम्
दिधक्षन्तम् इवायान्तं सर्वान् देवगणान् मृधे ॥

36.53

तर्जयन्तं सुरगणांश् छादयन्तं दिशो दश
संवर्तकाले तृषितं दृप्तं मृत्युम् इवोत्थितम् ॥

36.54

सुतलेनोच्छ्रयवता विपुलाङ्गुलिपर्वणा
लम्बाभरणपूर्णेन किंचिच् चलितवर्मणा ॥

36.55

उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता
दानवान् देवनिहतान् उत्तिष्ठत इति ब्रुवन् ॥

36.56

तं कालनेमिं समरे द्विषतां कालसंमितम्
वीक्षन्ति स्म सुराः सर्वे भयवित्रस्तलोचनाः ॥

36.57

तं स्म वीक्षन्ति भूतानि क्रमन्तं कालनेमिनम्
त्रिविक्रमे विक्रमन्तं नारायणम् इवापरम् ॥

36.58

सोच्छ्रयन् प्रथमं पादं मारुताघूर्णिताम्बरम्
प्राक्रामदसुरो युद्धे त्रासयन् सर्वदेवताः ॥

36.59

स मयेनासुरेन्द्रेण परिष्वक्तः क्रमन् रणे
कालनेमिर् बभौ दैत्यः सविष्णुर् इव मन्दरः ॥

36.60

अथ प्रविव्यथुर् देवाः सर्वे शक्रपुरोगमाः
दृष्ट्वा कालम् इवायान्तं कालनेमिं भयावहम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc