हरिवंश · अध्याय 35
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस् तदा
सुराणाम् असुराणां च परस्परजयैषिणाम् ॥
दानवा दैवतैः सार्धं नानाप्रहरणोद्यताः
समीयुर् युध्यमाना वै पर्वता इव पर्वतैः ॥
तत्सुरासुरसंयुक्तं युद्धम् अत्यद्भुतं बभौ
धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥
ततो रथैः प्रज्वलितैर् वाहनैश् च प्रचोदितैः
उत्पतद्भिश् च गगनं सासिहस्तैः समन्ततः ॥
क्षिप्यमाणैश् च मुसलैः संप्रेष्यद्भिश् च सायकैः
चापैर् विस्फार्यमाणैश् च पात्यमानैश् च मुद्गरैः ॥
तद् युद्धम् अभवद् घोरं देवदानवसंकुलम्
जगतस् त्रासजननं युगसंवर्तकोपमम् ॥
स्वहस्तमुक्तैः परिघैः क्षिप्रमुक्तैश् च पर्वतैः
दानवाः समरे जघ्नुर् देवान् इन्द्रपुरोगमान् ॥
ते वध्यमाना बलिभिर् दानवैर् जितकाशिभिः
विषण्णमनसो देवा जग्मुर् आर्तिं महामृधे ॥
ते ऽस्त्रजालैः प्रमथिताः परिघैर् भिन्नमस्तकाः
भिन्नोरस्का दितिसुतैर् वेमू रक्तं व्रणैर् बहु ॥
संदिताः पाशजालैश् च निर्यत्नाश् च शरैः कृताः
प्रविष्टा दानवीं मायां न शेकुस् ते विचेष्टितुम् ॥
तत्स्तम्भितम् इवाभाति निष्प्राणसदृशाकृति
बलं सुराणाम् असुरैर् निष्प्रयत्नायुधं कृतम् ॥
मायापाशान्विकर्षंश् च छिन्दन् वज्रेण ताञ् शरान्
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥
स दैत्यान् प्रमुखे हत्वा तद्दानवबलं महत्
तामसेनास्त्रजालेन तमोभूतम् अथाकरोत् ॥
ते ऽन्योन्यं नावबुध्यन्त देवान् वा वाहनानि वा
घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा ॥
मायापाशैर् विमुक्तास् तु यत्नवन्तः सुरोत्तमाः
वपूंषि दैत्यसंघानां तमोभूतान्य् अपातयन् ॥
अपध्वस्ता विसंज्ञाश् च तमसा नीलवर्चसः
पेतुस् ते दानवगणाश् छिन्नपक्षा इवाचलाः ॥
तद्घनीभूतदैत्येन्द्रम् अन्धकारम् इवार्णवम्
दानवं देवसदनं तमोभूतम् इवाबभौ ॥
तदासृजन्महामायां मयस् तां तामसीं दहन्
युगान्तोद्द्योतजननीं सृष्टाम् और्वेण वह्निना ॥
सा ददाह तमः सर्वं माया मयविकल्पिता
दैत्याश् चादित्यवपुषः सद्य उत्तस्थुर् आहवे ॥
मायाम् और्वीं समासाद्य दह्यमाना दिवौकसः
भेजिरे चन्द्रविषयं शीतांशुसलिलह्रदम् ॥
ते दह्यमाना और्वेण तेजसा भ्रष्टतेजसः
शशंसुर् वज्रिणे देवाः संतप्ताः शरणैषिणः ॥
संतप्ते मायया सैन्ये दह्यमाने च दानवैः
चोदितो देवराजेन वरुणो वाक्यम् अब्रवीत् ॥
पुरा ब्रह्मर्षिजः शक्र तपस् तेपे सुदारुणम्
और्वः पूर्वं स तेजस्वी सदृशो ब्रह्मणो गुणैः ॥
तं तपन्तम् इवादित्यं तपसा जगद् अव्ययम्
उपतस्थुर् मुनिगणा देवा देवर्षिभिः सह ॥
हिरण्यकशिपुश् चैव दानवो दावनेश्वरः
ऋषिं विज्ञापयाम् आस पुरा परमतेजसम् ॥
तम् ऊचुर् ब्रह्मॠषयो वचनं धर्मसंहितम्
ऋषिवंशेषु भगवञ्श् छिन्नमूलम् इदं कुलम् ॥
एकस् त्वम् अनपत्यश् च गोत्रापत्यं न वर्तते
कौमारं व्रतम् आस्थाय क्लेशम् एवानुवर्तसे ॥
बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम्
एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः ॥
धरत्सूत्सन्नभूतेषु तेषु ते नास्ति कारणम्
भवांस् तु तपसा श्रेष्ठः प्रजापतिसमद्युतिः ॥
तत्प्रवर्तस्व वंशाय वर्धयात्मानम् आत्मना
आदधत् स्वोर्जितं तेजो द्वितीयां कुरु वै तनुम् ॥
स एवम् उक्तो मुनिभिर् मुनिर् मनसि ताडितः
जगर्हे तान् ऋषिगणान् वचनं चेदम् अब्रवीत् ॥
यथायं शाश्वतो धर्मो मुनीनां विहितः पुरा
आर्षं वै सेवतां कर्म वन्यमूलफलाशिनः ॥
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मवर्तिनः
ब्रह्मचर्यं सुचरितं ब्रह्माणम् अपि चालयेत् ॥
द्विजानां वृत्तयस् तिस्रो ये गृहाश्रमवासिनः
अस्माकं तु वनं वृत्तिर् वन्याश्रमनिवासिनाम् ॥
अब्भक्षा वायुभक्षाश् च दन्तोलूखलिनस् तथा
अश्मकुट्टा दशतपाः पञ्चसप्ततपाश् च ये ॥
एते तपसि तिष्ठन्तो व्रतैर् अपि सुदुष्चरैः
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति परां गतिम् ॥
ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते
एवम् आहुः परे लोके ब्रह्मचर्यविदो जनाः ॥
ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः
ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः ॥
नास्ति योगं विना सिद्धिर् नास्ति सिद्धिं विना यशः
नास्ति लोके यशोमूलं ब्रह्मचर्यात् परं तपः ॥
यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम्
ब्रह्मचर्यं समाधत्ते किम् अतः परमं तपः ॥
अयोगे केशधरणम् असंकल्पे व्रतक्रिया
ब्रह्मचर्यं च चर्या च त्रयं स्याद् दम्भसंज्ञितम् ॥
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः
यद् इयं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥
यद्य् अस्ति तपसो वीर्यं युष्माकम् अमितात्मनाम्
मुखनेत्रविकारेण स्पर्शनैर् भाषणेन च ।
स्मरणं सुन्दरीणां च मनसो विकृतिः पुरा ।
तस्याम् उत्पत्तिम् आसाद्य तस्यां बीजं क आवेहत् ।
पापात्मा विकलो मूढो भवादृश इति श्रुतिः ।
स्मृत्वा ब्रह्मपदात् खिन्नो दृष्ट्वा शुक्रं प्रमुञ्चति ।
सृष्ट्वा विद्रावयत्य् आत्मा तस्यां बीजं क आवहेत् ।
ब्रह्मचर्ये यदा भूते भवेद् यदि विनिश्चयः ।
प्राणिनो दधति के रतिं ततो ।
योषितां वपुषि निर्घृणे ऽशुचौ ।
ब्रह्मचर्यम् अपरं सुनिश्चिताः ।
कुर्महे यद् अभिकाङ्क्षितं हृदि ।
सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥
मनसा निर्मिता योनिर् आधातव्या तपस्विना
न दारयोगं बीजं वा व्रतमुक्तं तपस्विनाम् ॥
यद् इदं लुप्तधर्मार्थं युष्माभिर् इह निर्भयैः
व्याहृतं सद्भिर् अत्यर्थम् असद्भिर् इव मे मतम् ॥
वपुर् दीप्तान्तरात्मानम् एष कृत्वा मनोमयम्
दारयोगं विना स्रक्ष्ये पुत्रम् आत्मतनूरुहम् ॥
एवम् आत्मानम् आत्मा मे द्वितीयं जनयिष्यति
वन्येनानेन विधिना दिधक्षन्तम् इव प्रजाः ॥
ऊर्वस् तु तपसाविष्टो निवेश्योरुं हुताशने
ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम् ॥
तस्योरुं सहसा भित्त्वा ज्वालामाली निरिन्धनः
जगतो दहनाकाङ्क्षी पुत्रो ऽग्निः समपद्यत ॥
ऊर्वस्योरुं विनिर्मिद्य और्वो नामान्तको ऽनलः
दिधक्षन्न् इव लोकांस् त्रीञ् जज्ञे परमकोपनः ॥
उत्पन्नमात्रश् चोवाच पितरं दीप्तया गिरा
क्षुधा मे बाधते तात जगद् धक्ष्ये त्यजस्व माम् ॥
त्रिदिवारोहिभिर् ज्वालैर् जृम्भमाणो दिशो दश
निर्दहन् सर्वभूतानि ववृधे सो ऽन्तको ऽनलः ॥
एतस्मिन्न् अनन्तरे ब्रह्मा मुनिम् ऊर्वं सभाजयन्
सर्वलोकपतिः प्रभुः ।
आजगाम मुनिर् यत्र व्यसृजत् पुत्रम् उत्तमम् ।
स ददर्शोरुम् ऊर्वस्य दीप्यमानं सुताग्निना ।
और्वकोपाग्निसंतप्तांल् लोकांश् च ऋषिभिः सह ।
तम् उवाच ततो ब्रह्मा ।
पुत्रेदं धार्यतां तेजो लोकानां क्रियतां दया ॥
अस्यापत्यस्य ते विप्र करिष्ये साह्यम् उत्तमम्
वासं चास्य प्रदास्यामि प्राशनं चामृतोपमम्
तथ्यम् एतन् मम वचः शृणु त्वं वदतां वर ॥
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यन् मे ऽद्य भगवाञ् शिशोः
मतिम् एतां ददातीह परमानुग्रहाय वै ॥
प्रभातकाले संप्राप्ते काङ्क्षितव्ये समागमे
भगवंस् तर्पितः पुत्रः कैर् हव्यैः प्राप्स्यते सुखम् ॥
कुत्र वास्य निवासः स्याद् भोजनं च किमात्मकम्
विधास्यति भवान् अस्य वीर्यतुल्यं महौजसः ॥
वडवामुखे ऽस्य वसतिः समुद्रे वै भविष्यति
मम योनिर् जलं विप्र तच् च मे तोयपं मुखम् ॥
तत्राहम् आसे निरतः पिबन् वारिमयं हवैः
तद्धविस् तव पुत्रस्य विसृजाम्य् आलयं च तत् ॥
ततो युगान्ते भूतानाम् एष चाहं च सुव्रत
सहितौ विचरिष्यावो निष्प्राणनकराव् इह ॥
एषो ऽग्निर् अन्तकालस्य सलिलाशी मया कृतः
दहनः सर्वभूतानां सदेवासुररक्षसाम् ॥
एवम् अस्त्व् इति सो ऽप्य् अग्निः संवृतज्वालमण्डलः
प्रविवेशार्णवमुखं निक्षिप्य पितरि प्रभाम् ॥
प्रतियातस् ततो ब्रह्मा ते च सर्वे महर्षयः
और्वस्याग्नेः प्रभावज्ञाः स्वां स्वां गतिम् उपाश्रिताः ॥
हिरण्यकशिपुर् दृष्ट्वा तद् अद्भुतम् अपूजयत्
और्वं प्रणतसर्वाङ्गो वाक्यं चेदम् उवाच ह ॥
भगवन्न् अद्भुतम् इदं निर्वृत्तं लोकसाक्षिकम्
तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः ॥
अहं तु तव पुत्रस्य तव चैव महाव्रत
भृत्य इत्य् अवगन्तव्यः श्लाघ्यो ऽस्मि यदि कर्मणा ॥
तं मा पश्य समापन्नं तवैवाराधने रतम्
यत् सीदेयं मुनिश्रेष्ठ तवैव स्यात्पराजयः ॥
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य ते ऽहं गुरुर् मतः
नास्ति ते तपसानेन भयम् अद्येह सुव्रत ॥
इमां च मायां गृह्णीष्व मम पुत्रेण निर्मिताम्
निरिन्धनाम् अग्निमयीं दुःस्पर्शां पावकैर् अपि ॥
एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे
रक्षिष्यत्य् आत्मपक्षं च परांश् च प्रदहिष्यति ॥
एवम् अस्त्व् इति तां गृह्य प्रणम्य मुनिपुंगवम्
जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥
सैषा दुर्विषहा माया देवैर् अपि दुरासदा
और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना ॥
तस्मिंस् तु व्युत्थिते दैत्ये निर्वीयैषा न संशयः
शापो ह्य् अस्याः पुरा दत्तः सृष्टा येनैव तेजसा ॥
यद्य् एषा प्रतिहन्तव्या कर्तव्यो भगवान् सुखी
दीयतां मे सखा शक्र तोययोनिर् निशाकरः
तेनाहं सह संगम्य यादोभिश् च समाहितः ।
मायाम् एतां हनिष्यामि त्वत्प्रसादान् न संशयः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0