हरिवंश · अध्याय 34
श्रुतस् ते दैत्यसैन्यस्य विस्तरस् तात विग्रहे
सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु ॥
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ
सबलाः सानुगाश् चैव संनह्यन्त यथाक्रमम् ॥
पुरुहूतस् तु पुरतो लोकपालः सहस्रदृक्
ग्रामणीः सर्वदेवानाम् आरुरोह सुरद्विपम् ॥
सव्ये चास्य रथः पार्श्वे पक्षिप्रवरवेगवान्
सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥
देवगन्धर्वयक्षौघैर् अनुयातः सहस्रशः
दीप्तिमद्भिः सदस्यैश् च ब्रह्मर्षिभिर् अभिष्टुतः ॥
वज्रविस्फूर्जितोद्धूतैर् विद्युदिन्द्रायुधार्पितैः
गुप्तो बलाहकगणैः पर्वतैर् इव कामगैः ॥
यम् आरूढः स भगवान् पर्येति मघवान् गजम्
हविर् धानेषु गायन्ति विप्रा मखमुखे स्थिताः ॥
स्वर्गे शक्रानुयातेषु देवतूर्यानुनादिषु
इन्द्रं समुपनृत्यन्ति शतशो ह्य् अप्सरोगणाः ॥
केतुना वंशराजेन भ्राजमानो यथा रविः
युक्तो हयसहस्रेण मनोमारुतरंहसा ॥
स स्यन्दनवरो भाति युक्तो मातलिना तदा
कृत्स्नः परिवृतो मेरुर् भास्करस्येव तेजसा ॥
यमस् तु दण्डम् उद्यम्य कालयुक्तं च मुद्गरम्
तस्थौ सुरगणानीके दैत्यान् नादेन भीषयन् ॥
चतुर्भिः सागरैर् गुप्तो लेलिहद्भिश् च पन्नगैः
शङ्खमुक्ताङ्गदधरो बिभ्रत् तोयमयं वपुः ॥
कालपाशान् समाविध्य हयैः शशिकरोपमैः
वाय्वीरितजलोद्गारैः कुर्वंल् लीलाः सहस्रशः ॥
पाण्डुरोद्धूतवसनः प्रवालरुचिराङ्गदः
मणिश्यामोत्तमवपुर् हारभारार्पितोदरः ॥
वरुणः पाशभृन्मध्ये देवानीकस्य तस्थिवान्
वरुणः पाशहस्तः सन् देवानीके व्यतिष्ठत ।
युद्धवेलाम् अभिलषन् भिन्नवेल इवार्णवः ॥
यक्षराक्षससैन्येन गुह्यकानां गणैर् अपि
मणिश्यामोत्तमवपुः कुबेरो नरवाहनः ।
युक्तश् च शङ्खपद्माभ्यां निधीनाम् अधिपः प्रभुः
राजराजेश्वरः श्रीमान् गदापाणिर् अदृश्यत ॥
विमानयोधी धनदो विमाने पुष्पके स्थितः
स राजराजः शुशुभे युद्धार्थी नरवाहनः
प्रेक्षमाणः शिवसखः साक्षाद् इव शिवः स्वयम् ॥
पूर्वं पक्षं सहस्राक्षः पितृराजस् तु दक्षिणम्
वरुणः पश्चिमं पक्षम् उत्तरं नरवाहनः ॥
चतुर्षु युक्ताश् चत्वारो लोकपाला बलोत्कटाः
स्वां स्वां दिशं ररक्षुस् ते तस्य देवबलस्य ह ॥
सूर्यः सप्ताश्वयुक्तेन रथेनाम्बरगामिना
श्रिया जाज्वल्यमानेन दीप्यमानैश् च रश्मिभिः ॥
उदयास्तगचक्रेण मेरुपर्यन्तगामिना
त्रिदिवद्वारचित्रेण तपता लोकम् अव्ययम् ॥
सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा
चचार मध्ये देवानां द्वादशात्मा दिनेश्वरः ॥
सोमः श्वेतहयो भाति स्यन्दने शीतरश्मिवान्
हिमतोयप्रपूर्णाभिर् भाभिर् आप्लावयञ् जगत् ॥
तम् ऋक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम्
शशच्छायाङ्किततनुं नैशस्य तमसः क्षयम् ॥
ज्योतिषाम् ईरणं व्योम्नि रसानां रसनं प्रभुम्
ओषधीनां परित्राणं निधानम् अमृतस्य च ॥
जगतः प्रथमं भागं सौम्यं शैत्यमयं रसम्
ददृशुर् दानवाः सोमं हिमप्रहरणं स्थितम् ॥
यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु
सप्तस्कन्धगतो लोकांस् त्रीन् दधार चचार च ॥
यम् आहुर् अग्नेर् यन्तारं सर्वप्रभवम् ईश्वरम्
सप्तस्वरगता यस्य योनिर् गीभिर् उदीर्यते ॥
यं वदन्त्य् उत्तमं भूतं यं वदन्त्य् अशरीरिणम्
यम् आहुर् आकाशगमं शीघ्रगं शब्दयोनिनम् ॥
स वायुः सर्वभूतायुर् उद्धतः स्वेन तेजसा
प्रववौ व्यथयन् दैत्यान् प्रतिलोमः सतोयदः ॥
मरुतो देवगन्धर्वा विद्याधरगणैः सह
चिक्रीडुर् असिभिः शुभ्रैर् निर्मुक्तैर् इव पन्नगैः ॥
सृजन्तः सर्पपतयस् तीव्रं रोषमयं विषम्
शरभूताः सुरेन्द्राणां चेरुर् व्यात्तमुखा दिवि ॥
पर्वतास् तु शिलाशृङ्गैः शतशाखैश् च पादपैः
उपतस्थुः सुरगणान् प्रहर्तुं दानवं बलम् ॥
यः स देवो हृषीकेशः पद्मनाभस् त्रिविक्रमः
कृष्णवर्त्मा युगान्ताभो विश्वस्य जगतः प्रभुः ॥
समुद्रयोनिर् मधुहा हव्यभुक् क्रतुसत्कृतः
भूम्यापोव्योमभूतात्मा स्यामः शान्तिकरो ऽरिहा ॥
सो ऽर्कम् अग्नाव् इवोद्यन्तम् उद्यम्योत्तमतेजसम्
अरिघ्नम् असुरानीके चक्रं चक्रगदाधरः
सपरीवेषम् उद्यन्तं सवितुर् मण्डलं यथा ॥
सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम्
करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ॥
शेषैर् भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः
दधारायुधजातानि शार्ङ्गादीनि महायशाः ॥
स कश्यपस्यात्मभुवं द्विजं भुजगभोजनम्
पवनाधिकसंपातं गगनक्षोभणं खगम् ॥
भुजगेन्द्रेण वदने निविष्टेन विराजितम्
अमृतारम्भनिर्मुक्तं मन्दराद्रिम् इवोच्छ्रितम् ॥
देवासुरविमर्देषु शतशो दृष्टविक्रमम्
महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् ॥
शिखिनं चूडिनं चैव तप्तकुण्डलभूषणम्
विचित्रपत्रवसनं धातुमन्तम् इवाचलम् ॥
स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा
भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥
पक्षाभ्यां चारुपत्राभ्याम् आवृत्य दिवि लीलया
युगान्ते सेन्द्रचापाभ्यां तोयदाभ्याम् इवाम्बरम् ॥
नीललोहितपीताभिः पताकाभिर् अलंकृतम्
केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥
अरुणावरजं श्रीमान् आरुरोह रणे हरिः
स्थितः समरदुर्जेयो दैत्यसैन्यं विलोकयन् ।
सुपर्णः स्वेन वपुषा सुपर्णं खेचरोत्तमम् ॥
तम् अन्वयुर् देवगणा मुनयश् च समाहिताः
गीर्भिः परममन्त्राभिस् तुष्टुवुश् च गदाधरम् ॥
तद् वैश्रवणसुश्लिष्टं वैवस्वतपुरःसरम्
वारिराजपरिक्षिप्तं देवराजविराजितम् ॥
चन्द्रप्रभाभिर् विमलं युद्धाय समवस्थितम्
ययौ हितं देवपथं दीप्तभास्करतेजसम् ।
पवनाविद्धनिर्घोषं संप्रदीप्तहुताशनम् ॥
विष्णोर् जिष्णोः सहिष्णोश् च भ्राजिष्णोस् तेजसा वृतम्
बलं बलवदुद्धूतं युद्धाय समवर्तत ॥
स्वस्त्य् अस्तु देवेभ्य इति स्तुवंस् तत्राङ्गिराब्रवीत्
स्वस्त्य् अस्त्व् इति स्तुवंस् तत्र देवान् आङ्गिरसो ऽब्रवीत् ।
स्वस्त्य् अस्तु दैत्येभ्य इति उशना वाक्यम् अब्रवीत् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0