हरिवंश · अध्याय 31
प्रश्नभारो महांस् तात त्वयोक्तः शार्ङ्गधन्वनि
यथाशक्ति तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥
विष्णोः प्रभावश्रवणे दिष्ट्या ते मतिर् उत्थिता
हन्त विष्णोः समस्तास् त्वं शृणु दिव्याः प्रवृत्तयः ॥
सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम्
सहस्रशिरसं देवं सहस्रकरम् अव्ययम् ॥
सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम्
सहस्रदं सहस्रादिं सहस्रभुजम् अव्ययम् ॥
सवनं हवनं चैव हव्यं होतारम् एव च
पात्राणि च पवित्राणि वेदिं दीक्षां चरुं स्रुवम् ॥
स्रुक्सोमशूर्पम् उपभृत् प्रोक्षणीं दक्षिणायनम्
अध्वर्युं सामगं विप्रं सदस्यं सदनं सवम् ॥
यूपं समित्स्रुवं दर्वीं चमसोलूखलानि च
प्राग्वंशं यज्ञभूमिं च होतारं चयनं च यत् ॥
ह्रस्वान्य् अतिप्रमाणानि स्थावराणि चराणि च
प्रायश्चित्तानि चार्घ्यं च स्थण्डिलानि कुशांस् तथा ॥
मन्त्रं यज्ञवहं वह्निं भागं भागवहं च यत्
अग्रेभुजं सोमभुजं हुतार्चिषम् उदायुधम्
आहुर् वेदविदो विप्रा यं यज्ञं शाश्वतं विभुम् ॥
तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः
प्रादुर्भावसहस्राणि समतीतान्य् अनेकशः
सर्वयज्ञमुखं देवं सर्वयज्ञप्रवर्तिनम् ।
भूयश् चैव भविष्यन्तीत्य् एवम् आह पितामहः ॥
यत् पृच्छसि महाराज दिव्यां पुण्यां कथां शुभाम्
किमर्थं भगवान् विष्णुर् वसुदेवकुले ऽभवत् ॥
तत् ते ऽहं संप्रवक्ष्यामि शृणु सर्वम् अशेषतः
वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः ॥
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः
प्रादुर्भावांश् च वक्ष्यामि पुण्यान् देवगुणैर् युतान् ॥
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान्
पूर्णे युगसहस्रे तु देवदेवो जगत्पतिः ॥
ब्रह्मा च कपिलश् चैव परमेष्ठी तथैव च
देवाः सप्तर्षयश् चैव त्र्यम्बकश् च महायशाः ॥
सनत्कुमारश् च महानुभावो मनुर् महात्मा भगवान् प्रजाकरः
पुराणदेवो ऽथ पुराणि चक्रे प्रदीप्तवैश्वानरतुल्यतेजाः ॥
येन चार्णवमध्यस्थौ नष्टे स्थावरजंगमे
नष्टे देवासुरनरे प्रनष्टोरगराक्षसे ॥
योद्धुकामौ सुदुर्धर्षौ दानवौ मधुकैटभौ
हतौ प्रभवता तेन तयोर् दत्त्वामितं वरम् ॥
पुरा कमलनाभस्य स्वपतः सागराम्भसि
पुष्करे यत्र संभूता देवाः सर्षिगणाः पुरा ॥
एष पौष्करको नाम प्रादुर्भावः प्रकीर्तितः
पुराणं कथ्यते यत्र वेदश्रुतिसमाहितम् ॥
वाराहस् तु श्रुतिसुखः प्रादुर्भावो महात्मनः
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपम् आस्थितः ॥
वेदपादो यूपदंष्ट्रः क्रतुदन्तश् चितीमुखः
अग्निजिह्वो दर्भलोमा ब्रह्मशीर्षो महातपाः ॥
अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः
आज्यनासः स्रुवस् तुण्डः सामघोषस्वनो महान् ॥
धर्मसत्यमयः श्रीमान् क्रमविक्रमसत्कृतः
प्रायश्चित्तनखो धीरः पशुजानुर् महावृषः ॥
उद्गात्रान्त्रो होमलिङ्गः फलबीजमहौषधिः
वाय्वन्तरात्मा मन्त्रस्फिग् विकृतः सोमशोणितः ॥
वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिर् आचितः ॥
दक्षिणाहृदयो योगी महासत्रमयो महान्
उपाकर्मेष्ठरुचकः प्रवर्ग्यावर्तभूषणः
नानाछन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः ॥
महीं सागरपर्यन्तां सशैलवनकाननाम्
एकार्णवजले भ्रष्टाम् एकार्णवगतिः प्रभुः ॥
दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया
सहस्रशीर्षो देवादिश् चकार जगतीं पुनः ॥
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना
उद्धृता पृथिवी देवी सागराम्बुधरा पुरा ॥
वाराह एष कथितो नारसिंहम् अतः शृणु
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर् हतः ॥
पुरा कृतयुगे राजन् सुरारिर् बलदर्पितः
दैत्यानाम् आदिपुरुषश् चकार तप उत्तमम् ॥
दश वर्शसहस्राणि शतानि दश पञ्च च
जलोपवासस् तस्यासीत् स्थानमौनदृढव्रतः ॥
ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ
ब्रह्मा प्रीतमनास् तस्य तपसा नियमेन च ॥
तं वै स्वयंभूर् भगवान् स्वयम् आगम्य भूपते
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥
आदित्यैर् वसुभिः साध्यैर् मरुद्भिर् दैवतैः सह
रुद्रैर् विश्वसहायैश् च यक्षराक्षसकिंनरैः ॥
दिशाभिर् विदिशाभिश् च नदीभिः सागरैस् तथा
नक्षत्रैश् च मुहूर्तैश् च खेचरैश् च महाग्रहैः ॥
देवर्षिभिस् तपोवृद्धैः सिद्धैः सप्तर्षिभिस् तथा
राजर्षिभिः पुण्यतमैर् गन्धर्वैर् अप्सरोगणैः ॥
चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस् तथा
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनम् अब्रवीत् ॥
प्रीतो ऽस्मि तव भक्तस्य तपसानेन सुव्रत
वरं वरय भद्रं ते यथेष्टं कामम् आप्नुहि ॥
न देवासुरगन्धर्वा न यक्षोरगराक्ष्साः
न मानुषाः पिशाचा वा हन्युर् मां देवसत्तम ॥
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह
शपेयुस् तपसा युक्ता वरम् एतं वृणोम्य् अहम् ॥
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा
न शुष्केण न चार्द्रेण स्यान् न चान्येन मे वधः ॥
भवेयम् अहम् एवार्कः सोमो वायुर् हुताशनः
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥
अहं क्रोधश् च कामश् च वरुणो वासवो यमः
धनदश् च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥
एते दिव्या वरास् तात मया दत्तास् तवाद्भुताः
सर्वान् कामान् इमांस् तात प्राप्स्यसि त्वं न संशयः ॥
एवम् उक्त्वा तु भगवाञ् जगामाकाशम् एव ह
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥
ततो देवाश् च नागाश् च गन्धर्वा मुनयस् तथा
वरप्रदानं श्रुत्वैव पितामहम् उपस्थिताः ॥
वरदानेन भगवन् वधिष्यति स नो ऽसुरः
तत् प्रसीदस्व भगवन् वधो ऽस्य प्रविचिन्त्यताम् ॥
भगवान् सर्वभूतानां स्वयंभूर् आदिकृद् विभुः
स्रष्टा च हव्यकव्यानाम् अव्यक्तः प्रकृतिर् ध्रुवः ॥
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः
प्रोवाच भगवान् वाक्यं सर्वान् देवगणांस् तदा ॥
अवश्यं त्रिदशास् तेन प्राप्तव्यं तपसः फलम्
तपसो ऽन्ते ऽस्य भगवान् वधं विष्णुः करिष्यति ॥
एतच् छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः
स्वानि स्थानानि दिव्यानि जग्मुस् ते वै मुदा युताः ॥
लब्धमात्रे वरे चापि सर्वाः सो ऽबाधत प्रजाः
हिरण्यकशिपुर् दैत्यो वरदानेन दर्पितः ॥
आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान्
सत्यधर्मरतान् दान्तान् पुरा धर्षितवांस् तु सः ॥
देवांस् त्रिभुवनस्थांश् च पराजित्य महासुरः
त्रैलोक्यं वशम् आनीय स्वर्गे वसति दानवः ॥
यदा वरमदोन्मत्तो न्यवसद् दानवो भुवि
यज्ञियान् अकरोद् दैत्यान् अयज्ञीयाश् च देवताः ॥
आदित्याश् च ततः साध्या विश्वे ऽथ वसवस् तथा
मरुतो ऽप्सरसश् चैव गन्धर्वा ब्रह्मविद्द्विजाः ।
ऋषिनागाः सुपर्णाश् च ये चान्ये ऽप्य् एवमादयः ।
शरण्यं शरणं विष्णुम् उपतस्थुर् महाबलम् ॥
देवं ब्रह्ममयं यज्ञं ब्रह्मदेवं सनातनम्
भूतभव्यभविष्यस्य प्रभुं लोकनमस्कृतम्
नारायणं विभुः देवाः शरण्यं शरण्यं गताः ॥
त्रायस्व नो ऽद्य देवेश हिरण्यकशिपोर् वधात्
त्वं हि न परमो देवस् त्वं हि न परमो गुरुः
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥
उत्फुल्लाम्बुजपत्राक्ष शत्रुपक्षभयावह
क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥
भयं त्यजध्वम् अमरा अभयं वो ददाम्य् अहम्
तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥
एषो ऽहं सगणं दैत्यं वरदानेन दर्पितम्
अवध्यम् अमरेन्द्राणां दानवेन्द्रं निहन्मि तम् ॥
एवम् उक्त्वा स भगवान् विसृज्य त्रिदशेश्वरान्
हिरण्यकशिपो राजन्न् आजगाम हरिः सभाम् ॥
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं तथा
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥
जीमूतघनसंकाशो जीमूतघननिस्वनः
जीमूतघनदीप्तौजा जीमूत इव वेगवान् ॥
दैत्यं सो ऽतिबलं दृप्तं दृप्तशार्दूलविक्रमम्
दृप्तैर् दैत्यगणैर् गुप्तं हतवान् एकपाणिना ॥
नृसिंह एष कथितो भूयो ऽयं वामनो ऽपरः
यत्र वामनम् आश्रित्य रूपं दैत्यविनाशनम् ॥
बलेर् बलवतो यज्ञे बलिना विष्णुना पुरा
विक्रमैस् त्रिभिर् अक्षोभ्याः क्षोभितास् ते महासुराः ॥
विप्रचित्तिः शिबिः शङ्कुर् अयःशङ्कुस् तथैव च
अयःशिरा अश्वशिरा हयग्रीवश् च वीर्यवान्
वेगवान् केतुमान् उग्रः सोग्रव्यग्रो महासुरः ॥
पुष्करः पुष्कलश् चैव साश्वो ऽश्वपतिर् एव च
प्रह्रादो ऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ॥
अनुह्रादो हरिहरौ वराहः संहरो रुजः
वेपनश् च महारथः ।
बृहत्कीर्तिर् महाजिह्वः ।
शरभः शलभश् चैव कुपनः कोपनः क्रथः ॥
बृहत्कीर्तिर् महाजिह्वः शङ्कुकर्णो महास्वनः
दीर्घजिह्वो ऽर्कनयनो मृदुपादो मृदुप्रियः ॥
वायुर् गविष्ठो नमुचिः शम्बरो विक्षरो महान्
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ॥
कालकः कालकेयश् च वृत्रः क्रोधो विरोचनः
गरिष्ठश् च वरिष्ठश् च प्रलम्बनरकाव् उभौ ॥
इन्द्रतापनवातापी केतुमान् बलदर्पितः
असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ॥
खसृमः कालवदनः करालः केशिर् एव च
एकाक्षश् चन्द्रहा राहुः संह्रादः सृमरः स्वनः ॥
शतघ्नीचक्रहस्ताश् च तथा परिघपाणयः
अश्मयन्त्रायुधोपेता भिण्डिपालायुधास् तथा ॥
शूलोलूखलहस्ताश् च परश्वधधरास् तथा
पाशमुद्गरहस्ता वै तथा लगुडपाणयः ॥
महाशिलाप्रहरणाः शूलहस्ताश् च दानवाः
नानाप्रहरणा घोरा नानावेषा महाजवाः ॥
कूर्मकुक्कुटवक्त्राश् च शशोलूकमुखास् तथा
खरोष्ट्रवदनाश् चैव वराहवदनास् तथा ॥
भीमा मकरवक्त्राश् च क्रोष्टुवक्त्राश् च दानवाः
आखुदर्दुरवक्त्राश् च घोरा वृकमुखास् तथा ॥
मार्जारशशवक्त्राश् च महावक्त्रास् तथापरे
नक्रमेषाननाः शूरा गोजाविमहिषाननाः ॥
गोधाशल्यकवक्त्राश् च क्रौञ्चवक्त्रास् तथापरे
गरुडाननाः खड्गमुखा मयूरवदनास् तथा ॥
गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः
चीरसंवृतगात्राश् च तथा वल्कलवाससः ॥
उष्णीषिणो मुकुटिनस् तथा कुण्डलिनो ऽसुराः
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः
नानावेषधरा दैत्या नानामाल्यानुलेपनाः ॥
स्वान्य् आयुधानि संगृह्य प्रदीप्तानीव तेजसा
क्रममाणं हृषीकेशम् उपावर्तन्त सर्वशः ॥
प्रमथ्य सर्वान्दैतेयान् पादहस्ततलैस् ततः
रूपं कृत्वा महाभींअं जहाराशु स मेदिनीम् ॥
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे
नभः प्रक्रममाणस्य नाभ्यां किल समास्थितौ ॥
परमाक्रममाणस्य जानुभ्यां तौ व्यवस्थितौ
विष्णोर् अमितवीर्यस्य वदन्त्य् एवं द्विजातयः ॥
हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुंगवान्
ददौ शक्राय वसुधां विष्णुर् बलवतां वरः ॥
एष ते वामनो नाम प्रादुर्भावो महात्मनः
वेदविद्भिर् द्विजैर् एतत् कथ्यते वैष्णवं यशः ॥
भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः
दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥
तेन नष्टेषु देवेषु प्रक्रियासु मखेषु च
चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते ॥
अभिवर्धति चाधर्मे सत्ये नष्टे ऽनृते स्थिते
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै
चातुर्वर्ण्यम् असंकीर्णं कृतं तेन महात्मना ॥
तेन हेहयराजस्य कार्तवीर्यस्य धीमतः
वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥
एतद् बाहुद्वयं यत् ते तत् ते मम कृते नृप
शतानि दश बाहूनां भविष्यति न संशयः ॥
पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर
दुर्निरीक्ष्यो ऽरिवृन्दानां युद्धस्थश् च भविष्यसि ॥
एष ते वैष्णवः श्रीमान् प्रादुर्भावो ऽद्भुतः शुभः
कथितो वै महाराज यथाश्रुतम् अरिंदम ।
भूयश् च जामदग्न्यो ऽयं प्रादुर्भावो महात्मनः ॥
यत्र बाहुसहस्रेण विस्मितं दुर्जयं रणे
रामो ऽर्जुनम् अनीकस्थं जघान नृपतिं प्रभुः ॥
रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि
धर्षयित्वा यथाकामं क्रोशमानं च मेघवत् ॥
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः
परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ॥
कीर्णा क्षत्रियकोटीभिर् मेरुमन्दरभूषणा
त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥
कृत्वा निःक्षत्रियां चैव भार्गवः सुमहातपाः
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥
तस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः
मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् ॥
वारुणांस् तुरगाञ् शुभ्रान् रथं च रथिनां वरः
हिरण्यम् अक्षयं धेनूर् गजेन्द्रांश् च महामतिः
ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः ॥
अद्यापि च हितार्थाय लोकानां भृगुनन्दनः
चरमाणस् तपो दीप्तं जामदग्न्यः पुनः पुनः
तिष्ठते देववच् छ्रीमान् महेन्द्रे पर्वतोत्तमे ॥
एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥
चतुर्विंशे युगे चापि विश्वामित्रपुरःसरः
जज्ञे दशरथस्याथ पुत्रः पद्मायतेक्षणः ॥
कृत्वात्मानं महाबाहुश् चतुर्धा प्रभुर् ईश्वरः
लोके राम इति ख्यातस् तेजसा भास्करोपमः ॥
प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च
धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः
तम् अप्य् आहुर् मनुष्येन्द्रं सर्वभूतपतेस् तनुम् ॥
तस्मै दत्तानि चास्त्राणि विश्वामित्रेण धीमता
वधार्थं देवशत्रूणां दुर्धराणि सुरैर् अपि ॥
यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम्
मारीचश् च सुबाहुश् च बलेन बलिनां वरौ
निहतौ च निराशौ च कृतौ तेन महात्मना ॥
वर्तमाने मखे येन जनकस्य महात्मनः
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥
यः समाः सर्वधर्मज्ञश् चतुर्दश वने ऽवसत्
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ॥
रूपिणी यस्य पार्श्वस्था सीतेति प्रथिता जनैः
पूर्वोचितत्वाद्या लक्ष्मीर् भर्तारम् अनुगच्छति ॥
चतुर्दश वने तप्त्वा तपो वर्षाणि राघवः
जनस्थाने वसन् कार्यं त्रिदशानां चकार सः ॥
सीतायाः पदम् अन्विच्छन् निजघान महामनाः
विराधं च कबन्धं च राक्षसौ भीमविक्रमौ
जघान पुरुषव्याघ्रौ गन्धर्वौ शापविक्षतौ ॥
हुताशनार्कांशुतडित्प्रकाशैः प्रतप्तजाम्बूनदचित्रपुङ्खैः
सुरेन्द्रवज्राशनितुल्यसारैः शरैः शरीरेषु वियोजितौ बलात् ॥
सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः
वाली विनिहतः संख्ये सुग्रीवश् चाभिषेचितः ॥
देवासुरगणानां हि यक्षराक्षसपक्षिणाम्
यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ॥
गुप्तं राक्षसकोटीभिर् नीलाञ्जनचयोपमम्
त्रैलोक्यरावणं क्रूरं राक्षसं राक्षसेश्वरम् ॥
दुर्जरं दुर्धरं दृप्तं शार्दूलसमविक्रमम्
दुर्निरीक्ष्यं सुरगणैर् वरदानेन दर्पितम् ॥
जघान सचिवैः सार्धं ससैन्यं रावणं युधि
महाभ्रघनसंकाशं महाकायं महाबलम् ॥
तम् आगस्कारिणं क्रूरं पौलस्त्यं पुरुषर्षभः
सभ्रातृपुत्रसचिवं ससैन्यं क्रूरनिश्चयम् ।
रावणं निजघानाशु रामो भूतपतिः पुरा ॥
मधोश् च तनयो दृप्तो लवणो नाम दानवः
हतो मधुवने भीमो वरदत्तो महासुरः
समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः ॥
एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः
दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान् ॥
नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ
न वित्तहरणं चासीद् रामे राज्यं प्रशासति ॥
पर्यदेवन् न विधवा नानर्थश् चाभवत् तदा
सर्वम् आसीज् जगद्दान्तं रामे राज्यं प्रशासति ॥
न प्राणिनां भयं चासीज् जलानलविघातजम्
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥
ब्रह्म पर्यच्चरत् क्षत्रं विशः क्षत्रम् अनुव्रताः
शूद्राश् चैव हि वर्णांस् त्रीञ् शुश्रूषन्त्य् अनहंकृताः ॥
नार्यो नात्यचरन् भर्तॄन् भार्यां नात्यचरत् पतिः
सर्वम् आसीज् जगद्दान्तं निर्दस्युर् अभवन् मही
राम एको ऽभवद् भर्ता रामः पालयिताभवत् ॥
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः
अरोगाः प्राणिनश् चासन् रामे राज्यं प्रशासति ॥
देवतानाम् ऋषीणां च मनुष्याणां च सर्वशः
पृथिव्यां सहवासो ऽभूद् रामे राज्यं प्रशासति ॥
गाथा अप्य् अत्र गायन्ति ये पुराणविदो जनाः
रामे निबद्धास् तत्त्वार्था माहात्म्यं तस्य धीमतः ॥
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषिता
आजानबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥
दश वर्षसहस्राणि दश वर्षशतानि च
अयोध्याधिपतिर् भूत्वा रामो राज्यम् अकारयत् ॥
ऋक्सामयजुषां घोषो ज्याघोषश् च महात्मनः
अव्युच्छिन्नो ऽभवद् राष्ट्रे दीयतां भुज्यताम् इति ॥
सत्त्ववान् गुणसंपन्नो दीप्यमानः स्वतेजसा
अति सूर्यं च चन्द्रं च रामो दाशरथिर् बभौ ॥
ईजे क्रतुशतैः पुण्यैः समाप्तवरदाक्षिणैः
हित्वायोध्यां दिवं यातो राघवो ऽसौमहाबलः ॥
एवम् एष महाबाहूर् इक्ष्वाकुकुलनन्दनः
रावणं सगणं हत्वा दिवम् आचक्रमे प्रभुः ॥
अपरः केशवस्यायं प्रादुर्भावो महात्मनः
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥
यत्र साल्वं च कंसं च मैन्दं द्विविदम् एव च
अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा
दैत्यान् मानुषदेहस्थान् सूदयाम् आस वीर्यवान् ॥
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः
नरकश् च हतः संख्ये यवनश् च महाबलः ॥
हृतानि च महीपानां सर्वरत्नानि तेजसा
दुराचाराश् च निहताः पार्थिवा ये महीतले ॥
एते लोकहितार्थाय प्रादुर्भावा महात्मनः
अतीताः कथिता राजन् कथ्यन्ते चाप्य् अनागताः ।
कल्की विष्णुयशा नाम भूयश् चोत्पत्स्यते प्रभुः ॥
एते चान्ये च बहवो दिव्या देवगुणैर् युताः
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ॥
यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने
पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् ॥
एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम्
कीर्तितं कीर्तनीयस्य सर्वलोकगुरोः प्रभोः ॥
प्रीयन्ते पितरस् तस्य प्रादुर्भावानुकीर्तनात्
विष्णोर् अमितवीर्यस्य यः शृणोति कृताञ्जलिः ॥
एतास् तु योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः
ऋद्धिं समृद्धिं विपुलांश् च भोगान् प्राप्नोति शीघ्रं भगवत्प्रसादात् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0